मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३३९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 339

ततो गच्छेन्महादेवि कूपं त्रैलोक्यविश्रुतम्

ईश्वर उवाच

ततो गच्छेन्महादेवि कूपं त्रैलोक्यविश्रुतम् ॥

देविकायास्तटे रम्ये हुंकारेणैव पूर्यते

॥१॥

ततोऽधस्तात्पुनर्याति सलिलं तत्र भामिनि ॥

तण्डीनाम पुरा प्रोक्तो देविकातटमास्थितः

॥२॥

तपस्तेपे महादेवि शिवभक्तिपरायणः ॥

तस्यैवं तप्यमानस्य तस्मिन्देशे वरानने

॥३॥

आजगाम मृगो वृद्धस्तं देशमन्ध दृक्प्रिये ॥

स पपात महागर्ते अगाधे जलवर्जिते

॥४॥

तं दृष्ट्वा कृपयाविष्टः स मुनिर्मौनमास्थितः ॥

हुंकारं कुरुते तत्र भूयोभूयश्च भामिनि

॥५॥

अथ हुंकारशब्देन तस्य गर्तः प्रपूरितः ॥

ततो मृगो विनिष्क्रांतः कृच्छ्रेण सलिलात्प्रिये

॥६॥

मानुषं रूपमाश्रित्य तमृषिं पर्यपृच्छत ॥

विस्मयं परमं गत्वा काम्यदं कर्मणः फलम्

॥७॥

मृगत्वे पतितश्चात्र नरो भूत्वा विनिर्गतः ॥

सोऽब्रवीत्तस्य माहात्म्यं सलिलस्य द्विजोत्तमः

॥८॥

अतोऽहं नरतां प्राप्तो नान्यदस्तीह कारणम् ॥

ततस्तत्सलिलं भूयः प्रविष्टं धरणीतले

॥९॥

ततो हुंकृतवान्भूयः स ऋषिः कौतुकान्वितः ॥

आपूरितः पुनः कूपः सलिलेन पुरा यथा

॥१०॥

ततः स कृतवान्स्नानं तथा च पितृतर्पणम् ॥

मत्वा तीर्थवरं तत्र ततः प्राप्तः परां गतिम्

॥११॥

अद्यापि हुंकृते तस्मिन्सलिलौघः प्रवर्तते ॥

तत्र गत्वा नरो भक्त्या अपि पापरतोऽपि यः

॥१२॥

न मानुष्यं पुनर्जन्म प्राप्नोति जगतीतले ॥

तत्र स्नात्वा शुचिर्भूत्वा यः श्राद्धं कुरुते नरः

॥१३॥

मुच्यते सर्वपापेभ्यः पितृलोके महीयते ॥

कुलानि तारयेत्सप्त अतीताऽनागतानि च

॥१४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये हुंकारकूपमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३९ ॥