मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २३८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 238

ततो गच्छेन्महादेवि हिरण्यां पापनाशिनीम्

ईश्वर उवाच

ततो गच्छेन्महादेवि हिरण्यां पापनाशिनीम् ॥

सर्वकामप्रदां पुण्यां दारिद्र्यस्यांतकारिणीम्

॥१॥

तत्र स्नात्वा विधानेन कृत्वा पिंडोदक क्रियाम् ॥

प्राप्नुयादक्षयाँल्लोकान्पितॄनुद्धृत्य पापतः

॥२॥

एकं यो भोजयेत्तत्र ब्राह्मणं शंसितव्रतम् ॥

तेनायुतसहस्रं हि भोजितं स्याद्द्विजन्मनाम्

॥३॥

तत्र हेमरथा देयो ब्राह्मणे वेदपारगे ॥

विधिना शिवमुद्दिश्य यात्रायुतफलं लभेत्

॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये हिरण्यानदीमाहात्म्यवर्णनंनामाष्टात्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३८ ॥