मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २२५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 225

ऽनरकेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततोगच्छेन्महादेवि देवं चाऽनरकेश्वरम् ॥

तस्मादुत्तरदिग्भागे सर्वपातकनाशनम् ॥

तन्माहात्म्यं प्रवक्ष्यामि शृणु ह्येकमनाः प्रिये

॥१॥

मथुरानाम विख्याता नगरी धरणीतले ॥

तत्र विप्रोऽभवत्पूर्वं देवशर्मेति विश्रुतः ॥

अगस्त्यगोत्रो विद्वान्वै स तु दारिद्र्यपीडितः

॥२॥

अथापरोऽभवत्तत्र तादृग्रूपवयोऽन्वितः ॥

तन्नाम गोत्रो देवेशि ब्राह्मणो वेदपारगः

॥३॥

अथ प्राह यमो दूतं रौद्रमूर्धशिरोरुहम् ॥

गच्छ भो मथुरां शीघ्रं देवशर्माणमानय

॥४॥

अथागत्य ततो दूतो गृहीत्वा तत्र वै गतः ॥

तं दृष्ट्वाथ यमो नत्वा प्राह दूतं क्रुधान्वितः

॥५॥

नायमानेतुमादिष्टो देवशर्मां मया तव ॥

अन्योस्ति देवशर्मा यस्त मानय गतायुषम् ॥

एनं विप्रं च दीर्घायुं नय तत्राविलंबितम्

॥६॥

ईश्वर उवाच

अथाब्रवीद्ब्राह्मणो वै नाहं यास्ये गृहं विभो ॥

दारिद्र्येणातिनिर्विण्णो यावज्जीवं सुरेश्वर ॥

इहैव क्षपयिष्यामि शेषमायुस्तवांतिके

॥७॥

यम उवाच

अकाले नात्र चायाति कश्चिद्ब्राह्मणसत्तम ॥

मुहूर्तमपि नो जीवेत्पूर्णकालेन वै भुवि

॥८॥

अत एव हि मे नाम धर्मराजेति विश्रुतम्

॥९॥

न मे सुहृन्न मे द्वेष्यः कश्चिदस्ति धरातले ॥

विद्धः शरशतेनापि नाऽकाले म्रियते यतः

॥१०॥

कुशाग्रेणापि विद्धः सन्काले पूर्णे न जीवति ॥

तस्माद्गच्छ द्विजश्रेष्ठ यावद्गात्रं न दह्यते

॥११॥

अथाब्रवीद्ब्राह्मणोऽसौ यदि प्रेषयसे प्रभो ॥

प्रश्नमेकं मया पृष्टो यथावद्वक्तुमर्हसि

॥१२॥

न वृथा जायते देव साधूनां दर्शनं क्वचित् ॥

युष्माकं च विशेषेण तस्मादेतद्ब्रवीम्यहम्

॥१३॥

एते ये नरका रौद्रा दृश्यन्ते च सुदारुणाः ॥

कर्मणा केन कं गच्छेन्मानवो नरकं यम

॥१४॥

कति संख्याः स्युरेते च नरकाः किंप्रमाणतः ॥

एतत्सर्वं सुरश्रेष्ठ यथावद्वक्तुमर्हसि

॥१५॥

यम उवाच

शृणु देव प्रवक्ष्यामि यावन्तो नरकाः स्थिताः ॥

कर्मणा येन गच्छेत मानवो द्विजसत्तम ॥

एकविंशत्समाख्याता नरका मम मन्दिरे

॥१६॥

यानेतान्प्रेक्षसे विप्र यंत्र मध्ये व्यवस्थितान् ॥

पीड्यमानान्किंकरैर्मे कृतघ्नान्पा पसंयुतान्

॥१७॥

लोहास्यवायसा येषां नेत्रोद्धारं प्रकुर्वते ॥

एतैर्निरीक्षितान्येव कलत्राणि दुरात्मभिः

॥१८॥

परेषां द्विजशार्दूल सरागैः पापि भिः सदा ॥

कुम्भीपाकगतानेतानथ पश्यसि पापिनः

॥१९॥

कूटसाक्ष्यरता ह्येते कटुवाङ्निरतास्तथा ॥

एते लोहमयास्तम्भान्संतप्तान्पावकप्र भान्

॥२०॥

आलिंगंति दुरात्मानः परदाररतास्तु ये ॥

एते वैतरणीमध्ये पूयशोणितसंकुले

॥२१॥

ये तिष्ठंति द्विजश्रेष्ठ सर्वे विश्वासघातकाः ॥

असिपत्रवने घोरे भिद्यन्ते ये तु खण्डशः ॥

ते नष्टाः स्वामिनं त्यक्त्वा संग्रामे समुपस्थिते

॥२२॥

अंगारराशीन्वै दीप्तान्ये गाहन्ते नराधमाः ॥

स्वामिद्रोहरता ह्येते तथा हेतुप्रवादकाः

॥२३॥

लोहशंकुभिराकीर्णमाक्रमन्ति नराधमाः ॥

क्रन्दमाना द्विजश्रेष्ठ उपानद्दानवर्जिताः

॥२४॥

अधोमुखा निबद्धा ये वृक्षाग्रे पावकोपरि ॥

ब्रह्महत्यान्विताः सर्व एते चैव नराधमाः

॥२५॥

मशकैर्मत्कुणैः काकैर्ये भक्ष्यंते विहंगमैः ॥

व्रतभंगरता ह्येते व्रतिना चैव हिंसकाः

॥२६॥

कुठारकण्ठिता ह्येते भूयः संति तथाविधाः ॥

गोहन्तारो दुरात्मानो देवब्राह्मणानिंदका

॥२७॥

ये भक्ष्यंते शृगालैश्च वृकैर्लोहमयैर्मुखैः ॥

परस्वानां च हर्तारः परस्त्रीणां च हर्तृकाः ॥

आत्ममांसानि ये पापा भक्षयंति बुभुक्षिताः

॥२८॥

न दत्तमन्नमेतैस्तु कदाचिद्वै द्विजोत्तम ॥

रुधिरं ये पिबंत्येते वसापूयपरिप्लुतम् ॥

ब्राह्मणानां विनाशाय गवामेते सदा स्थिताः

॥२९॥

कूटशाल्मलिबद्धाश्च तीक्ष्णकण्टकपीडिताः ॥

छिद्रान्वेषणसंयुक्ताः परेषां नित्यसंस्थिताः

॥३०॥

क्रकचेन तु छिद्यन्ते य इमे द्विजसत्तम ॥

अभक्ष्यनिरता ह्येते स्वधर्मस्य विदूषकाः

॥३१॥

कन्याविक्रयकर्त्तारः कन्यानां जीवभंजकाः ॥

पुरीषमध्यगा ह्येते पच्यंते मम किंकरैः

॥३२॥

संदेशैर्दारुणैर्जिह्वा येषामुत्पाट्यते मुहुः ॥

वाग्लोपनिरता ह्येते मृषावादपरायणाः

॥३३॥

ये शीतेन प्रबाध्यंते वेप माना मुहुर्मुहुः ॥

देवस्वानां च हर्तारो ब्राह्मणानां विशेषतः

॥३४॥

तेषां शिरसि निक्षिप्तो भूरिभारो द्विजोत्तम ॥

अतोऽमी ब्राह्मणश्रेष्ठ पूत्का रयन्ति भैरवम्

॥३५॥

यम उवाच

एवमेतत्समाख्यातं तव सर्वं द्विजोत्तम ॥

नरकाणां स्वरूपं तु कर्मणां वै यथाक्रमम्

॥३६॥

गच्छ शीघ्रं महाभाग यावत्कायो न दह्यते

॥३७॥

ब्राह्मण उवाच

कथय त्वं सुरश्रेष्ठ मम सर्वं समाहितः ॥

न गच्छेत्कर्मणा येन नरकं मानवः क्वचित्

॥३८॥

सतां सप्तपदं मैत्रमित्याहुर्बुद्धिकोविदाः ॥

मित्रतां च पुरस्कृत्य समासाद्वक्तुमर्हसि

॥३९॥

यम उवाच

प्रभासं क्षेत्रमासाद्या नरकेश्वरमुत्तमम् ॥

यः पश्यति नरो भक्त्या नरकं स न पश्यति

॥४०॥

स्थापितं यन्मया लिंगं शिवभक्त्या युतेन च ॥

एतद्गुह्यं मया प्रोक्तं तव प्रीत्यै द्विजोत्तम

॥४१॥

गोपनीयं प्रयत्नेन मम वाक्यादसंशयम् ॥

एवमुक्तस्तदा विप्रः स्वयमेवावनिं ययौ

॥४२॥

लब्ध्वा कलेवरं सोऽथ विस्मयं परमं गतः ॥

तत्स्मृत्वा वचनं सर्वं धर्मराजस्य धीमतः

॥४३॥

गत्वा तत्र स नित्यं वै पूजयामास तं प्रभुम् ॥

यावज्जीवं वरारोहे ततः सिद्धिं परां गतः

॥४४॥

तस्मात्सर्वप्रयत्नेन भक्त्या तमवलोकयन् ॥

अपि पातकयुक्तोऽपि न याति नरके नरः

॥४५॥

आश्वयुक्कृष्णपक्षे तु चतुर्दश्यां विधानतः ॥

यस्तत्र कुरुते श्राद्धं सोऽश्वमेधफलं लभेत्

॥४६॥

कृष्णाजिनं तत्र देयं ब्राह्मणे वेदपारगे ॥

यावत्तिलानां संख्यानं तावत्स्वर्गे महीयते

॥४७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये ऽनरकेश्वरमाहात्म्यवर्णनंनाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२५ ॥