मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १११

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 111

ततो गच्छेन्महादेवि पुष्करारण्यमुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि पुष्करारण्यमुत्तमम् ॥

तस्मादीशानकोणस्थं धनुषां षष्टिभिः स्थितम्

॥१॥

तत्र कुण्डं महादेवि ह्यष्टपुष्करसंज्ञितम् ॥

सर्व पापहरं देवि दुष्प्राप्यमकृतात्मभिः

॥२॥

तत्र कुण्डसमीपे तु पुरा रामेशधीमता ॥

स्थापितं तन्महालिङ्गं रामेश्वर इति स्मृतम्

॥३॥

तस्य पूजनमात्रेण मुच्यते ब्रह्महत्यया

॥४॥

श्रीदेव्युवाच

भगवन्विस्तराद्ब्रूहि रामेश्वरसमुद्भवम् ॥

कथं तत्रागमद्रामः ससीतश्च सलक्ष्मणः

॥५॥

कथं प्रतिष्ठितं लिङ्गं पुष्करे पापतस्करे ॥

एतद्विस्तरतो ब्रूहि फलं माहात्म्यसंयुतम्

॥६॥

ईश्वर उवाच

चतुर्विंशयुगे रामो वसिष्ठेन पुरोधसा ॥

पुरा रावणनाशार्थं जज्ञे दशरथात्मजः

॥७॥

ततः कालान्तरे देवि ऋषिशापान्महातपाः ॥

ययौ दाशरथी रामः ससीतः सहलक्ष्मणः

॥८॥

वनवासाय निष्क्रांतो दिव्यैर्ब्रह्मर्षिभिर्वृतः ॥

ततो यात्राप्रसंगेन प्रभासं क्षेत्रमागतः

॥९॥

तं देशं तु समासाद्य सुश्रांतो निषसाद ह ॥

अस्तं गते ततः सूर्ये पर्णान्यास्तीर्य भूतले

॥१०॥

सुष्वापाथ निशाशेषे ददृशे पितरं स्वकम् ॥

स्वप्ने दशरथं देवि सौम्यरूपं महाप्रभम्

॥११॥

प्रातरुत्थाय तत्सर्वं ब्राह्मणेभ्यो न्यवेदयत् ॥

यथा दशरथः स्वप्ने दृष्टस्तेन महात्मना

॥१२॥

ब्राह्मणा ऊचुः

वृद्धिकामाश्च पितरो वरदास्तव राघव ॥

दर्शनं हि प्रयच्छंति स्वप्नान्ते हि स्ववंशजे

॥१३॥

एतत्तीर्थं महापुण्यं सुगुप्तं शार्ङ्गधन्वनः ॥

पुष्करेति समाख्यातं श्राद्धमत्र प्रदीयताम्

॥१४॥

नूनं दशरथो राजा तीर्थे चास्मिन्समीहते ॥

त्वया दत्तं शुभं पिण्डं ततः स दर्शनं गतः

॥१५॥

ईश्वर उवाच

तेषां तद्वचनं श्रुत्वा रामो राजीवलोचनः ॥

निमंत्रयामास तदा श्राद्धार्हान्ब्राह्मणाञ्छुभान्

॥१६॥

अब्रवील्लक्ष्मणं पार्श्वे स्थितं विनतकंधरम् ॥

फलार्थं व्रज सौमित्रे श्राद्धार्थं त्वरयाऽन्वितः

॥१७॥

स तथेति प्रतिज्ञाय जगाम रघुनंदनः ॥

आनयामास शीघ्रं स फलानि विविधानि च

॥१८॥

बिल्वानि च कपित्थानि तिन्दुकानि च भूरिशः ॥

बदराणि करीराणि करमर्दानि च प्रिये

॥१९॥

चिर्भटानि परूषाणि मातुलिंगानि वै तथा ॥

नालिकेराणि शुभ्राणि इंगुदीसंभवानि च

॥२०॥

अथैतानि पपाचाशु सीता जनकनंदिनी ॥

ततस्तु कुतपे काले स्नात्वा वल्कलभृच्छुचिः

॥२१॥

ब्राह्मणानानयामास श्राद्धार्हान्द्विजसत्तमान् ॥

गालवो देवलो रैभ्यो यवक्रीतोऽथ पर्वतः

॥२२॥

भरद्वाजो वसिष्ठश्च जावालिर्गौतमो भृगुः ॥

एते चान्ये च बहवो ब्राह्मणा वेदपारगाः

॥२३॥

श्राद्धार्थं तस्य संप्राप्ता रामस्याक्लिष्टकर्मणः ॥

एतस्मिन्नेव काले तु रामः सीतामभाषत

॥२४॥

एहि वैदेहि विप्राणां देहि पादावनेजनम् ॥

एतच्छ्रुत्वाऽथ सा सीता प्रविष्टा वृक्षमध्यतः

॥२५॥

गुल्मैराच्छाद्य चात्मानं रामस्यादर्शने स्थिता ॥

मुहुर्मुहुर्यदा रामः सीतासीतामभाषत

॥२६॥

ज्ञात्वा तां लक्ष्मणो नष्टां कोपाविष्टं च राघवम् ॥

स्वयमेव तदा चक्रे ब्राह्मणार्ह प्रतिक्रियाम्

॥२७॥

अथ भुक्तेषु विप्रेषु कृत पिंडप्रदानके ॥

आगता जानकी सीता यत्र रामो व्यवस्थितः

॥२८॥

तां दृष्ट्वा परुषैर्वाक्यैर्भर्त्सयामास राघवः ॥

धिग्धिक्पापे द्विजांस्त्यक्त्वा पितृकृत्यमहोदयम् ॥

क्व गताऽसि च मां हित्वा श्राद्धकाले ह्युपस्थिते

॥२९॥

ईश्वर उवाच

तस्य तद्वचनं श्रुत्वा भयभीता च जानकी

॥३०॥

कृताञ्जलिपुटा भूत्वा वेपमाना ह्यभाषत ॥

मा कोपं कुरु कल्याण मा मां निर्भर्त्सय प्रभो

॥३१॥

शृणु यस्माद्विभोऽन्यत्र गता त्यक्त्वा तवान्तिकम् ॥

दृष्टस्तत्र पिता मेऽद्य तथा चैव पितामहः

॥३२॥

तस्य पूर्वतरश्चापि तथा मातामहादयः ॥

अंगेषु ब्राह्मणेन्द्राणामाक्रान्तास्ते पृथक्पृथक्

॥३३॥

ततो लज्जा समभवत्तत्र मे रघुनन्दन ॥

पित्रा तत्र महाबाहो मनोज्ञानि शुभानि च

॥३४॥

भक्ष्याणि भक्षितान्येव यानि वै गुणवन्ति च ॥

स कथं सुकषायाणि क्षाराणि कटुकानि च ॥

भक्षयिष्यति राजेन्द्र ततो मे दुःखमाविशत्

॥३६॥

एतस्मात्कारणान्नष्टा लज्जयाऽहं रघूद्वह ॥

दृष्ट्वा श्वशुरवर्गं स्वं तस्मात्कोपं परित्यज

॥३६॥

तस्यास्तद्वचनं श्रुत्वा विस्मितो राघवोऽभवत् ॥

विशेषेण ददौ तस्मिञ्छ्राद्धं तीर्थे तु पुष्करे

॥३७॥

तत्र पुष्करसान्निध्ये दक्षिणे धनुषां त्रये ॥

लिंगं प्रतिष्ठयामास रामेश्वरमिति श्रुतम्

॥३५॥

यस्तं पूजयते भक्त्या गन्धपुष्पादिभिः क्रमात् ॥

स प्राप्नोति परं स्थानं य्रत्र देवो जनार्दनः

॥३९॥

किमत्र बहुनोक्तेन द्वादश्यां यत्प्रदापयेत् ॥

न तत्र परिसंख्यानं त्रिषु लोकेषु विद्यते

॥४०॥

शुक्रांगारकसंयुक्ता चतुर्थी या भवेत्क्वचित् ॥

षष्ठी वात्र वरारोहे तत्र श्राद्धे महत्फलम्

॥४१॥

यावद्द्वादशवर्षाणि पितरश्च पितामहाः ॥

तर्पिता नान्यमिच्छन्ति पुष्करे स्वकुलोद्भवे

॥४२॥

तत्र यो वाजिनं दद्यात्सम्यग्भक्तिसमन्वितः ॥

अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः

॥४३॥

इति ते कथितं सम्यङ्माहात्म्यं पापनाशनम् ॥

रामेश्वरस्य देवस्य पुष्करस्य च भामिनि

॥४४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्यवर्णनंनामैकादशोत्तरशततमोऽध्यायः ॥ १११ ॥