मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २६४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 264

नंदिनीगुफामाहात्म्यवर्णनम्

ईश्वर उवाच

तत्रैव संस्थिता देवि गुफा पातकनाशिनी ॥

ऋषीणां संस्थितिर्यत्र सिद्धानां पुण्यचेतसाम्

॥१॥

तत्र गत्वा महादेवि गुफां यः पश्यते नरः ॥

स मुक्तः सर्वपापेभ्यश्चांद्रायणफलं लभेत्

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नंदिनीगुफामाहात्म्यवर्णनंनाम चतुःषष्ट्यु त्तरद्विशततमोऽध्यायः ॥ २६४ ॥