मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 2

पुराणपुस्तकदानफलवर्णनम्

ऋषय ऊचुः

कथाया लक्षणं ब्रूहि गुणदोषान्सविस्तरान् ॥

आर्षेयपौरुषेयाणां काव्यचिह्नपरीक्षणम् ॥

कथं ज्ञेयं महाबुद्धे श्रोतुमिच्छामहे वयम्

॥१॥

सूत उवाच

अथ संक्षेपतो वक्ष्ये पुराणानामनुक्रमम् ॥

लक्षणं चैव संख्यां च उक्तभेदांस्तथैव च

॥२॥

पुरा तपश्चचारोग्रममराणां पितामहः ॥

आविर्भूतास्ततो वेदाः सषडंगपदक्रमाः

॥३॥

ततः पुराणमखिलं सर्वशास्त्रमयं ध्रुवम् ॥

नित्यशब्दमयं पुण्यं शत कोटिप्रविस्तरम्

॥४॥

निर्गतं ब्रह्मणो वक्त्राद्ब्राह्मं वैष्णवमेव च ॥

शैवं भागवतं चैव भविष्यं नारदीयकम्

॥५॥

मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च ॥

लैङ्गं तथा च वाराहं स्कांदं वामनमेव च

॥६॥

कौर्म्यं मात्स्यं गारुडं च वायवीयमनन्तरम् ॥

अष्टादशं समुद्दिष्टं सर्वपातकनाशनम्

॥७॥

एकमेव पुरा ह्यासीद्ब्रह्माण्डं शतकोटिधा

॥८॥

ततोऽष्टादशधा कृत्वा वेदव्यासो युगेयुगे ॥

प्रख्यापयति लोकेऽस्मिन्साक्षान्नारायणांशजः

॥९॥

अन्यान्युपपुराणानि मुनिना कथितानि तु ॥

तानि वः कथयिष्यामि संक्षेपादवधार्यताम्

॥१०॥

आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् ॥

तृतीयं स्कान्दमुद्दिष्टं कुमारेणानुभाषितम्

॥११॥

चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् ॥

दुर्वाससोक्तमाश्चर्य्यं नारदोक्तमतः परम्

॥१२॥

कापिलं मानवं चैव तथैवोशनसेरितम् ॥

ब्रह्माण्डं वारुणं चान्यत्कालिकाह्वयमेव च

॥१३॥

माहेश्वरं तथा सांबं सौरं सर्वार्थसंचयम् ॥

पराशरोक्तं परमं मारीचं भार्गवाह्वयम्

॥१४॥

एतान्युपपुराणानि कथितानि द्विजोत्तमाः

॥१५॥

ऋषय ऊचुः

पुराणसंख्यामाचक्ष्व सूत विस्तरशः क्रमात् ॥

दानधर्ममशेषज्ञ यथावदनुपूर्वशः

॥१६॥

सूत उवाच

इदमेव पुराणेऽस्मिन्पुराणपुरुषस्तदा ॥

यदुक्तवान्स विश्वात्मा मनवे तन्निबोधत

॥१७॥

पुराणं सर्वशास्त्राणां ब्रह्माण्डं प्रथमं स्मृतम् ॥

अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः

॥१८॥

पुराणमेकमेवासीत्तस्मिन्कल्पान्तरेतथा ॥

त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्

॥१९॥

विनिर्दग्धेषु लोकेषु कृष्णेनानन्तरूपिणा ॥

साङ्गांश्च चतुरो वेदान्पुराणन्यायविस्तरम्

॥२०॥

मीमांसां धर्मशास्त्रं च परिगृह्यात्मसात्कृतम् ॥

मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे

॥२१॥

अशेषमेव कथितं ब्रह्मणे दिव्यचक्षुषे ॥

ब्रह्मा जगाद च मुनींस्त्रिकालज्ञानदर्शनः

॥२२॥

प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः

॥२३॥

ततः कालक्रमेणासौ व्यासरूपधरो हरिः ॥

अष्टादशपुराणानि संक्षेप्स्यति युगेयुगे

॥२४॥

चतुर्लक्षप्रमाणानि द्वापरेद्वापरे सदा ॥

तदाष्टादशधा कृष्णा भूर्लोकेऽस्मिन्प्रभाषते

॥२५॥

अद्याऽपि देवलोके तु शतकोटिप्रविस्तरम् ॥

तदर्थोऽत्र चतुर्लक्षः संक्षेपेण निवेशितः

॥२६॥

पुराणानि दशाष्टौ च सांप्रतं तदिहोच्यते ॥

नामतस्तानि वक्ष्यामि संख्यां च मुनिसत्तमाः

॥२७॥

ब्रह्मणाऽभिहितं पूर्वं यावन्मात्रं मरीचये ॥

ब्राह्मं तद्दशसाहस्रं पुराणं तदिहोच्यते

॥२८॥

लिखित्वा तच्च यो दद्याज्जलधेनुसमन्वितम् ॥

वैशाख्यां पौर्णमास्यां च ब्रह्मलोके महीयते

॥२९॥

एतदेव यदा पद्ममभूद्धैरण्मयं जगत् ॥

तद्वृत्तांताश्रयांतं तत्पाद्ममित्युच्यते बुधैः

॥३०॥

पाद्मं तत्पञ्चपञ्चाशत्सहस्राणीह पठ्यते ॥

तत्पुराणं च यो दद्यात्सुवर्णकमलान्वितम् ॥

ज्येष्ठे मासि तिलैर्युक्तं सोऽश्वमेधफलं लभेत्

॥३१॥

वाराहकल्पवृत्तान्तमधिकृत्य परात्परः ॥

यत्राह धर्मानखिलांस्तदुक्तं वैष्णवं विदुः

॥३२॥

चरितैरञ्चितं विष्णोस्तल्लोके वैष्णवं विदुः ॥

त्रयोविंशतिसाहस्रं पुराणं तत्प्रकीर्तितम्

॥३३॥

तदाषाढे च यो दद्याद्घृतधेनुसमन्वितम् ॥

पौर्णमास्यां विशुद्धायां सं पदं याति वैष्णवम्

॥३४॥

श्रुतकल्पप्रसङ्गेन धर्मान्वायुरथाब्रवीत् ॥

यत्र तद्वायवीयं स्याद्रुद्रमाहात्म्यसंयुतम्

॥३५॥

चतुर्विंशतिसाहस्रं नाना वृत्तान्तसंयुतम् ॥

धर्मार्थकाममोक्षैश्च साधुवृत्तसमन्वितम्

॥३६॥

श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् ॥

यो दद्याद्दधिसंयुक्तं ब्राह्मणाय कुटुम्बिने ॥

शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः

॥३७॥

पुनः संजायते मर्त्यो ब्राह्मणो वेदवित्तमः ॥

वेदविद्यार्थतत्त्वज्ञो व्याख्यातत्त्वार्थवित्तमः

॥३८॥

यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः ॥

वृत्रासुरवधोपेतं तद्भागवतमुच्यते

॥३९॥

सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः ॥

तद्वृत्तान्तोद्भवं पुण्यं पुण्योद्वाहसमन्वितम्

॥४०॥

लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् ॥

पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम्

॥४१॥

अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम्

॥४२॥

यत्राह नारदो धर्मान्बृहत्कल्पाश्रयांस्त्विह ॥

पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते

॥४३॥

तदिषे पञ्चदश्यां तु यो दद्याद्धेनुसंयुतम् ॥

उत्तमां सिद्धिमाप्नोति इह लोके परत्र च ॥

सर्वान्कामानवाप्नोति नात्र कार्या विचारणा

॥४४॥

यत्राधिकृत्य शकुनीन्धर्माधर्मविचारणम् ॥

पुराणं नवसाहस्रं मार्कण्डेयं तदुच्यते

॥४५॥

परिलिख्य च यो दद्यात्सौवर्णकरिसंयुतम् ॥

कार्तिक्यां पौण्डरीकस्य यज्ञस्य फलभाग्भवेत्

॥४६॥

यत्तदीशानकल्पस्य वृत्तान्तमधिकृत्य च ॥

वशिष्ठायाऽग्निना प्रोक्तमाग्नेयं तत्प्रचक्षते

॥४७॥

लिखित्वा तच्च यो दद्याद्धेमपद्मसमन्वितम् ॥

मार्गशीर्षे विधानेन तिलधेनुयुतं तथा ॥

तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम्

॥४८॥

यत्राधिकृत्य माहात्म्यमादित्यस्य चतुर्मुखः ॥

अघोरकल्पवृत्तान्तप्रसंगेन जगत्पतिः ॥

मनवे कथयामास भूतग्रामस्य लक्षणम्

॥४९॥

चतुर्दशसहस्राणि तथा पञ्चशतानि च ॥

भविष्यचरितप्रायं भविष्यं तदिहोच्यते

॥५०॥

तत्पौषमासि यो दद्यात्पौर्णमास्यां विमत्सरः ॥

गुडकुम्भसमायुक्तमग्निष्टोमफलं लभेत्

॥५१॥

रथंतरस्य कल्पस्य वृत्तान्तमधिकृत्य च ॥

सावर्णिना नारदाय कृष्णमाहात्म्यसंयुतम् ॥

प्रोक्तं ब्रह्मवराहस्य चरितं वर्ण्यतेऽत्र च

॥५२॥

तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते ॥

पुराणं ब्रह्मवैवर्तं यो दद्याद्ब्राह्मणोत्तमे ॥

माघमासे पौर्णमास्यां ब्रह्मलोके महीयते

॥५३॥

यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः ॥

धर्मार्थकाममोक्षार्थानाग्नेयमधिकृत्य च

॥५४॥

कल्पं तल्लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम्

॥५५॥

तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति ॥

तिलधेनुसमायुक्तं स याति शिवसात्म्यताम्

॥५६॥

महावराहस्य पुनर्माहात्म्यमधिकृत्य च ॥

विष्णुनाऽभिहितं क्षोण्यै तद्वाराहमिहोच्यते

॥५७॥

मानवस्य प्रसंगेन धन्यस्य मुनिसत्तमाः ॥

चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते

॥५८॥

काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम् ॥

पौर्णमास्यामथो दद्याद्ब्राह्मणाय कुटुम्बिने ॥

वाराहस्यप्रसादेन पदमाप्नोति वैष्णवम्

॥५९॥

यत्र माहेश्वरान्धर्मानधिकृत्य च षण्मुखम् ॥

कल्पे तत्पुरुषे वृत्ते चरितैरुपबृंहितम्

॥६॥

स्कांदं नाम पुराणं तदेकाशीति निगद्यते ॥

सहस्राणि शतं चैकमिति मर्त्येषु पठ्यते

॥६१॥

परिलेख्य च यो दद्याद्धेमशूलसमन्वितम् ॥

शैवं स पदमाप्नोति मकरोपगमे रवेः

॥६२॥

त्रिविक्रमस्य माहात्म्यमधिकृत्य चतुर्मुखः ॥

त्रिवर्गमभ्यधात्तत्तु वामनं परिकीर्तितम्

॥६३॥

पुराणं दशसाहस्रं कौर्मकल्पानुगं शिवम्

॥६४॥

यः शरद्विषुवे दद्याद्धेमवस्त्रसमन्वितम् ॥

क्षौमावृतं युतं धेन्वा स पदं याति वैष्णवम्

॥६५॥

यच्च धर्मार्थकामानां मोक्षस्य च रसातले ॥

माहात्म्यं कथयामास कूर्मरूपी जनार्दनः

॥६६॥

इन्द्रद्युम्नप्रसंगेन ऋषीणां शक्रसन्निधौ ॥

सप्तदशसहस्राणि लक्ष्मीकल्पानुषङ्गिकम्

॥६७॥

यो दद्यादयने कौर्मं हेमकूर्मसमन्वितम् ॥

गोसहस्रप्रदानस्य स फलं प्राप्नुयान्नरः

॥६८॥

श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः ॥

मत्स्यरूपी च मनवे नरसिंहोपवर्णनम्

॥६९॥

अधिकृत्याब्रवीत्सप्तकल्पवृत्तं मुनिव्रताः ॥

तन्मात्स्यमिति जानीध्वं सहस्राणि चतुदर्श

॥७०॥

विषुवे हैममत्स्येन धेन्वा क्षौमयुगान्वितम् ॥

यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला

॥७१॥

यदा वा गरुडे कल्पे विश्वाण्डाद्गरुडोऽभवत् ॥

अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते

॥७२॥

तदष्टादश चैकं च सहस्राणीह पठ्यते ॥

स्वर्णहंससमायुक्तं यो दद्यादयने परे ॥

स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम्

॥७३॥

ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्पुनः ॥

तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम्

॥७४॥

भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः ॥

तद्ब्रह्माण्डं पुराणं तु ब्रह्मणा समुदाहृतम्

॥७९॥

यो दद्यात्तु व्यतीपात ऊर्णायुगसमन्वितम् ॥

राजसूयसहस्रस्य फलमाप्नोति मानवः

॥७६॥

हेमधेन्वायुतं तच्च ब्रह्मलोकफलप्रदम् ॥

चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा

॥७७॥

इदं लोकहितार्थाय संक्षिप्तं द्वापरे द्विजाः

॥७८॥

इदमद्यापि देवेषु शतकोटिप्रविस्तरम् ॥

उपभेदान्प्रवक्ष्यामि लोके ये संप्रतिष्ठिताः

॥७९॥

पाद्मे पुराणे यत्प्रोक्तं नारसिंहोपवर्णनम् ॥

तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते

॥८०॥

नन्दिने यत्र माहात्म्यं कार्तिकेयेन वर्णितम् ॥

लोके नन्दिपुराणं वै ख्यातमेतद्द्विजोत्तमाः

॥८१॥

यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम् ॥

प्रोच्यते तत्पुनर्लोके सांबमेव मुनिव्रताः

॥८२॥

एवमादित्यसंज्ञं तु तत्रैव परिपठ्यते ॥

अष्टादशभ्यस्तु पृथक्पुराणं यच्च दृश्यते ॥

विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो विनिर्गतम्

॥८३॥

पञ्चाङ्गानि पुराणस्य चाख्यानमितरत्स्मृतम् ॥

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥

वंशानुवंशचरितं पुराणं पञ्चलक्षणम्

॥८४॥

ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च ॥

संहारश्च प्रदृश्येत पुराणं पञ्चलक्षणम्

॥८५॥

धर्मश्चार्थश्च कामश्च मोक्षश्च परिकीर्त्यते ॥

सर्वेष्वपि पुराणेषु तद्विरूढे च यत्फलम्

॥८६॥

सात्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः ॥

राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः

॥८७॥

तद्वदग्रे च माहात्म्यं तामसेषु शिवस्य हि ॥

संकीर्णे च सरस्वत्याः पितॄणां च निगद्यते

॥८८॥

चतुर्भिर्भगवान्विष्णुर्द्वाभ्यां ब्रह्मा तथा रविः ॥

अष्टादशपुराणेषु शेषेषु भगवाञ्छिवः

॥८९॥

वेदवन्निश्चलं मन्ये पुराणं वै द्विजोत्तमाः ॥

वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः

॥९०॥

बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति ॥

इतिहासपुराणैस्तु निश्चलोऽयं कृतः पुरा

॥९१॥

यन्न दृष्टं हि वेदेषु न दृष्टं स्मृतिषु द्विजाः ॥

उभयोर्यत्र दृष्टं च तत्पुराणेषु गीयते

॥९२॥

यो वेद चतुरो वेदान्सांगोपनिषदो द्विजः ॥

पुराणं नैव जानाति न च स स्याद्विचक्षणः

॥९३॥

अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ॥

भारताख्यानमकरोद्वेदार्थैरुपबृंहितम्

॥९४॥

लक्षेणैकेन तत्प्रोक्तं द्वापरान्ते महात्मना ॥

वाल्मीकिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम्

॥९५॥

ब्रह्मणा विहितं यच्च शतकोटिप्रविस्तरम् ॥

आह तन्नारदायैव तेन वाल्मीकये पुनः

॥९६॥

वाल्मीकिना च लोके तु धर्मकामार्थसाधकम्

॥९७॥

एवं सपादाः पञ्चैते लक्षाः पुण्याः प्रकीर्तिताः ॥

पुरातनस्य कल्पस्य पुराणे तु विदुर्बुधाः

॥९८॥

इतिहासपुराणानि भिद्यन्ते काल गौरवात् ॥

स्कान्दं तथा च ब्रह्माण्डं पुराणं लैङ्गमेव च

॥९९॥

वाराहकल्पे विप्रेन्द्रास्तेषां भेदः प्रवर्तते ॥

अष्टादशप्रकारेण ब्रह्माण्डं भिन्नमेव हि

॥१००॥

अष्टादशपुराणानि तेन जातानि भूतले ॥

लैङ्गमेकादशविधं प्रभिन्नं द्वापरे शुभम्

॥१०१॥

स्कान्दं तु सप्तधा भिन्नं वेद व्यासेनधीमता ॥

एकाशीतिसहस्राणि शतं चैकं तु संख्यया

॥१०२॥

तस्याऽऽद्यो यो विभागस्तु स्कन्दमाहात्म्यसंयुतः ॥

माहेश्वरः समाख्यातो द्वितीयो वैष्णवः स्मृतः

॥१०३॥

तृतीयो ब्रह्मणः प्रोक्तः सृष्टिसंक्षेपसूचकः ॥

काशीमाहात्म्यसंयुक्तश्चतुर्थः परिपठ्यते

॥१०४॥

रेवायाः पञ्चमो भागः सोज्जयिन्याः प्रकीर्तितः ॥

षष्ठः कल्पो नागरश्च तीर्थमाहात्म्यसूचकः

॥१०५॥

सप्तमो यो विभागोऽयं स्मृतः प्राभासिको द्विजाः ॥

सर्वे द्वादशसाहस्रा विभागाः संप्रकीर्तिताः

॥१०६॥

अस्मिन्प्राभासिकः सर्वो वर्ण्यते क्षेत्रविस्तरः ॥

तीर्थानां चैव माहात्म्यं माहात्म्यं शंकरस्य च

॥१०७॥

अन्येषां चैव देवानां माहात्म्यं च प्रकीर्त्यते ॥

इति भेदः पुराणानां संक्षेपात्कथितो द्विजाः

॥१०८॥

इममष्टादशानां तु पुराणानामनुक्रमम् ॥

यः पठेद्धव्यकव्येषु स याति भवनं हरेः

॥१०९॥

इदं पवित्रं हि यशोनिधानमिदं पितॄणामपि वल्लभं च ॥

इदं च देवेष्वमृताय नित्यमिदं महापातकहृच्च पुंसाम्

॥११॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ससंख्याकाष्टादशमहापुराणोपपुराणवर्णनपूर्वक पुराणपुस्तकदानफलवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥