मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २७९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 279

च्यवनादित्यमाहात्म्यसूर्याष्टोत्तरशतम्

ईश्वर उवाच

ततो गच्छेन्महादेवि च्यवनार्कमनुत्तमम् ॥

हिरण्यापूर्वभागस्थं च्यवनेन प्रतिष्ठितम्

॥१॥

सर्वकामप्रदं नृणां पूजितं विधिवन्नरैः ॥

सप्तम्यां च विधानेन यः स्तोष्यति रविं नरः

॥२॥

अष्टोत्तरशतैर्नाम्नां सम्यक्छ्रद्धासमन्वितः ॥

शृणु तानि महादेवि शुचिर्भूत्वा समाहितः

॥३॥

क्षणं त्वं कुरु देवेशि सर्वं वक्ष्याम्यशेषतः ॥

धौम्येन तु यथापूर्वं पार्थाय सुमहात्मने

॥४॥

नामाष्टशतमाख्यातं तच्छृणुष्व महामते ॥

सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः

॥५॥

गभस्तिमानजः कालो मृत्युर्द्धाता प्रभाकरः ॥

पृथिव्यापश्च तेजश्च खं वायुश्च परायणः

॥६॥

सोमो बृहस्पतिः शुक्रो बुधोंऽगारक एव च ॥

इन्द्रो विवस्वान्दीप्तांशुः शुचिः सौरिः शनैश्चरः

॥७॥

ब्रह्मा रुद्रश्च विष्णुश्च स्कन्दो वैश्रवणो यमः ॥

वैद्युतो जाठरश्चाग्निरिंधनस्तेजसां पतिः

॥८॥

धर्मध्वजो वेदकर्त्ता वेदांगो वेदवाहनः ॥

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः

॥९॥

कलाकाष्ठामुहूर्त्ताश्च पक्षा मासा अहर्निशाः ॥

संवत्सरकरोऽश्वस्थः कालचक्रो विभावसुः

॥१०॥

पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥

लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः

॥११॥

वरुणः सागरोंशुश्च जीवन्तो जीवनोऽरिहा ॥

भूताश्रयो भूतपतिः सर्वभूतनिषेवितः

॥१२॥

स्रष्टा संवर्त्तको वह्निः सर्वस्यादिकरोऽमलः ॥

अनंतः कपिलो भानुः कामदः सर्वतोमुखः

॥१३॥

जयो विषादो वरदः सर्वधातुनिषेवितः ॥

समः सुवर्णो भूतादिः शीघ्रगः प्राणधारकः

॥१४॥

धन्वंतरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥

द्वादशात्माऽरविंदाक्षः पिता माता पितामहः

॥१५॥

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥

देहकर्त्ता प्रशांतात्मा विश्वात्मा विश्वतोमुखः ॥

चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः

॥१५॥

एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः ॥

नाम्नामष्टोत्तरशतं प्रोक्तं शक्रेण धीमता

॥१७॥

शक्राच्च नारदः प्राप्तो धौम्यस्तु तदनन्तरम् ॥

धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान्

॥१८॥

एतानि कीर्तनीयस्य सूर्यस्यामिततेजसः ॥

नामानि यः पठेन्नित्यं सर्वान्कामानवाप्नुयात्

॥१९॥

सुरपितृमनुजयक्षसेवितमसुरनिशाचरसिद्धवंदितम् ॥

वरकनकहुताशनप्रभं त्वमपि नम हिताय भास्करम्

॥२०॥

सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसंचयान् ॥

लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विंदते पुमान्

॥२१॥

इमं स्तवं देववरस्य यो नरः प्रकीर्त्तयेच्छुद्धमनाः समाहितः ॥

स मुच्यते शोकदवाग्निसाराल्लभेत कामान्मनसा यथेप्सितान्

॥२२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनादित्यमाहात्म्यसूर्याष्टोत्तरशतनाम माहात्म्यवर्णनंनामैकोनाशीत्युत्तरद्विशततमोऽध्यायः ॥ २७९ ॥