मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २४४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 244

विचित्रेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि विचित्रेश्वरमुत्तमम् ॥

हिरण्यातीरनिलयं महापातकनाशनम्

॥१॥

विचित्रेण महादेवि लेखकेन यमस्य च ॥

तपः कृत्वा महारौद्रं लिंगं तत्र प्रतिष्ठितम्

॥२॥

तं दृष्ट्वा मानवो देवि यमलोकं न पश्यति

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये विचित्रेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४४ ॥