मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 15

पापनाशनोत्पत्तिवर्णनम्

ईश्वर उवाच

तस्याग्नेये तु देवेशि अरुणेन प्रतिष्ठितम् ॥

धनुषां च त्रये तत्र सिद्धलिंगसमीपतः

॥१॥

सूर्यसारथिना तत्र लिंगं देविप्रतिष्ठितम् ॥

कलौ पापहरंनाम दर्शनात्पापनाशनम्

॥२॥

चैत्रमास त्रयोदश्यां शुक्लायां वरवर्णिनि ॥

पूजयेद्विधिवद्भक्त्या पौंडरीकफलं लभेत्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पापनाशनोत्पत्तिवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥