मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३३८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 338

ततो गच्छेन्महादेवि देविकातटसंस्थितम्

ईश्वर उवाच

ततो गच्छेन्महादेवि देविकातटसंस्थितम् ॥

जालेश्वरेति विख्यातं सुरासुरनमस्कृतम्

॥१॥

मन्वन्तरे चाक्षुषे च सम्प्राप्ते द्वापरे युगे ॥

नाम्ना जालेश्वरं लिंगं देविकातटसंस्थितम्

॥२॥

पूज्यते नागकन्याभिर्न तत्पश्यंति मानवाः ॥

महा तेजोमणिमयं चंद्रबिंबसमप्रभम् ॥

स्मरणात्तस्य देवस्य ब्रह्महत्या प्रणश्यति

॥३॥

देव्युवाच

कथं जालेश्वरं नाम कस्मिन्काले बभूव तत्

॥४॥

साधुभिः सह संवासात्के गुणाः परिकीर्त्तिताः ॥

के लोकाः कानि पुण्यानि तत्सर्वं शंस मे प्रभो

॥५॥

ईश्वर उवाच

अत्रैवोदाहरंतीममितिहासं पुरातनम् ॥

नाभागस्य च संवादमापस्तंबतपोनिधेः

॥६॥

महर्षिरात्मवान्पूर्वमापस्तंबो द्विजाग्रणीः ॥

उपावसन्सदा रम्भो बभूव भगवांस्तदा

॥७॥

नित्यं क्रोधं च लोभं च मोहं द्रोहं विसृज्य सः ॥

देविकासरितो मध्ये विवेश सलिलाशये

॥८॥

क्षेत्रे प्राभासिके रम्ये सम्यग्ज्ञात्वा शिवप्रिये ॥

तत्रास्य वसतः कालः समतीतो महांस्तदा

॥९॥

परेण ध्यानयोगेन स्थाणुभूतस्य तिष्ठतः ॥

ततः कदाचिदागत्य तं देशं मत्स्यजीविनः

॥१०॥

प्रसार्य सुमहज्जालं सर्वे चाकर्षयन्बलात् ॥

अथ तं च महामत्स्यं निषादा बलदर्पिताः

॥११॥

तस्मादुत्तारयामासुः सलिलाद्ब्रह्मनंदनम् ॥

तं दृष्ट्वा तपसा दीप्तं कैवर्त्ता भयविह्वलाः ॥

शिरोभिः प्रणिपत्योच्चैरिदं वचनमब्रुवन्

॥१२॥

निषादा ऊचुः

अज्ञानात्कृतपापानामस्माकं क्षन्तुमर्हसि ॥

किं वा कार्यं प्रियं तेऽद्य तदाज्ञापय सुव्रत

॥१३॥

स मुनिस्तन्महद्दृष्ट्वा मत्स्यानां कदनं कृतम् ॥

कृपया परयाविष्टो दाशान्प्रोवाच दुःखितः

॥१४॥

केन मे स्यादुपायो हि सर्वे स्वार्थे बत स्थिताः ॥

ज्ञानिनामपि यच्चेतः केवलात्महिते रतम्

॥१५॥

ज्ञानिनोपि यदा स्वार्थमाश्रित्य ध्यानमास्थिताः ॥

दुःखार्त्तानीह सत्त्वानि क्व यास्यंति सुखं ततः

॥१६॥

योऽभिवांछति भोक्तुं वै दुःखान्येकांततो जनः ॥

पापात्पापतरं तं हि प्रवदंति मुमुक्षवः

॥१७॥

को नु मे स्यादुपायो हि येनाहं दुःखितात्मवान् ॥

अंतः प्रविष्टः सत्त्वानां भवेयं सर्वदुःखभुक्

॥१८॥

यन्ममास्ति शुभं किचित्तदेनानुपगच्छतु ॥

यत्कृतं दुष्कृतं तैश्च तदशेषमुपेतु माम्

॥१९॥

दृष्ट्वांधान्कृपणान्व्यंगाननाथान्रोगिणस्तथा ॥

दया न जायते यस्य स रक्ष इति मे मतिः

॥२०॥

प्राणसंशयमापन्नान्प्राणिनो भयविह्वलान् ॥

यो न रक्षति शक्तोपि स तत्पापं समश्नुते

॥२१॥

आहुर्जनानामार्त्तानां सुखं यदुपजायते ॥

तस्य स्वर्गोऽपवर्गो वा कलां नार्हति षोडशीम्

॥२२॥

तस्मान्नैतानहं दीनांस्त्यक्त्वा मीनान्सुदुःखितान् ॥

पदमात्रं तु यास्यामि किं पुनस्त्रिदशालयम्

॥२३॥

ईश्वर उवाच

निशम्यैतदृषेर्वाक्यं दाशास्ते जातसंभ्रमाः ॥

यथावृत्तं तु तत्सर्वं नाभागाय न्यवेदयन्

॥२४॥

नाभागोऽपि ततः श्रुत्वा तं द्रष्टुं ब्रह्मनन्दनम् ॥

त्वरितः प्रययौ तत्र सामात्यः सपुरोहितः

॥२५॥

स सम्यक्पूजयित्वा तं देवकल्पमुनिं नृपः ॥

प्रोवाच भगवन्ब्रूहि किं करोमि तवाज्ञया

॥२६॥

आपस्तंब उवाच

श्रमेण महताविष्टाः कैवर्त्ता दुःखजीविनः ॥

मम मूल्यं प्रयच्छेति यद्योग्यं मन्यसे नृप

॥२७॥

नाभाग उवाच

सहस्राणां शतं मूल्यं निषादेभ्यो ददाम्यहम् ॥

निग्रहाख्यस्य भगवन्यथाह ब्रह्मनंदनः

॥२८॥

आपस्तंब उवाच

नाहं शतसहस्रैश्च नियम्यः पार्थिव त्वया ॥

सदृशं दीयतां मूल्यममात्यैः सह चिंतय

॥२९॥

नाभाग उवाच

कोटिः प्रदीयतां मूल्यं निषादेभ्यो द्विजोत्तम ॥

यद्येतदपि ते मूल्यं ततो भूयः प्रदीयते

॥३०॥

आपस्तंब उवाच

नार्हं मूल्यं च मे कोटिरधिकं वापि पार्थिव ॥

सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिंतय

॥३१॥

नाभाग उवाच

अर्द्धराज्यं समस्तं वा निषादेभ्यः प्रदीयताम् ॥

एतन्मूल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज

॥३२॥

आपस्तंब उवाच

अर्धराज्यसमस्तं वा नाहमर्हामि पार्थिव ॥

सदृशं दीयतां मूल्यमृषिभिः सह चिंतय

॥३३॥

महर्षेस्तद्वचः श्रुत्वा नाभागः स विषादवान् ॥

चिन्तयामास दुःखार्तः सामात्यः सपुरोहितः

॥३४॥

ततः कश्चिदृषिस्तत्र लोमशस्तु महातपाः ॥

नाभागमब्रवीन्मा भैस्तोषयिष्यामि तं मुनिम्

॥३५॥

नाभाग उवाच

ब्रूहि मूल्यं महाभाग मुनेरस्य महात्मनः ॥

परित्रायस्व मामस्मात्सज्ञातिकुलबांधवम्

॥३६॥

निर्दहेद्भगवान्रुद्रस्त्रैलोक्यं सचराचरम् ॥

किं पुनर्मानुषं हीनमत्यंतवि षयात्मकम्

॥३७॥

लोमश उवाच

त्वमीड्यो हि महाराज जगत्पूज्यो द्विजोत्तमः ॥

गावश्च दिव्यास्तस्माद्गौर्मूल्यमम्यै प्रदीयताम्

॥३९॥

तच्छ्रुत्वा वचनं राजा सामात्यः सपुरोहितः ॥

हर्षेण महताविष्टः प्रोवाचेदं वचोमुनिम्

॥३९॥

उत्तिष्ठोत्तिष्ठ भगवन्क्रीत एव न संशयः ॥

एतद्योग्यतमं मूल्यं भवतो मुनिसत्तम

॥४०॥

आपस्तंब उवाच

उत्तिष्ठाम्येष सुप्रीतः सम्यक्क्रीतोऽस्मि पार्थिव ॥

गोभ्यो मूल्यं न पश्यामि पवित्रं परमं भुवि

॥४१॥

गावः प्रदक्षिणीकार्याः पूजनीयाश्च नित्यशः ॥

मंगलायतनं देव्यः सृष्टा ह्येताः स्वयंभुवा

॥४२॥

अग्न्यगाराणि विप्राणां देवतायतनानि च ॥

यद्गोमयेन शुद्ध्यंति किंभूतमधिकं ततः

॥४३॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च ॥

गवां पंच पवित्राणि पुनंति सकलं जगत्

॥४४॥

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ॥

गावो मे ह्रदये चैव गवां मध्ये वसाम्यहम

॥४५॥

एवं जपन्नरो मंत्रं त्रिसंध्यं नियतः शुचिः ॥

मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति

॥४६॥

तृणाहारपरा गावः कर्त्तव्या भक्तितोऽन्वहम् ॥

अकृत्वा स्वयमाहारं कुर्वन्प्राप्नोति दुर्गतिम्

॥४७॥

तेनाग्नयो हुताः सम्यक्पितरश्चापि तर्पिताः ॥

देवाश्च पूजितास्तेन यो ददाति गवाह्निकम्

॥४८॥

मन्त्रः ॥

सौरभेयी जगत्पूज्या देवी विष्णुपदे स्थिता ॥

सर्वमेव मया दत्तं प्रतीच्छतु सुतोषिता

॥४९॥

रक्षणाद्बालपुत्राणां गवां कण्डूयनात्तथा ॥

क्षीणार्तरक्षणाच्चैव नरः स्वर्गे महीयते

॥५०॥

आदिर्गावो हि मर्त्यस्य मध्ये चांते प्रकीर्तिताः ॥

रक्षंति तास्तु देवानां क्षीराज्यममृतं सदा

॥५१॥

तस्माद्गावः प्रदातव्याः पूजनीयाश्च नित्यशः ॥

स्वर्गस्य संगमा ह्येताः सोपानमिव निर्मिताः

॥५२॥

एतच्छ्रुत्वा निषादास्ते गवां माहात्म्यमुत्त मम् ॥

प्रणिपत्य महात्मानमापस्तंबमथाब्रुवन्

॥५३॥

निषादा ऊचुः

संभाषो दर्शनं स्पर्शः कीर्तनं स्मरणं तथा ॥

पावनानि किलैतानि साधूनामिति च श्रुतम्

॥५४॥

संभाषो दर्शनं चैव सहास्माभिः कृतं त्वया ॥

कुरुष्वानुग्रहं तस्माद्गौरेषा प्रतिगृह्यताम्

॥५५॥

आपस्तंब उवाच

एता वः प्रतिगृह्णामि गां यूयं मुक्तकिल्विषाः ॥

निषादा गच्छत स्वर्गं सह मत्स्यैर्जलोद्धृतैः

॥५६॥

प्राणिनां प्रीतिमुत्पाद्य निन्दिते नापि कर्मणा ॥

नरकं यदि पश्यामि वत्स्यामि स्वर्ग एव तत्

॥५७॥

यन्मया सुकृतं किञ्चिन्मनोवाक्कायकर्मभिः ॥

कृतं स्यात्तेन दुःखार्ताः सर्वे यांतु शुभां गतिम्

॥५८॥

ततस्तस्य प्रसादेन महर्षेर्भावितात्मनः ॥

निषादास्तेन वाक्येन सह मत्स्यैर्दिवं गताः

॥५९॥

तान्दृष्ट्वा व्रजतः स्वर्गं समत्स्यान्मत्स्यजीविनः ॥

सामात्यभृत्यो नृपतिर्विस्मयादिदमब्रवीत्

॥६०॥

सेव्याः श्रेयोऽर्थिभिः सन्तः पुण्यतीर्थे जलोपमाः ॥

क्षणो पासनमप्यत्र न येषां निष्फलं भवेत्

॥६१॥

सद्भिः सह सदासीत सद्भिः कुर्वीत सत्कथाम् ॥

सतां व्रतेन वर्तेत नासद्भिः किञ्चिदाचरेत्

॥६२॥

सतां समागमादेते समत्स्या मत्स्यजीविनः ॥

त्रिविष्टपमनुप्राप्ता नराः पुण्यकृतो यथा

॥६३॥

आपस्तंबो मुनिस्तत्र लोमशश्च महामनाः ॥

वरैस्तं विविधैरिष्टैश्छंदयामासतुर्नृपम्

॥६४॥

ततः स वरयामास धर्मबुद्धिं सुदुर्लभाम् ॥

तथेति चोक्त्वा तौ प्रीत्या तं नृपं वै शशंसतुः

॥६५॥

अहो धन्योऽसि राजेन्द्र यत्ते धर्मपरा मतिः ॥

धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम्

॥६६॥

यदि राजा मदाविष्टः स्वधर्मं न परि त्यजेत् ॥

ततो जगति कस्तस्मात्पुमानभ्यधिको भवेत्

॥६७॥

ध्रुवं जन्म सदा राज्ञां मोहश्चापि सदा ध्रुवः ॥

मोहाद्ध्रुवश्च नरको राज्यं निन्दन्त्यतो बुधाः

॥६८॥

राज्यं हि बहु मन्यंते नरा विषयलोलुपाः ॥

मनीषिणस्तु पश्यन्ति तदेव नरकोपमम्

॥६९॥

तस्माल्लोकद्वयध्वंसी न कर्त्तव्यो मदस्त्वया ॥

यदीच्छसि महाराज शाश्वतीं गतिमात्मनः

॥७०॥

ईश्वर उवाच

इत्युक्त्वा तौ महात्मानौ जग्मतुः स्वं स्वमाश्रमम् ॥

नाभागोऽपि वरं लब्ध्वा प्रहृष्टः प्राविशत्पुरम्

॥७१॥

एतत्ते कथितं देवि प्रभावं देविकोद्भवम् ॥

ऋषिणा स्थापितश्चापि भवो जाले श्वरस्तदा

॥७२॥

जाले निपतितो यस्माद्दाशानामृषिसत्तमः ॥

जालेश्वरेति नामासौ विख्यातः पृथिवीतले

॥७३॥

तत्र स्नात्वा महादेवि जालेश्वरसमर्चनात् ॥

आपस्तंबश्च नाभागो निषादा मत्स्यजीविनः

॥७४॥

मत्स्यैः सह गताः स्वर्गं देविकायाः प्रभावतः ॥

चैत्रस्यैव तु मासस्य शुक्लपक्षे त्रयोदशीम्

॥७५॥

दद्यात्पिण्डं पितृभ्यो यस्तस्यांतो नैव विद्यते ॥

गोदानं तत्र देयं तु ब्राह्मणे वेदपारगे ॥

श्रोतव्यं चैव माहात्म्यं द्रष्टव्यो जालकेश्वरः

॥७६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविका नदीमाहात्म्ये जालेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३८ ॥