मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १९०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 190

मोक्षस्वामिमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तत्र मुक्तिप्रदं हरिम् ॥

प्रभासान्नैर्ऋते भागे नातिदूरे व्यवस्थितम्

॥१॥

एकादश्यां जिताहारो यस्तं देवि प्रपूजयेत् ॥

माघेमासे विशेषेण सोऽग्निष्टोमफलं लभेत्

॥२॥

यस्तत्रानशनं कुर्याद्व्रतं चान्द्रायणादिकम् ॥

सोऽन्य तीर्थात्कोटिगुणं प्राप्नुयात्फलमीप्सितम्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये मोक्षस्वामिमाहात्म्यवर्णनंनाम नवत्युत्तरशततमोऽध्यायः ॥ १९० ॥