मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 31

सकारपंचकं प्रोक्तं यत्त्वया मम शंकर

देव्युवाच

सकारपंचकं प्रोक्तं यत्त्वया मम शंकर ॥

कथं तदत्र संवृत्तमेतन्मे संशयं महत्

॥१॥

कथं वात्र समायाता कुतश्चापि सरस्वती ॥

कथं स वाडवो जातः कस्मिन्काले कथं ह्यभूत् ॥

तत्सर्वं विस्तरेणेदं यथावद्वक्तुमर्हसि

॥२॥

ईश्वर उवाच

शृणु देवि यथा जाता तस्मिन्क्षेत्रे सरस्वती ॥

यतश्चैव समुद्भूता सर्वपापप्रणाशिनी

॥३॥

हिरण्या वज्रिणी न्यंकुः कपिला च सरस्वती

॥४॥

ऋषिभिः पञ्चभिश्चात्र समाहूता यथा पुरा ॥

वाडवेनाग्निना युक्ता यथा जाता शृणुष्व तत्

॥५॥

पुरा देवासुरे युद्धे निवृत्ते सोमकारणात् ॥

पितामहस्य वचनात्तारां चन्द्रः समर्पयत्

॥६॥

ततो याताः सुराः स्वर्गं पश्यन्तोऽधोमुखा महीम् ॥

ददृशुस्ते ततो देवा भूम्यां स्वर्गमिवापरम्

॥७॥

आश्रमं मुनिमुख्यस्य दधीचेर्लोक विश्रुतम् ॥

सर्वर्त्तुकुसुमोपेतं पादपैरुपशोभितम् ॥

केतकीकुटजोद्भूत बकुलामोदमोदितम्

॥८॥

एवंविधं समासाद्य तदाश्रमपदं गुरु ॥

कौतुकाद्द्रष्टुमारब्धाः सर्वे देवा मनोरमम्

॥९॥

ते च तीर्थाश्रमे तस्मिन्यानान्युत्सृज्य संयताः ॥

प्रवृत्तास्तमृषिं द्रष्टुं प्राकृताः पुरुषा यथा

॥१०॥

दृष्टवंतः सुराः सर्वे पितामहमिवापरम् ॥

ततस्त ऋषिणा सर्वे पाद्यार्घ्यादिभिरर्च्चिताः

॥११॥

यथोक्तमासनं भेजुः सर्वे देवाः सवासवाः ॥

तेषां मध्ये समुत्थाय शक्रः प्रोवाच तं मुनिम्

॥१२॥

आयुधानि विमुच्याग्रे भवान्गृह्णात्विमानि हि ॥

तन्निशम्य वचः प्राह दधीचिः पाकशासनम्

॥१३॥

मुक्तास्त्राणि ममाभ्याशे यूयं यात त्रिविष्टपम् ॥

तं शक्रः प्राह चैतानि कार्यकाले ह्युपस्थिते

॥१४॥

देयानि ते पुनः शत्रूनभिजेष्यामहे रणे ॥

पुनःपुनस्ततः शक्रः संदिश्य मुनिसत्तमम्

॥१५॥

अस्माकमेव देयानि न चान्यस्य त्वया मुने ॥

बाढमित्युदिते शक्रमुक्तवान्मुनिसत्तमः

॥१६॥

दास्यामि ते समस्तानि युद्धकाले विशेषतः ॥

नास्य मिथ्या भवेद्वाक्यमिति मत्वा शचीपतिः ॥

मुक्त्वास्त्राणि तदभ्याशे पुनः स्वर्गं गतस्तदा

॥१७॥

अस्त्रार्पणं यः प्रयतः प्रयत्नाच्छृणोति राजा भुवि भावितातात्मा ॥

सोऽभ्येति युद्धे विजयं परं हि सुतांश्च धर्मार्थयशोभिरामाः

॥१८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभा सखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वडवानलोत्पत्तिवृत्तान्ते दधीचिमहर्षये सर्वदेवकृतस्वस्वशस्त्रसमर्पणवर्णनंनामैकत्रिंशोध्यायः ॥ ३१ ॥