श्राद्धानर्हब्राह्मणपरीक्षणकथनम्
देव्युवाच
भगन्देवदेवेश संसारार्णवतारक ॥
ब्रूहि श्राद्धविधिं पुण्यं विस्तराज्जगतांपते
॥१॥कस्मिन्वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् ॥
अस्मिन्सरस्वती तीर्थे प्रभासक्षेत्र उत्तमे
॥२॥कस्मिंस्तीर्थे कृतं श्राद्धं बहुपुण्यफलं भवेत् ॥
एतत्सर्वं महादेव यथावद्वक्तुमर्हसि
॥३॥ईश्वर उवाच
प्रातःकाले मुहूतांस्त्रीन्संगवस्तावदेव तु ॥
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम्
॥४॥सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ॥
राक्षसीनाम सा वेला गर्हिता सर्वकर्मसु
॥५॥अह्नो मुहूर्ता विख्याता दशपंच च सर्वदा ॥
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः
॥६॥मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः ॥
तस्मादनंतफलदस्तदारम्भो भविष्यति
॥७॥मध्याह्नः खड्गपात्रं तु तथान्ये कालकम्बलाः ॥
रूप्यं दर्भांस्तिला गावो दौहित्रश्चाष्टमः स्मृतः
॥८॥पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः ॥
अष्ट चैवं मतास्तस्मात्कुतपा इति विश्रुताः
॥९॥ऊर्ध्वं मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् ॥
मुहूर्तपञ्चकं चैव स्वधाभवनमिष्यते
॥१०॥विष्णोर्देहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा ॥
श्राद्धस्य रक्षणार्थाय एतत्प्राहुर्दिवौकसः
॥११॥तिलोदकाञ्जलिर्देयो जलस्थैस्तीर्थवासिभिः ॥
सदर्भहस्तेनैकेन श्राद्धसेवनमिष्यते
॥१२॥त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ॥
त्रीणि चात्र प्रशंसंति शुद्धिमक्रोधमत्वराम्
॥१३॥दौहित्रं खड्गमित्युक्तं ललाटे शृङ्गमस्ति यत् ॥
तस्य शृंगस्य यत्पात्रं तद्दौहित्रमिति स्मृतम्
॥१४॥क्षीरिणी वापि चित्रा गौस्तत्क्षीरायद्घृतं भवेत् ॥
तद्दौहित्रमिति प्रोक्तं दैवे पित्र्ये च कर्मणि
॥१५॥दर्भाग्रं दैवमित्युक्तं समूलाग्रं तु पैतृकम् ॥
तत्रावलंबिनो ये तु कुशास्ते कुतपाः स्मृताः
॥१६॥शरीरद्रव्यदाराभूमनोमंत्रद्वि जन्मनाम् ॥
शुद्धिः सप्तसु विज्ञेया श्राद्धकाले विशेषतः
॥१७॥सप्तधा द्रव्यशुद्धिस्तु सोत्तमा मध्यमाऽधमा
॥१८॥श्रुतं शौर्यं तपः कन्या शिष्याद्यं चान्वयागतम् ॥
धनं सप्तविधं शुक्लमुपायोप्यस्य तादृशः
॥१९॥कुत्सितं कृषिवाणिज्यं शुक्लं शिल्पानुवृत्तिभिः ॥
कृतोपकारादाप्तं च शंबलं समुदाहृतम्
॥२०॥उत्कोचतश्च यत्प्राप्तं यत्प्राप्तं चैव साहसात् ॥
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम्
॥२१॥अन्यायोपार्जितैर्द्रव्यै र्यच्छ्राद्धं क्रियते नरैः ॥
तृप्यंति तेन चण्डालाः पुष्कसाद्यासु योनिषु
॥२२॥अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥
तेन तृप्तिमुपायांति ये पिशाचत्वमागताः
॥२३॥यत्पयः स्नानवस्त्रोत्थं भूमौ पतति पुत्रक ॥
तेन ये तरुतां प्राप्तास्तेषांतृप्तिः प्रजायते
॥२४॥यास्तु गंधांबुकणिकाः पतंति धरणीतले ॥
ताभिराप्यायनं तेषां ये देवत्वमुपागताः
॥२५॥उद्धृतेष्वपि पिण्डेषु याश्चान्नकणिका भुवि ॥
ताभिराप्यायनं तेषां तिर्यक्त्वं च कुले गताः
॥२६॥ये चादग्धाः कुले बालाः स्त्रियो याश्चाप्यसंस्कृताः ॥
विपन्नास्ते तु विकिरसंमार्जनसुलालसाः
॥२७॥भुक्त्वा वा भ्रमते यच्च जलं यच्चाह्नि सेवते ॥
ब्राह्मणानां तथान्नेन तेन तृप्तिं प्रयांति ते
॥२८॥पिशाचत्वमनुप्राप्ताः कृमिकीटत्वमेव ये ॥
अथ कालान्प्रवक्ष्यामि कथ्यमा नान्निबोध मे
॥२९॥श्राद्धं कार्यममावास्यां मासिमासींदुसंक्षये ॥
तथाष्टकासु विप्राप्तौ सूर्येन्दुग्रहणे तथा
॥३०॥अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे ॥
अमावास्याष्टकायां च कृष्णपक्षे विशेषतः
॥३१॥आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे ॥
गजच्छायाव्यतीपाते विष्टिवैधृति वासरे
॥३२॥वैशाखस्य तृतीयायां नवम्यां कार्त्तिकस्य च ॥
पंचदश्यां तु माघस्य नभस्ये च त्रयोदशी
॥३३॥युगादयः स्मृता एता दत्त स्याक्षयकारिकाः
॥३४॥यस्य मन्वन्तरस्यादौ रथारूढो दिवाकरः ॥
माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी
॥३५॥वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च ॥
पंचमी चैत्रमासस्य तस्यैवान्त्या तथापरा
॥३६॥शुक्लत्रयोदशी माघे कार्त्तिकस्य च सप्तमी ॥
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशीति च ॥
मन्वन्तराः स्मृता ह्येता दत्तस्याक्षयकारिकाः
॥३७॥श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा ॥
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तिथिः
॥३८॥मन्वादयः स्मृताश्चैता दत्तस्याक्षयकारिकाः ॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मरा म्यहम्
॥३९॥कल्पनामादयो देवि दत्तस्याक्षयकारिकाः ॥
तथा मन्वन्तरस्यादौ द्वादशैव वरानने
॥४०॥नित्यं नैमित्तिकं काम्यं वृद्धि श्राद्धं सपिण्डकम् ॥
पार्वणं चातिविज्ञानं गोष्ठं शुद्ध्यर्थमुत्तमम्
॥४१॥कर्मांगं नवमं प्रोक्तं दैवकं दशमं स्मृतम् ॥
एकादशं क्षयाहं तु पुष्ट्यर्थे द्वादशं स्मृतम्
॥४२॥सर्वेषामेव श्राद्धानां श्रेष्ठं सांवत्सरं स्मृतम् ॥
अहन्यहनि यच्छ्राद्धं नित्यं तत्परिकीर्तितम्
॥४३॥वैश्वदेवविहीनं तु अशक्तावुदकेन तु ॥
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते
॥४४॥कामेन विहितं काम्यमभिप्रेतार्थसिद्धये ॥
वृद्धौ यत्क्रियते श्राद्धं वृद्धि श्राद्धं तदुच्यते
॥४५॥ये समाना इति द्वाभ्यामेतच्छ्राद्धं सपिण्डनम् ॥
अमावास्यां तु यच्छ्राद्धं तत्पार्वणमुदाहृतम्
॥४६॥गोष्ठ्यां यत्क्रि यते श्राद्धं तद्गोष्ठीश्राद्धमुच्यते ॥
क्रियते पापशुद्ध्यर्थं शुद्धिश्राद्धं तदुच्यते
॥४७॥निषेककाले सोमे च सीमन्तोन्नयने तथा ॥
तथा पुंसवने चैव श्राद्धं कर्मांगमेव च
॥४८॥देवमुद्दिश्य क्रियते यत्तद्दैवकमुच्यते ॥
गच्छेद्देशान्तरं यस्तु श्राद्धं कार्यं तु सर्पिषा
॥४९॥पुष्ट्यर्थमेतद्विज्ञेयं क्षयाहं द्वादशं स्मृतम् ॥
मृतेऽहनि पितुर्यस्तु न कुर्याच्छ्राद्धमादरात्
॥५०॥मातुश्चैव वरारोहे वत्सरान्ते मृतेऽहनि ॥
नाहं तस्य महादेवि पूजां गृह्णामि नो हरिः
॥५१॥मृताहर्यो न जानाति मानवो यदि वा क्वचित् ॥
तेन कार्यममावास्यां श्राद्धं माघेऽथ मार्गके
॥५२॥अथ विप्रान्प्रवक्ष्यामि श्राद्धे ये केचन क्षमाः ॥
विशिष्टः श्रोत्रियो योगी वेदविद्यासमन्वितः
॥५३॥त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडंगवित् ॥
दौहित्रकस्तु जामाता स्वस्रीयः श्वशुरस्तथा
॥५४॥पञ्चाग्निकर्मनिष्ठश्च तपोनिष्ठश्च मातुलः ॥
पितृमातृपरश्चैव शिष्यसंबंधिबांधवः
॥५५॥वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः ॥
संबंधिनं तथा संतं दौहित्रं दुहितुः पतिम्
॥५६॥भागिनेयं विशेषेण तथा बन्धुगणानपि ॥
नातिक्रमेन्नरस्त्वेतान्मूर्खानपि वरानने
॥५७॥न ब्राह्मणान्परीक्षेत देवकर्मण्युप स्थिते ॥
पैत्रकर्मणि संप्राप्ते परीक्षेत प्रयत्नतः
॥५८॥ये स्तेनाः पतिताः क्लीबा ये च नास्तिकवृत्तयः ॥
तान्हव्यकव्ययोर्विप्राननर्हान्मनुर ब्रवीत्
॥५९॥जटिलं चानधीयानं दुर्बलं कितवं तथा ॥
याजयंति च ये शूद्रांस्तांश्च श्राद्धे न पूजयेत्
॥६०॥चिकित्सकान्देवलकान्मांस विक्रयिणस्तथा ॥
विपणैः पीरजीवंतो वर्ज्याः स्युर्हव्यकव्ययोः
॥६१॥प्रेष्यो ग्राम्यश्च राज्ञश्च कुनखी श्यावदंतकः ॥
प्रतिरोद्धा गुरोश्चैव त्यक्ता ग्निर्वार्धुषिस्तथा
॥६२॥यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ॥
ब्रह्मध्रुक्परिवित्तिश्च गणाभ्यन्तर एव च
॥६३॥कुशीलश्चैव काणश्च वृषलीपतिरेव च ॥
पौनर्भवश्च कानीनः कितवो मद्यपस्तथा
॥६४॥पापरोग्यभिशस्तश्च दांभिको रसविक्रयी ॥
धनुःशराणां कर्त्ता च यश्च स्याद्दिधिषूपतिः
॥६५॥मित्रध्रुड्दूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥
भ्रमरी मण्डपाली च चित्रांगः पिशुनस्तथा
॥६६॥उन्मत्तोंऽधश्च बधिरो वेदनिन्दक एव च ॥
हयगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति
॥६७॥पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥
स्रोतःसंभेदको यश्च वेश्यानां पोषणे रतः
॥६८॥गृहसंवेशको दूतः कृष्यारोपक एव च ॥
आखेटी श्येनजीवी च कन्यादूषक एव च
॥६९॥हिंस्रो वृषलपुत्रश्च गणानां चैव याजकः ॥
आचारहीनः क्लीबश्च नित्ययाजनकस्तथा
॥७०॥कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥
औरभ्रिको माहिषिकः परपूर्वा पतिस्तथा ॥
प्रेतनिर्यातकाश्चैव वर्जनीयाः प्रयत्नतः
॥७१॥एतान्वै गर्हिताचारानपांक्तेयान्द्विजाधमान् ॥
द्विजानां सति लाभे तू भयत्रैव विवर्जयेत्
॥७२॥वीक्षांधो वैकतः काणः कुष्ठी च वृषलीपतिः ॥
पापरोगी सहस्रस्य दातुर्नाशयते फलम्
॥७३॥यावद्भिः संस्पृशत्यङ्गैर्ब्राह्मणाञ्छ्रूद्रयाजकः ॥
तावतां न भवेत्प्रेत्य दातुर्वा तस्य पैत्रिकम्
॥७४॥आदौ माहिषकं दृष्ट्वा मध्ये च वृषलीपतिम् ॥
अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः
॥७५॥महिषी प्रोच्यते भार्या सा वैधव्येऽभिचारिणी ॥
तस्यां यः क्षपते दोषां स वै माहिषिकः स्मृतः
॥७६॥वृषलीत्युच्यते शूद्री तस्या यश्च पतिर्भवेत् ॥
तदोष्ठलालासंसर्गात्पतितो वृषलीपतिः
॥७७॥स्वं वृषं तु परित्यक्त्वा परेण तु वृषायते ॥
वृषली सा तु विज्ञेया न शूद्री वृषली भवेत्
॥७८॥चण्डाली बंधकी वेश्या रजःस्था या च कन्यका ॥
कुटिला च स्वगोत्रा च वृषल्यः सप्त कीर्तिताः
॥७९॥पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ॥
पतिताः पितरस्तस्याः कन्या सा वृषली भवेत्
॥८०॥यस्तु तां वरयेत्कन्यां ब्राह्मणो ज्ञानपूर्वतः ॥
अश्राद्धेयमपांक्तेयं तं विद्याद्वृषलीपतिम्
॥८१॥गौरी कन्या प्रधाना वै मध्यमा कन्यका मता ॥
रोहिणी तत्समा ज्ञेया अधमा च रजस्वला
॥८२॥अप्राप्ते रजसि गौरी प्राप्ते रजसि रोहिणी ॥
अव्यंजनकृता कन्या कुचहीना तु नग्निका
॥८३॥सप्तवर्षा भवेद्गौरी नववर्षा तु नग्निका ॥
दशवर्षा भवेत्कन्या ह्यत ऊर्ध्वं रजस्वला
॥८४॥व्यंजनैर्हन्ति वै पुत्रान्कुलं हन्यात्पयोधरा ॥
गतिमिष्टां तथा लोकान्हंति सा रजसा पितुः
॥८५॥य उद्वहेद्रजोयुक्तां स ज्ञेयो वृषलीपतिः
॥८६॥यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ॥
तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति
॥८७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धानर्हब्राह्मणपरीक्षणकथनंनाम पञ्चोत्तरद्विशततमो ऽध्यायः ॥ २०५ ॥