मृत्युञ्जयमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेद्वरारोहे लिंगं मृत्युञ्जयेश्वरम् ॥
तस्यैव वह्नि कोणस्थं धनुषां दशके स्थितम्
॥१॥पश्चिमे सागरादित्यात्स्थितं धनुश्चतुष्टये ॥
पापघ्नं सर्वजन्तूनां दर्शनात्स्पर्शनादपि
॥२॥पूर्वे युगे समाख्यातं नाम नन्दीश्वरेति च ॥
यत्र तप्तं तपो घोरं नन्दिनाम्ना गणेन मे
॥३॥प्रतिष्ठाप्य महालिंगं नित्यं पूजापरेण च ॥
तत्र जप्तो महामन्त्रो मृत्युञ्जय इति श्रुतः
॥४॥कोटीनां नियुतं देवि ततस्तुष्टो महेश्वरः ॥
ददौ गणेशतां तस्य मुक्तिं सामीप्यगां तथा
॥५॥मृत्युञ्जयेन मन्त्रेण तस्य तुष्टो यतो हरः ॥
तेन मृत्युञ्जयेशेति ख्यातं लिंगं धरातले
॥६॥यस्तं पूजयते भक्त्या पश्येद्वा भावितात्मवान् ॥
नाशयेत्तस्य पापानि सप्तजन्मार्जितान्यपि
॥७॥स्नापयेत्पयसा लिंगं दध्ना घृतयुतेन च ॥
मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत्
॥८॥कर्पूरोशीर मिश्रेण मृगनाभिरसेन च ॥
चन्दनेन सुगन्धेन पुष्पैः संपूजयेत्ततः
॥९॥दद्याद्धूपं पुरो देवि ततो देवस्य चागुरुम् ॥
वस्त्रैः संपूज्य विविधैरात्मवित्तानुसारतः
॥१०॥नैवेद्यं परमान्नं च दत्त्वा दीपसमन्वितम् ॥
अष्टांगं प्रणिपातं च ततः कार्यं च भक्तितः
॥११॥हेमदानं प्रदातव्यं ब्राह्मणे वेदपारगे
॥१२॥एवं यात्रा भवेत्तस्य शास्त्रोक्ता नात्र संशयः ॥
एवं कृत्वा नरो देवि लभते जन्मनः फलम्
॥१३॥इति संक्षेपतः प्रोक्तं मृत्युञ्जयमहोदयम् ॥
पापघ्नं सर्वजंतूनां सर्वकामफलप्रदम्
॥१४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये मृत्युञ्जयमाहात्म्यवर्णनंनाम पञ्चनवतितमोऽध्यायः ॥ ९५ ॥