कंकणमाहात्म्यवर्णनम्
देव्युवाच
किमर्थं कंकणं देव क्षिप्यते लवणांभसि ॥
तस्या पुण्यं न पूर्वोक्तं यथावद्वक्तुमर्हसि
॥१॥के मंत्राः किं विधानं तत्कस्मिन्काले महत्फलम् ॥
किं पुराभूच्च तद्वृत्तं भगवन्कंकणाश्रितम्
॥२॥ईश्वर उवाच
आसीत्पुरा महीपालो बृहद्रथ इति श्रुतः ॥
तस्य भार्याऽभवत्साध्वी नाम्ना चेंदुमती प्रिया
॥३॥न देवी न च गन्धर्वी नासुरी न च किंनरी ॥
तादृग्रूपा महादेवि यादृशी सा सुमध्यमा
॥४॥शीलरूपगुणोपेता नित्यं सा तु पतिवता ॥
सर्वयोषिद्गुणैर्युक्ता यथा साध्वी ह्यरुन्धती
॥५॥प्रधान (?)हस्रस्य सौभाग्यमदगर्विता ॥
न विना स तया रेमे मुहूर्त्तमपि पार्थिवः
॥६॥एकदा तस्यराजर्षेरर्द्धासनगता सती ॥
यावत्तिष्ठति राजेंद्रमृषिस्तावदुपागतः ॥
कण्वो नाम महातेजास्तपस्वी वेदपारगः
॥७॥तमागतमथो दृष्ट्वा सहसोत्थाय पार्थिवः ॥
पूजां कृत्वा यथान्यायं दत्त्वा चार्घ्यमनुत्तमम्
॥८॥सुखासीनं ततो मत्वा विश्रांतं मुनिपुंगवम् ॥
आपृच्छत्कुशलं राजा स सर्वं चान्वमोदयत्
॥९॥ततो धर्मकथां चक्रे स ऋषिर्नृपसन्निधौ
॥१०॥ततः कथावसाने सा भार्या तस्य महीपतेः ॥
अब्रवीदमृतं वाक्यं कृतांजलिपुटा सती
॥११॥इन्दुमत्युवाच
त्वं वेत्सि भगवन्सर्वमतीतानागतं विभो ॥
पृच्छे त्वां कौतुकाविष्टा तस्मात्त्वं क्षंतुमर्हसि
॥१२॥अन्यदेहोद्भवं कर्म मम सर्वं प्रकीर्त्तय ॥
ईदृशं मम सौभाग्यं पतिर्देवसुतोपमः
॥१३॥सौभाग्यं पतिदेवत्वं शीलं त्रैलोक्यविश्रुतम् ॥
किं प्रभावो व्रतस्यैष उताहोपोषितस्य वा
॥१४॥दानस्य वा मुनिश्रेष्ठ यन्मे सौभाग्यमुत्तमम् ॥
वशो राजा महाबाहुर्मम वाक्यानुगः सदा
॥१५॥एतन्मे सर्वमाचक्ष्व परं कौतूहलं हि मे
॥१६॥सूत उवाच
तस्यास्तद्वचनं श्रुत्वा ध्यात्वा च सुचिरं मुनिः ॥
अब्रवीत्प्रहसन्वाक्यं कण्वो वेदविदां वरः
॥१७॥कण्व उवाच
शृणु राज्ञि प्रवक्ष्यामि अन्यदेहोद्भवं तव ॥
न रोषश्च त्वया कार्यो लज्जा वापि सुमध्यमे
॥१८॥त्वमासीदन्यदेहे तु आभीरी पंचभर्तृका ॥
सौराष्ट्रविषये हीना देवं सोमेश्वरं गता
॥१९॥ततः स्नातुं प्रविष्टा च सागरे लवणांभसि ॥
हता कल्लोलमालाभिर्विह्वलत्वमुपागता
॥२०॥तव हस्ताच्च्युतं तत्र हैमं कंकणमेव च ॥
नष्टं समुद्रसलिले पश्चात्तापस्तु ते स्थितः
॥२१॥अथ कालेन महता पंचत्वं त्वमुपागता ॥
दशार्णाधिपतेर्गेहे ततो जातासि सुन्दरि
॥२२॥बृहद्रथेन चोढासि कंकणस्य प्रभा वतः ॥
न व्रतं न तपो दानं त्वया चीर्णं पुरा शुभे
॥२३॥एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
तच्छ्रुत्वा सा विशालाक्षी त्रपयाऽधो मुखी तथा ॥
आसीत्तूष्णीं तदा देवी श्रुत्वा वाक्यं च तादृशम्
॥२४॥एवं निवेद्य स मुनी राजपत्नीं वरानने ॥
जगाम भवनं स्वं च आमंत्र्य वसुधाधिपम्
॥२५॥ज्ञात्वा फलं कंकणस्य मुनेस्तस्य प्रभावतः ॥
गत्वा सोमेश्वरं देवं स्नात्वा च लवणांभसि
॥२६॥प्राक्षिपत्कंकणं तत्र प्रतिवर्षं(?) महाप्रभे ॥
ततो देवत्वमापन्ना प्रभावात्तस्य भामिनि
॥२७॥ईश्वर उवाच
एष प्रभावः सुमहान्कंकणस्य प्रकीर्तितः ॥
सर्वकामप्रदो देवि सर्वपापप्रणाशनः
॥२८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्ये कंकणमाहात्म्यवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥