मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 29

अग्नितीर्थं ततो गच्छेत्सागरस्य तटे शुभे

ईश्वर उवाच

अग्नितीर्थं ततो गच्छेत्सागरस्य तटे शुभे ॥

यत्राऽसौ वाडवो मुक्तः सरस्वत्या वरानने

॥१॥

दक्षिणे सोमनाथस्य सर्वपापप्रणाशनम् ॥

तीर्थं त्रैलोक्यविख्यातं पद्मकं नाम नामतः

॥२॥

धन्वंतरशते प्रोक्तं सोमेशाज्जलमध्यगम् ॥

कुण्डं पापहरं प्रोक्तं शतहस्तप्रमाणतः ॥

तत्र स्नानं प्रकुर्वीत विगाह्य निधिमंभसाम्

॥३॥

आदौ कृत्वा तु वपनं सोमेश्वरसमीपतः ॥

शंकरं मनसा ध्यायन्केशांस्तत्र परित्यजेत् ॥

समुत्तार्य ततः केशान्भूयः स्नानं समाचरेत्

॥४॥

यत्किंचित्कुरुते पापं मनुष्यो वृत्तिकर्शितः ॥

तदेव पर्वतसुते सर्वं केशेषु तिष्ठति

॥५॥

तस्मात्सर्वप्रयत्नेन केशांस्तत्र विनिक्षिपेत् ॥

तदेव सोमनाथाग्रे कृत्वा तु द्विगुणं फलम्

॥६॥

अग्नितीर्थसमीपस्थं कपर्द्दिद्वारमध्यगम् ॥

तत्रैव द्विगुणं ज्ञेयमन्यत्रैकगुणं स्मृतम्

॥७॥

क्षुरकर्म न शस्तं स्याद्योषितां तु वरानने ॥

सभर्तृकाणां तत्रैव विधिं तासां शृणुष्व मे

॥८॥

सर्वान्केशान्समुद्धृत्य च्छेदयेदंगुलद्वयम् ॥

ततो देवान्विधानेन तर्प्पयेत्पितृदेवताः

॥९॥

मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः

॥१०॥

गंगायां भास्करे क्षेत्रे मातापित्रोर्गुरौ मृते ॥

आधाने सोमपाने च वपनं सप्तसु स्मृतम्

॥११॥

अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥

नासौ तत्फलमाप्नोति वपनाद्यच्च लभ्यते

॥१२॥

विना मन्त्रेण यस्तत्र देवि स्नानं समाचरेत् ॥

समाप्नोति क्वचिच्छ्रेयो मुक्त्वैकं पर्ववासरम्

॥१३॥

विना मंत्रं विना पर्व क्षुरकर्म विना नरैः ॥

कुशाग्रेणापि देवेशि न स्प्रष्टव्यो महोदधिः

॥१४॥

एवं स्नात्वा विधानेन दत्त्वाऽर्घ्यं च महोदधौ ॥

संपूज्य पुष्पगंधैश्च वस्त्रैः पुण्यानुलेपनैः

॥१५॥

हिरण्मयं यथाशक्त्या निक्षिपेत्तत्र कंकणम्

॥१६॥

एवं कृत्वा विधानं तु स्पर्शयेल्लवणोदधिम् ॥

मन्त्रेणानेन देवेशि ततः सांनिध्यतां व्रजेत्

॥१७॥

ॐ नमो विष्णुगुप्ताय विष्णुरूपाय ते नमः ॥

सांनिध्ये भव देवेश सागरे लवणाम्भसि

॥१८॥

अग्निश्च रेतो मृडया च देहो रेतोधा विष्णुरमृतस्य नाभिः ॥

एतद्ब्रुवन्पार्वति सत्यवाक्यं ततोऽवगाहेत्तु पतिं नदीनाम्

॥१९॥

ॐ नमो रत्नगर्भाय मन्त्रेणानेन भामिनि ॥

कंकणं प्रक्षिपेत्तत्र ततः स्नायाद्यदृच्छया

॥२०॥

ततश्च तर्पयेद्देवान्मनुष्यांश्च पितामहान् ॥

तिलमिश्रेण तोयेन सम्यक्छ्रद्धासमन्वितः

॥२१॥

आजन्मशतसाहस्रं यत्पापं कुरुते नरः ॥

सकृत्स्नात्वा व्यपोहेत सागरे लवणाम्भसि

॥२२॥

वृषभस्तत्र दातव्यः प्रवृत्ते क्षुरकर्मणि ॥

आत्मप्रकृतिदानं च पीतवस्त्रं तथैव च

॥२३॥

अनेन विधिना तत्र सम्यक्स्नानं समाचरेत् ॥

स्पर्शयेद्वाडवं तेजश्चान्यथा दोषभाग्भवेत्

॥२४॥

वरः शापश्च तस्यायं पुरा दत्तो यथा द्विजैः

॥२५॥

देव्युवाच

कुत्र कुत्र महादेव जलस्नानाद्विशुध्यति ॥

किमर्थं सागरे दोषः प्राप्यते कौतुकं महत्

॥२६॥

यत्र गंगादयः सर्वा नद्यो विश्रांतिमागताः ॥

यत्र विष्णुः स्वयं शेते यत्र लक्ष्मीः स्वयं स्थिता

॥२७॥

किमर्थं वरशापं तु तस्य दत्तं द्विजैः पुरा ॥

सर्वं विस्तरतो ब्रूहि महान्मे संशयोऽत्र वै

॥२८॥

ईश्वर उवाच

दीर्घसत्रं पुरा देवि प्रारब्धं सुरसत्तमैः ॥

प्रभासं तीर्थमासाद्य सम्यक्छ्रद्धा समन्वितैः

॥२९॥

ततः सत्रावसाने तु दत्त्वा दानमनेकधा ॥

सर्वस्वं ब्राह्मणेन्द्राणां प्रभासक्षेत्रवासिनाम्

॥३०॥

तावदन्ये द्विजास्तत्र दक्षिणार्थं समागताः ॥

देशीयास्तत्र वास्तव्याः शतशोऽथ सहस्रशः

॥३१॥

प्रार्थनाभङ्गभीताश्च ततो देवाः सवासवाः ॥

प्रणष्टास्तान्सुरान्दृष्ट्वा ब्राह्मणाश्चानुवव्रजुः

॥३२॥

खेचरत्वं पुरा देवि ह्यासीदग्रभुवां महत् ॥

तेन यांति द्रुतं सर्वे यत्र यत्र सुरालयाः

॥३३॥

एवं सर्वत्रगामित्वं तेषां वीक्ष्य दिवौकसः ॥

प्रविष्टाः सागरं भीता ऊचुर्वाक्यं च तं पुनः

॥३४॥

शरणं ते वयं प्राप्ता ब्राह्मणेभ्यो भयं गताः ॥

नास्ति वित्तं च दानार्थं तस्माद्रक्ष महोदधे

॥३५॥

एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः ॥

एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥

विशेषतश्च देवानां रक्षणं बहुपुण्यदम्

॥३६॥

समुद्र उवाच

ब्राह्मणेभ्यो न भीः कार्या कथंचित्सुरसत्तमाः ॥

अहं वो रक्षयिष्यामि प्रविशध्वं ममोदरे

॥३७॥

ततस्ते विबुधाः सर्वे तस्य वाक्येन हर्षिताः ॥

प्रविष्टा गह्वरां कुक्षिं तस्यैव भय वर्ज्जिताः

॥३८॥

समुद्रोऽपि महत्कृत्वा निजरूपं च भूरिशः ॥

जलजाञ्जीवसंघातान्धृत्वा तीरसमीपतः

॥३९॥

ततश्चक्र उपायं स ब्राह्मणानां निपातने ॥

मत्स्यानामामिषं पक्त्वा महान्नेन च गोपितम्

॥४०॥

अथोवाच द्विजान्सर्वान्प्रणिपत्य कृतांजलिः ॥

प्रसादः क्रियतां विप्रा मुहूर्त्तं मम सांप्रतम्

॥४१॥

आतिथ्यग्रहणादेव दीनस्य प्रणतस्य च ॥

युष्मदर्थं मया सम्यगेतत्पाकं समावृतम् ॥

क्रियतां भोजनं भूयो गंतव्यमनु नाकिनाम्

॥४२॥

अथ ते ब्राह्मणा मत्वा समुद्रं श्रद्धयान्वितम् ॥

बाढमित्येव तं प्रोच्य बुभुजुः स्वर्णभाजने

॥४३॥

न व्यजानंत तन्मांसं गुप्तं स्वादु क्षुधार्द्दिताः

॥४४॥

ततस्तृप्ताश्च ते विप्रा ब्राह्मणा विगतक्षुधः ॥

आशीर्वादं ददुः सर्वे ब्राह्मणाः शंसित व्रताः

॥४५॥

भोजनांतो ब्राह्मणानां प्राणांतः क्षत्रजन्मनाम् ॥

आशीविषाणां सर्पाणां कोपो ज्ञेयो मृतावधिः ॥

प्रेरयामास देवान्वै गम्यतामित्युवाच तान्

॥४६॥

ततो देवाः सगंधर्वा गच्छंतः शीघ्रगा वियत् ॥

गच्छतस्तांस्ततो दृष्ट्वा ब्राह्मणास्तत्र वंदिता

॥४७॥

दक्षिणार्थं समुत्पेतुः सुरानुद्दिश्य पृष्ठतः

॥४८॥

ततः प्रपतिता भूमौ द्विजास्ते सहसा पुनः ॥

अभक्ष्यभक्षणात्ते वै ब्राह्मणा मांसभक्षणात्

॥४९॥

निष्कृतिं तां परिज्ञाय समुद्रस्य रुषान्विताः ॥

ददुः शापं महादेवि रौद्रं रौद्रवपुर्द्धराः

॥५०॥

यस्मादभक्ष्यं मांसं वै ब्राह्मणानां परं स्मृतम् ॥

त्वयोपहृतमस्माकं सुगुप्तं भक्ष्यसंयुतम्

॥५१॥

एकतः सर्वमांसानि मत्स्यमांसं तथैकतः ॥

एकतः सर्वपापानि परदारास्तथैकतः

॥५२॥

एवं वयं विजानन्तो यदि मांसस्य दूषणम् ॥

तथापि वंचिताः सर्वे अपरीक्षितकारिणः

॥५३॥

यस्मात्पापमते क्रूरं त्वया वै वञ्चिता वयम् ॥

मांसस्य भक्षणात्तस्मादपेयस्त्वं भविष्यसि

॥५४॥

अस्पृश्यस्त्वं द्विजेंद्राणामन्येषां च नृणां भुवि ॥

तवोदकेन ये मर्त्त्याः करिष्यंति कुबुद्धयः

॥५५॥

स्नानं ते नरकं घोरं प्रयास्यंति न संशयः ॥

कृतघ्नानां च ये लोका ये लोकाः पापकर्मिणाम्

॥५६॥

तांस्तवोदक संस्पर्शाल्लप्स्यंते मानवा भुवि

॥५७॥

ईश्वर उवाच

एवं शप्तः समुद्रस्तैर्ब्राह्मणैर्वरवर्णिनि ॥

ततो वर्षसहस्रं तु ह्यस्पृश्यः संबभूव ह

॥५८॥

ततस्त्रासाकुलो भूत्वा सर्वांस्तानिदमब्रवीत् ॥

देवकार्यमिदं विप्रा मया कृतमबुद्धिना

॥५९॥

बुभूषता परं धर्मं शरणागतसंभवम् ॥

कामात्क्रोधाद्भयाल्लोभाद्यस्त्यजेच्छरणागतम्

॥६०॥

सत्याद्वापि स विज्ञेयो महापातककारकः ॥

युष्मद्भीत्या समायाताः स्वर्गिणः शरणं मम

॥६१॥

ते मया रक्षिताः सम्यग्यथाशक्त्या ह्युपायतः ॥

शोषयिष्येऽहमात्मानं यस्माच्छप्तः प्रकोपतः

॥६२॥

भवद्भिर्नोत्सहे स्थातुं जनस्पर्शविनाकृतः ॥

एवमुक्त्वा ततो देवि समुद्रः सरितांपतिः ॥

आत्मानं शोषयामास दुःखेन महता स्थितः

॥६३॥

ततो देवगणाः सर्वे स्थलाकारं महार्णवम् ॥

शनैःशनैः प्रपश्यंतो भयेन महताऽन्विताः

॥६४॥

ऊचुर्गत्वा तु लोकेशं देवदेवं पितामहम् ॥

अस्मत्कृते द्विजैः शप्तः सागरो ब्राह्मणोत्तमैः

॥६५॥

स शोषयति चात्मानं दुःखेन महतान्वितः ॥

समुद्राज्जलमादाय प्रवर्षंति बलाहकाः

॥६६॥

ततः संजायते सस्यं सस्याद्यज्ञा भवंति च ॥

यज्ञैः संजायते तृप्तिः सर्वेषां त्रिदिवौकसाम्

॥६७॥

एवं तस्य विनाशेन नाशोऽस्माकं भविष्यति ॥

तस्मात्त्वं रक्ष तं गत्वा यथा शोषं न गच्छति

॥६८॥

यथा तुष्यंति विप्रास्ते तथा नीतिर्विधीयताम्

॥६९॥

देवानां वचनाद्ब्रह्मा गत्वा सागरसन्निधौ ॥

समुद्रार्थे ययाचे तान्ब्राह्मणान्क्षेत्रवासिनः

॥७०॥

ब्रह्मोवाच

प्रसादः क्रियतामस्य सागरस्य द्विजोत्तमाः ॥

यथा पवित्रतां याति मद्वाक्यात्क्रियतां तथा

॥७१॥

प्रदास्यति स युष्मभ्यं रत्नानि विविधानि च

॥७२॥

यूयं भविष्यथात्यंतं भूमिदेवा इति क्षितौ ॥

नाम्ना मद्वचनान्नूनं सत्यमेतन्मयोदितम् ॥

ब्राह्मणा ऊचुः ॥

नान्यथा कर्तुमिच्छामस्तव वाक्यं जगत्पते ॥

न च मिथ्याऽऽत्मनो वाक्यं प्रमाणं चात्र वै भवान्

॥७४॥

तन्नो वाक्यात्सुरश्रेष्ठ हितं वा यदि वाहितम् ॥

परं स्याज्जगतां श्रेयः सर्वेषां च दिवौकसाम् ॥

तथा कुरु जगन्नाथ अस्माकं हितकारणम्

॥७६॥

अथोवाच नदीनाथं ब्रह्मा लोकपितामहः ॥

मा शोषय त्वमात्मानं हितं वाक्यं शृणुष्व मे

॥७६॥

नान्यथा शक्यते कर्त्तुं द्विजानां वचनं हि तत् ॥

ब्राह्मणाः कुपिता नूनं भस्मीकुर्युः स्वतेजसा

॥७७॥

देवान्कुर्युरदेवांश्च तस्मात्तान्नैव कोपयेत् ॥

यस्मादेव तव स्पर्शस्त्रिधा मेध्यो भविष्यति

॥७८॥

पर्वकाले च संप्राप्ते नदीनां च समागमे ॥

सेतुबंधे तथा सिंधौ तीर्थेष्वन्येषु संयुतः

॥७९॥

इत्येवमादिसर्वेषु मध्येऽन्यत्र न कर्मणि ॥

यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥

तत्फलं तव तोयस्य स्पर्शादेव भविष्यति

॥८०॥

गयाश्राद्धे तु यत्पुण्यं गोग्रहे मरणेन च ॥

तत्फलं तव तोयस्य स्पर्शादेव भविष्यति

॥८१॥

अपेयस्त्वं तथा भावि स्वादमात्रेण केवलम् ॥

गंडूषमपि पीतं च तोयस्याशुभनाशनम्

॥८२॥

भविष्यति नृणां लोके तव सौख्यविवर्द्धनम् ॥

पितॄणां तव तोयेन यः करिष्यति तर्पणम् ॥

पूर्वोक्तेन विधानेन तस्य पुण्यफलं शृणु

॥९३॥

यावत्त्वं तिष्ठसे लोके यावच्चद्रार्कतारकाः ॥

तवोदकामृतैस्तृप्तास्तावत्स्थास्यंति पूर्वजाः

॥८४॥

माघे मासि च यः स्नायान्नैरंतर्येण भावितः ॥

पौंडरीकफलं तस्य दिवसेदिवसे भवेत्

॥८९॥

यात्रायामथवान्यत्र पर्वकाले शशिग्रहे ॥

अत्र स्नास्यति यः सम्यक्सागरे लवणांभसि ॥

अश्वमेधसहस्रस्य फलं प्राप्स्यति मानवः

॥८६॥

श्रीसोमेशसमुद्रस्य अंतरे ये मृता नराः ॥

पापिनोऽपि गमिष्यंति स्वर्गं निर्धूतकल्मषाः

॥८७॥

एवं भविष्यति सदा तव मद्वचनाद्विभो ॥

प्रयच्छस्व द्विजेंद्राणां रत्नानि विविधानि च

॥८८॥

तेन तुष्टा वरं भूयः प्रदास्यंति तवेप्सितम्

॥८९॥

ईश्वर उवाच

पितामहवचः श्रुत्वा बाढमित्येव सागरः ॥

ब्राह्मणेभ्यः सुरत्नानि ददौ श्रद्धा समन्वितः

॥९०॥

ब्राह्मणैर्ब्रह्मणो वाक्यमशेषं समनुष्ठितम् ॥

क्षुरकर्म तथा कृत्वा स्नानं सर्वेऽपि चक्रिरे

॥९१॥

एवं पवित्रतां प्राप्तस्तीर्थत्वं लव णोदधिः ॥

तस्य मध्ये महादेवि लिंगानां पंचकोटयः

॥९२॥

अस्मिन्मन्वंतरे देवि अदृश्याः सागरे कृताः ॥

अग्निकुण्डं च तत्रैव तथान्यत्पद्मकं सरः

॥९३॥

मध्ये तु प्रावृतं सर्वमस्मिन्मन्वंतरे प्रिये ॥

चक्रमैनाकयोर्मध्ये दिशि दक्षिणमुच्यते

॥९४॥

शातकुम्भमये कुम्भे धनुषायुतविस्तृते ॥

तत्र कुंभस्य मध्यस्थो वडवानलसंज्ञितः

॥९५॥

सूचीवक्त्रो महाकायः स जलं पिबते सदा ॥

एतदंतरमासाद्य अग्नितीर्थं प्रचक्षते

॥९६॥

तस्य मध्ये महासारं वाडवं यत्र वै मुखम् ॥

श्रीसोमेशाद्दक्षिणतो धन्वंतरशतावधि ॥

उत्तरान्मानसात्पूर्वं यावदेव कृतस्मरम्

॥९७॥

एतद्गोप्यं वरारोहे न देयं यस्य कस्यचित् ॥

ब्रह्मघ्नोपि विशुध्येत श्रुत्वैतन्नात्र संशयः

॥९८॥

एवं शापो वरो दत्तः सागरस्य यथा द्विजैः ॥

पूर्वं रुष्टैस्ततस्तुष्टैस्तत्सर्वं कथितं मया

॥९९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये समुदस्यापेयताकारण वर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥