मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 13

प्रभासपवित्रनामकरणार्कस्थलोत्पत्तिवर्णनम्

देव्युवाच

यदा भ्रमिस्थः सविता तक्षितः क्षुरधारया ॥

श्वशुरेण महादेव जामाता प्रीतिपूर्वकम्

॥१॥

तत्तेजः शातितं भूरि प्रभासे यत्पपात वै ॥

तदभूत्किं तदा देव प्रभासात्कथयस्व मे

॥२॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि सूर्यमाहात्म्यमुत्तमम् ॥

यच्छ्रुत्वा मानवो भक्त्या मुच्यते सर्वपातकैः

॥३॥

देहावतारो देवस्य प्रभासेऽर्कस्थलस्य च ॥

पुराणाख्यानमाचक्षे तव देवि यशस्विनि

॥४॥

शाकद्वीपे महादेवि भ्रमिस्थस्य तदा रवेः ॥

वर्षाणां तु शतं साग्रं तक्ष्यमाणे विभावसौ

॥५॥

यदाद्य भागजं तेजस्तत्प्रभासेऽपतत्प्रिये ॥

पतितं तत्र तत्तेजः स्थलाकारं व्यजायत

॥६॥

जांबूनदमयं देवि तत्पूर्वमभवत्क्षितौ ॥

तिष्यमाहात्म्ययोगेन शैलीभूतं च सांप्रतम्

॥७॥

तत्र चार्कमयं रूपं कृत्वा देवो दिवाकरः ॥

उत्पन्नः सर्वभूतानां हिताय धरणीतले

॥८॥

हिरण्यगर्भनामेति कृते सूर्येति कीर्तितम् ॥

त्रेतायां सवितानाम द्वापरे भास्करः स्मृतः

॥९॥

कलौ चार्कस्थलोनाम त्रिषु लोकेषु कीर्तितः ॥

अवतीर्णमिदं देवि स्वयमेव प्रतिष्ठितम्

॥१०॥

यदा स्वारोचिषो देवि द्वितीयोऽभून्मनुः पुरा ॥

तस्मिन्कालेऽवतीर्णोऽसौ देवस्तत्र दिवाकरः

॥११॥

भक्तिमुक्ति प्रदो देवि व्याधिदुःखविनाशकृत् ॥

तस्य तेजोद्भवैर्व्याप्तं रेणुभिः पञ्चयोजनम्

॥१२॥

दक्षिणोत्तरतो देवि पञ्चपूर्वापरेण तु ॥

उत्तरेण समुद्रस्य यावन्माहेश्वरी नदी

॥१३॥

न्यंकुमत्याश्चापरतो यावदेव कृतस्मरम् ॥

एतद्व्याप्तं महादेवि तत्तेजोरेणुभिः शुभैः

॥१४॥

तस्य सूक्ष्मा प्रभा या तु आदितेजोविनिःसृता ॥

तया व्याप्तं महादेवि यावद्द्वादशयोजनम्

॥१५॥

उत्तरे भास्करसुता दक्षिणे सरितां पतिः ॥

पूर्वपश्चिमतो देवि रुक्मिणीद्वितयं स्मृतम्

॥१६॥

एतस्मिन्नन्तरे देवि सौरं तेजः प्रसर्प्पितम् ॥

तेन पावित्र्यमानीतं क्षेत्रं द्वादशयोजनम्

॥१७॥

तस्य मध्यस्य यन्मध्यं तद्गृहं मम सुन्दरि ॥

तेजोमण्डलमध्यस्थं मम स्थानं महेश्वरि

॥१८॥

चक्षुर्मंडलमध्ये तु यथा देवि कनीनिका ॥

पूर्वपश्चिमतो देवि गोमुखादाऽऽश्वमेधिकम्

॥१९॥

दक्षिणोत्तरतो देवि समुद्रात्कौरवेश्वरीम् ॥

एतस्मिन्नंतरे क्षेत्रे क्षेत्रज्ञोऽहं वरानने

॥२०॥

यस्मादर्कस्य तेजोभिर्भासितं मम तद्गृहम् ॥

तस्मात्प्रभासनामेति कल्पेऽस्मिन्प्रथितं प्रिये

॥२१॥

तत्र पश्यति यः सूर्यमर्क्करूपं नरोत्तमः ॥

सर्वपापविनिर्मुक्तः सूर्यलोके महीयते

॥२२॥

स स्नातः सर्वतीर्थेषु तेन चेष्टं महामखैः ॥

सर्वदानानि दत्तानि पूर्वजास्तेन तोषिताः

॥२३॥

अर्करूपी यतः सूर्यस्तत्र जातो महीतले ॥

तस्मात्त्याज्यः सदा चार्को भोजनेऽत्र न संशयः

॥२४॥

यो दृष्ट्वार्कस्थलं मर्त्त्यश्चार्कपत्रेषु भुंजति ॥

गोमांसभक्षणं तेन कृतं भवति भामिनि

॥२५॥

भक्षितो भास्करस्तेन स कुष्ठी जायते नरः ॥

तस्मात्सर्वप्रयत्नेन चार्कपत्राणि वर्जयेत्

॥२६॥

यात्रायां प्रथमं देवि दृष्टो येनार्कभास्करः ॥

तं दृष्ट्वा महिषीं दद्याद्ब्राह्मणाय विपश्चिते

॥२७॥

ताम्रवर्णं रक्तवस्त्रं ततस्तुष्यति भास्करः ॥

तस्य चैव तु सांनिध्ये वह्निकोणे व्यवस्थितम्

॥२८॥

नातिदूरे महाभागे सिद्धेश्वरमिति स्मृतम् ॥

सर्वसिद्धिप्रदं देवि लिंगं त्रैलोक्यपूजितम्

॥२९॥

जैगीषव्येश्वरंनाम पूर्वं कृतयुगेऽभवत् ॥

कलौ सिद्धेश्वरमिति प्रसिद्धिमगमत्प्रिये

॥३०॥

तं दृष्ट्वा मनुजो देवि सर्वसिद्धिमवाप्नुयात् ॥

तत्रैव देवदेवेशि नातिदूरे व्यवस्थितम्

॥३१॥

सूर्यदक्षिणनैर्ऋत्ये पातालविवरं प्रिये ॥

मंदेहा राक्षसा यत्र तथा शालकटंकटाः

॥३२॥

सूर्यस्य तेजसा दग्धाः पातालमगमन्पुरा ॥

कलौ तद्द्वारमेवास्ति न पाताले गतिः प्रिये

॥३३॥

योगिन्यस्तत्र रक्षंति ब्राह्म्याद्या मातरस्तथा ॥

माघेकृष्णचतुर्दश्यां रात्रौ मातृगणान्यजेत् ॥

बलिपुष्पोपहारैश्च ततः सिद्धिर्भविष्यति

॥३४॥

इति हि सकलधर्मभावहेतोर्हरकमलासनविष्णुसंस्तुतस्य ॥

तनुपरिलिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोंऽते

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभासपवित्रनामकरणार्कस्थलोत्पत्तिवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥