मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ४३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 43

आदित्येश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेद्वरारोहे लिंगं सूर्यप्रतिष्ठितम् ॥

सोमेशात्पश्चिमे भागे धनुषां सप्तके स्थितम् ॥

आदित्येश्वरनामानं सर्वपातकनाशनम्

॥१॥

त्रेतायुगे महादेवि समुद्रेण महात्मना ॥

रत्नैः संपूजितं लिंगं वर्षाणामयुतं प्रिये

॥२॥

तेन रत्नेश्वरंनाम सांप्रतं प्रथितं क्षितौ ॥

पंचामृतेन संस्नाप्य पंचरत्नैः प्रपूजयेत्

॥३॥

ततो राजोपचारेण पूजयेद्विधिवन्नरः ॥

एवं कृते महादेवि मेरुदानफलं लभेत्

॥४॥

सर्वेषां चैव यज्ञानां दानानां नात्र संशयः

॥५॥

तीर्थानां चापि सर्वेषां यच्चान्यत्सुकृतं भुवि ॥

उद्धरेत्पितृवर्गं च मातृवर्गं च मानवः

॥६॥

बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥

क्षालयेच्चैव तत्सर्वं दृष्ट्वा रत्नेश्वरं नरः

॥७॥

धेनुदानं प्रशंसंति तस्मिन्स्थाने महर्षयः ॥

धेनुदस्तारयेन्नूनं दश पूर्वान्दशापरान्

॥८॥

देवस्य दक्षिणे भागे यो जपेच्छतरुद्रियम् ॥

संपूज्य विधिवल्लिंगं न स भूयः प्रजायते

॥९॥

एवं संक्षेपतः प्रोक्तमादित्येशमहोदयम् ॥

श्रुत्वाऽवधार्य यत्नेन मुच्यते कर्मबंधनैः

॥१०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आदित्येश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥