यदेतद्भवता प्रोक्तं पश्येत्पूर्वं कपर्द्दिनम्
देव्युवाच
यदेतद्भवता प्रोक्तं पश्येत्पूर्वं कपर्द्दिनम् ॥
भगवन्संशयं ह्येनं यथावद्वक्तुमर्हसि
॥१॥स भृत्यः किल देवेश तव शम्भो महाप्रभः ॥
प्रभोरनन्तरं भृत्य एष धर्मः सनातनः
॥२॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यथा पूज्यतमो हि सः ॥
कपर्द्दी सर्वदेवानामाद्यो विघ्नेश्वरः प्रभुः
॥३॥योऽसावतींद्रियग्राह्यः प्रभासक्षेत्रसंस्थितः ॥
सोमेश्वरो महादेवि लिंगरूपी सदाशिवः
॥४॥तस्य वामे स्थितो विष्णुर्वराह इति यः स्मृतः ॥
तस्य दक्षिणभागे तु स्थितो ब्रह्मा प्रजापतिः ॥
कपर्द्दिरूपमास्थाय सावित्र्याः कोपकारणात्
॥५॥कृते हेरंबनामा तु त्रेतायां विघ्नमर्द्दनः ॥
लंबोदरो द्वापरे तु कपर्द्दी तु कलौ स्मृतः
॥६॥एवं युगेयुगे तस्य अवतारः पृथक्पृथक् ॥
यथाकार्यानुरूपेण जायते च पुनःपुनः
॥७॥अष्टाविंशतिमे तत्र देवि प्राप्ते चतुर्युगे ॥
कारणात्मा यथोत्पन्नः कपर्द्दी तत्र मे शृणु
॥८॥पुरा द्वापरसंधौ तु संप्राप्ते च कलौ युगे ॥
स्त्रियो म्लेच्छाश्च शूद्राश्च ये चान्ये पापकारिणः ॥
प्रयांति स्वर्गमेवाशु दृष्ट्वा सोमेश्वरं प्रभुम्
॥९॥न यज्ञा न तपो दानं न स्वाध्पायो व्रतं न च ॥
कुर्वतोपि नरा देवि सर्वे यांति शिवालयम्
॥१०॥तं प्रभावं विदित्वैवं सोमेश्वरसमुद्भवम् ॥
अग्निष्टोमादिकाः सर्वाः क्रिया नष्टाः सुरेश्वरि
॥११॥ततो बालाश्च वृद्धाश्च ऋषयो वेदपारगाः ॥
शूद्राः स्त्रियोऽपि तं दृष्ट्वा प्रयांति परमां गतिम्
॥१२॥नष्टयज्ञोत्सवे काले शून्ये च वसुधातले ॥
ऊर्द्ध्वबाहुभिराक्रांतं परिपूर्णं त्रिविष्टपम्
॥१३॥ततो देवा महेंद्राद्या दुःखेनैव समन्विताः ॥
परिभूता मनुष्यैस्ते शंकरं शरणं गताः
॥१४॥ऊचुः प्रांजलयः सर्व इन्द्राद्याः सुरसत्तमाः ॥
व्याप्तोयं मानुषैः स्वर्गः प्रसादात्तव शंकर
॥१५॥निवासाय प्रभोऽस्माकं स्थानं किंचित्समादिश ॥
अहं श्रेष्ठो ह्यहं श्रेष्ठ इत्येवं ते परस्परम् ॥
जल्पंतः सर्वतो देव पर्यटंति यथेच्छया
॥१६॥धर्मराजः सुधर्मात्मा तेषां कर्म शुभाशुभम् ॥
स्वयं लिखितमालोक्य तूष्णीमास्ते सुविस्मितः
॥१७॥येषामथ कृतं सज्जं कुम्भीपाकं सुदारुणम् ॥
रौरवः शाल्मलिर्देव दृष्ट्वा तान्दिवि संस्थितान् ॥
वैलक्ष्यं परमं गत्वा व्यापारं त्यक्तवानसौ
॥१८॥श्रीभगवानुवाच
प्रतिज्ञातं मया सर्वं भक्त्या तुष्टेन वै सुराः ॥
सोमाय मम सांनिध्यमस्मिन्क्षेत्रे भविष्यति
॥१९॥न शक्यमन्यथाकर्तुमात्मनो यदुदीरितम् ॥
एवं यास्यंति ते स्वर्गं ये मां द्रक्ष्यंति तत्र वै
॥२०॥भयोद्विग्नास्ततो देवाः पार्वतीं प्रेक्ष्य विश्वतः ॥
ऊचुः प्रांजलयः सर्वे त्वमस्माकं गतिर्भव
॥२१॥एवमुक्त्वाऽस्तुवन्देवाः स्तोत्रेणानेन सत्तम ॥
जानुभ्यां धरणीं गत्वा शिरस्याधाय चांजलिम्
॥२२॥देवा ऊचुः
नमस्ते देवदेवेशि नमस्ते विश्वधात्रिके ॥
नमस्ते पद्मपत्राक्षि नमस्ते कांचनद्युते
॥२३॥नमस्ते संहर्त्रि कर्त्रि नमस्ते शंकरप्रिये ॥
कालरात्रि नमस्तुभ्यं नमस्ते गिरिपुत्रिके
॥२४॥आर्ये भद्रे विशालाक्षि नमस्ते लोकसुन्दरि ॥
त्वं रतिस्त्वं धृतिस्त्वं श्रीस्त्वं स्वाहा त्वं सुधा सती
॥२५॥त्वं दुर्गा त्वं मनिर्मेधा त्वं सर्वं त्वं वसुन्धरा ॥
त्वया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्
॥२६॥नदीषु पर्वताग्रेषु सागरेषु गुहासु च ॥
अरण्येषु च चैत्येषु संग्रामेष्वाश्रमेषु च
॥२७॥त्रैलोक्ये तत्र पश्यामो यत्र त्वं देवि न स्थिता ॥
एतज्ज्ञात्वा विशालाक्षि त्राहि नो महतो भयात्
॥२८॥ईश्वर उवाच
एवमुक्ता तु सा देवी देवैरिंद्रपुरोगमैः ॥
कारुण्यान्निजदेहं त्वं तदा मर्द्दितवत्यसि
॥२९॥मर्दयंत्यास्तव तदा संजातं च महन्मलम् ॥
तत्र जज्ञे गजेंद्रास्यश्चतुर्बाहुर्मनोहरः
॥३०॥ततोब्रवीत्सुरान्सर्वान्भवती करुणात्मिका ॥
एष एव मया सृष्टो युष्माकं हितकाम्यया
॥३१॥एष विघ्नानि सर्वाणि प्राणिनां संविधास्यति
॥३२॥मोहेन महताऽऽविष्टाः कामोपहतबुद्धयः ॥
सोमनाथमपश्यंतो यास्यंति नरकं नराः
॥३३॥एवं ते वचनं श्रुत्वा सर्वे ते हृष्टमानसाः ॥
स्वस्थानं भेजिरे देवास्त्यक्त्वा मानुषजं भयम्
॥३४॥अथे भवदनः प्राह त्वां देवि विनयान्वितः ॥
किं करोमि विशालाक्षि आदेशो दीयतां मम
॥३५॥श्रीभगवत्युवाच
गच्छ प्राभासिकं क्षेत्रं यत्र संनिहितो हरः ॥
तद्रक्ष मानुषाणां च यथा नायाति गोचरम्
॥३६॥लिंगं तु देवदेवस्य स्थापितं शशिना स्वयम् ॥
भवत्याऽऽदेशितो नित्यं नृणां विघ्नं करोति यः
॥३७॥प्रस्थितं पुरुषं दृष्ट्वा सोमनाथं प्रति प्रभुम् ॥
स करोति महाविघ्नं कपर्दी लोकपूजितः
॥३८॥पुत्रदारगृहक्षेत्र धनधान्यसमुद्भवम् ॥
जनयेत्स महामोहं ततः पश्यति नो हरम्
॥३९॥अथवा गडुगंडादि व्याधिं चैव समुत्सृजेत् ॥
तैर्ग्रस्तः पुरुषो मोहान्न पश्यति ततो हरम्
॥४०॥तस्मात्सर्वप्रयत्नेन सोमेश्वरपरीप्सया ॥
स नित्यं पूजनीयस्तु स्मर्तव्यस्तु दिवानिशम्
॥४१॥स्तोत्रेणानेन देवेशि सर्वविघ्नांतकेन वै ॥
समाराध्य गणाध्यक्षः प्रभासक्षेत्ररक्षकः
॥४२॥तत्तेऽहं संप्रवक्ष्यामि स्तोत्रं तद्विघ्रमर्दनम् ॥
कपर्दिनो महादेवि सावधानावधारय
॥४३॥ॐ नमो विघ्नराजाय नमस्तेऽस्तु कपर्दिने ॥
नमो महोग्रदंष्ट्राय प्रभासक्षेत्रवासिने
॥४४॥कपर्दिनं नमस्कृत्य यात्रानिर्विघ्रहेतवे ॥
स्तोष्येऽहं विघ्नराजानं सिद्धिबुद्धिप्रियं शुभम्
॥४५॥महागणपतिं शूरमजितं जयवर्द्धनम् ॥
एकदंतं च द्विदंतं चतुर्दंतं चतुर्भुजम्
॥४६॥त्र्यक्षं च शूलहस्तं च रक्त नेत्रं वरप्रदम् ॥
अजेयं शंकुकर्णं च प्रचण्डं दंडनायकम् ॥
आयस्कदंडिनं चैव हुतवक्त्रं हुतप्रियम्
॥४७॥अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ॥
तं नमामि गणाध्यक्षं भीममुग्रमुमासुतम्
॥४८॥मदवतं विरूपाक्षमिभवक्त्रसमप्रभम् ॥
ध्रुवं च निश्चलं शांतं तं नमामि विनायकम्
॥४९॥त्वया पूर्वेण वपुषा देवानां कार्यसिद्धये ॥
गजरूपं समास्थाय त्रासिताः सर्वदानवाः
॥५०॥ऋषीणां देवतानां च नायकत्वं प्रकाशितम्
॥५१॥इति स्तुतः सुरैरग्रे पूज्यसे त्वं भवात्मज ॥
त्वामाराध्य गणाध्यक्षमिभवक्त्रसमप्रभम्
॥५२॥ध्रुवं च निश्चलं शांतं परीतं वि जयश्रिया ॥
कार्यार्थं रक्तकुसुमै रक्तचंदनवारिभिः
॥५३॥रक्तांबरधरो भूत्वा चतुर्थ्यामर्चयेत्तु यः ॥
एककालं द्विकालं वा नियतो नियताशनः
॥५४॥राजानं राजपुत्रं वा राजमंत्रिणमेव च ॥
राज्यं वा सर्वविघ्नेशो वशीकुर्यात्सराष्ट्रकम्
॥५५॥यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥
स तत्फलमवाप्नोति स्मृत्वा देवं विनायकम्
॥५६॥विषमं न भवेत्तस्य न स गच्छेत्पराभवम् ॥
न च विघ्नं भवेत्तस्य जनो जातिस्मरो भवेत्
॥५७॥य इदं पठति स्तोत्रं षड्भिर्मासैर्वरं लभेत् ॥
संवत्सरेण सिद्धिं च लभते नात्र संशयः
॥५८॥प्रसादाद्दर्शनं याति तस्य सोमेश्वरः प्रभुः ॥
कपर्दाकारमुदरं यतोऽस्य समुदाहृतम् ॥
ततोऽस्य नाम जानीहि कपर्द्दीति महात्मनः
॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपर्दिविनायकमाहात्म्यवर्णनंनामाष्टात्रिंशोध्यायः ॥ ३८ ॥