ऋषितीर्थमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि तीर्थं त्रैलोक्यविश्रुतम् ॥
तस्यैव पश्चिमे भागे ऋषीणां पुण्यकर्मणाम्
॥१॥तस्मिंस्त्रिनेत्रा मत्स्याश्च दृश्यंतेऽद्यापि भामिनि ॥
अंगिरा गौतमोऽगस्त्यः सुमतिः सुसखिस्तथा
॥२॥विश्वामित्रः स्थूलशिराः संवर्त्तः प्रतिमर्द्दनः ॥
रैभ्यो बृहस्पतिश्चैव च्यवनः कश्यपो भृगुः
॥३॥दुर्वासा जामदग्न्यश्च मार्कंडेयोऽथ गालवः ॥
उशनाऽथ भरद्वाजो यवक्रीतस्त्रितस्तथा
॥४॥नारदः पर्वतश्चैव वसिष्ठोऽरुंधती तथा
॥५॥काण्वोऽथ गौतमो धौम्यः शतानन्दोऽकृतव्रणः ॥
जमदग्निस्तथा रामो बकश्चेत्येवमादयः ॥
कृष्णद्वैपायनश्चैव पुत्रशिष्यैः समन्वितः
॥६॥एतत्क्षेत्रं समा साद्य प्रभासं मुनिसत्तमाः ॥
तपस्तेपुर्महात्मानो विविधं परमाद्भुतम्
॥७॥एवं ते नियतात्मानो दमयुक्तास्तपस्विनः ॥
समाधिना जिगीषन्ते ब्रह्मलोकं सनातनम्
॥८॥अथाभवदनावृष्टिः कदाचिन्महती प्रिये ॥
कृच्छ्रं प्राप्तो ह्यभूत्तत्र सर्वलोकः क्षुधार्दितः
॥९॥ततो निरन्ने लोकेऽस्मिन्नात्मानं ते परीप्सवः ॥
मृतं कुमारमादाय कृच्छ्रं प्राप्तास्तदाऽपचन्
॥१०॥अथोपरिचरस्तत्र क्लिश्यमानान्हि तानृषीन् ॥
दृष्ट्वा राजा वृषादर्भिः प्रोवाचेदं वचस्तदा
॥११॥राजोवाच
प्रतिग्रहो ब्राह्मणानां दृष्टा वृत्तिरनिंदिता ॥
तस्मात्प्रतिग्रहं मत्त गृह्णीध्वं मुनिपुंगवाः
॥१२॥मुद्गान्माषांश्च व्रीहींश्च तथा रत्नानि कांचनम् ॥
युष्माकं संप्रदास्यामि यच्चान्यदपि दुर्ल्लभम् ॥
निवर्त्तध्वमतः सर्वे ह्येतस्मात्पातकात्परम्
॥१३॥ऋषय ऊचुः
तज्जानंतः कथं राजन्गृह्णीमस्ते प्रतिग्रहम्
॥१४॥दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ॥
दशध्वजि समा वेश्या दशवेश्यासमो नृपः
॥१५॥यो राज्ञां प्रतिगृह्णाति ब्राह्मणो लोभमोहितः ॥
तामिस्रादिषु घोरेषु नरकेषु स पच्यते
॥१६॥तद्गच्छ कुशलं तेऽस्तु सह दानेन पार्थिव ॥
अन्येषां दीयतामेतदित्युक्त्वा ते वनं ययुः
॥१७॥अथ राज्ञः समादेशात्तत्र गत्वा च मंत्रिणः ॥
ऊदुम्बराणि व्यकिरन्हेमगर्भाणि भूतले
॥१८॥अथ तानि व्यचिन्वंश्च ऋषयो वरवर्णिनि ॥
गुरूणीति विदित्वा तु न ग्राह्याण्यंगिराऽब्रवीत्
॥१९॥अत्रिरुवाच
नास्महेनास्महे मूढ वयमज्ञानबुद्धयः ॥
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जाड्यतः
॥२०॥वसिष्ठ उवाच
धर्मार्थं संचयो यस्य द्रव्याणां स न शस्यते ॥
तपःसंचयनं मन्ये वसिष्ठो धनसंचयम्
॥२१॥त्यजध्वं संचयान्सर्वाञ्जातीनां समुपद्रवान् ॥
न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः
॥२२॥यथायथा न गृह्णाति ब्राह्मणोऽसत्प्रतिग्रहम् ॥
तथातथाऽनिशं चास्य ब्रह्मतेजस्तु वर्धते
॥२३॥अकिंचनत्वं राज्यं च तुलया समतोलयम् ॥
अकिंचनत्वमधिकं राज्यादपि न संशयः
॥२४॥कश्यप उवाच
अनर्थो ब्राह्मणस्यैष यदर्थनिचयो महान् ॥
अर्थैश्वर्यविमूढोऽपि श्रेयसो भ्रश्यते द्विजः
॥२५॥अर्थसंपद्विमोहाय बहुशोकाय चैव हि ॥
तस्मादर्थमनर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत्
॥२६॥यस्य धर्मार्थमप्यर्थास्तस्यापि न हि दृश्यते ॥
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम्
॥२७॥भरद्वाज उवाच
जीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः ॥
चक्षुः श्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते
॥२८॥सूची सूत्र तथा वस्त्रे समानयति सूचिका ॥
तद्वत्संसारसूत्रस्य तृष्णा सूची विधीयते
॥२९॥यथा शृंगं रुरोः काये वर्द्धमाने हि वर्द्धते ॥
अनंतपारा दुर्वारा तृष्णा दुःखप्रदा सदा ॥
अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्
॥३०॥गौतम उवाच
संतुष्टः को न शक्नोति फलैश्चापि हि वर्त्तितुम् ॥
सर्वोऽपींद्रियलोभेन संकटान्यभिगाहते
॥३१॥सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम् ॥
उपानद्गूढपादस्य ननु चर्मावृतेव भूः
॥३२॥संतोषामृततृप्तानां यत्सुखं शांतचेतसाम् ॥
कुतस्तद्धनलुब्धानां सुखं चाशांतचेतसाम्
॥३३॥विश्वामित्र उवाच
कामं कामयमानस्य यदि कामः स सिद्ध्यति ॥
तथैनमपरः कामो भूयो विध्यति बाणवत्
॥३४॥न जातु कामः कामानामुपभोगेन शाम्यति ॥
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते
॥३५॥कामानभिलषन्लोभान्न नरः सुखमेधते ॥
समालभ्य तरुच्छायां भवनं वाञ्छो नरः
॥३६॥चतुःसागरसंयुक्तां यो भुंक्ते पृथिवीमिमाम् ॥
एकस्तु वनवासी च स कृतार्थो न पार्थिवः
॥३७॥जमदग्निरुवाच
प्रतिग्रहसमर्थो यस्तपो वर्द्धयते महान् ॥
न करोति तपस्तस्य जायते च सहस्रधा
॥३८॥प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात् ॥
य एव ददतां लोकास्त एवाप्रतिगृह्णताम्
॥३९॥अरुंधत्युवाच
बिसतंतुर्यथा नित्यं समंतान्नालसंस्थितः ॥
तृष्णा चैवमनाद्यंता तथा देहाश्रिता सदा
॥४०॥या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ॥
योऽसौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखम्
॥४१॥चंडोवाच
उग्रात्प्रतिग्रहाद्यस्माद्बिभ्यत्येते महेश्वराः ॥
बलीयांसो दुर्बलवत्तथा चैव बिभेम्यहम्
॥४२॥पशुमुख उवाच
यदाचरंति विद्वांसः सदा धर्मपरायणाः ॥
तदेव विदुषा कार्यमात्मनो हितमिच्छता
॥४३॥ईश्वर उवाच
इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि च ॥
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः
॥४४॥ततस्ते विचरंतो वै ददृशुः सुमहत्सरः ॥
पद्मिनीभिः समाकीर्णं सर्वतो वरवर्णिनि
॥४५॥तस्मिन्देशे तदा प्राप्तः परिव्राजः शुनोमुखः ॥
तेनैव सहितास्तत्र स्नाताः सर्वे महर्षयः
॥४६॥तत्रावतारं कृत्वा तैर्गृहीतानि बिसानि तु ॥
निक्षिप्य सरसस्तीरे चक्रुः पुण्यां जलक्रियाम्
॥४७॥अथोत्तीर्य जलात्तस्मात्ते समेत्य परस्परम् ॥
बिसानि तान्यपश्यंत इदं वचनमब्रुवन्
॥४८॥ऋषय ऊचुः
केन क्षुधाभितप्तानामस्माकं पापकर्मणा ॥
बिसानि तानि सर्वाणि हृतानि च मुनीश्वराः
॥४९॥ते शंकमानास्त्वन्योन्यं पर्यपृच्छन्द्विजोत्तमाः ॥
चक्रुस्ते शपथान्सर्वे यथान्यायं च भामिनि
॥५०॥कश्यप उवाच
सर्वभक्षः स भवतु न्यासलोपं करोतु सः ॥
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः
॥५१॥वसिष्ठ उवाच
अनृतौ मैथुनं यातु पर नारीं विशेषतः ॥
अतिथिः स्यात्तथान्योन्यं बिसस्तैन्यं करोति यः
॥५२॥भरद्वाज उवाच
नृशंसो वै स भवतु समृद्ध्या चाप्यहंकृ तः ॥
मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः
॥५३॥विश्वामित्र उवाच
नित्यं कामरतः सोस्तु दिवा सेवतु मैथुनम् ॥
नीचकर्मरतश्चैव बिसस्तैन्यं करोति यः
॥५४॥जमदग्निरुवाच
कन्यां यच्छतु वृद्धाय स भूयाद्वृषलीपतिः ॥
अस्तु वार्द्धुषिको नित्यं बिसस्तैन्यं करोति यः
॥५५॥गौतम उवाच
स गृह्णात्वविकादानं करोतु हयविक्रयम् ॥
प्रकरोतु गुरोर्निंदां बिसस्तैन्यं करोति यः
॥५६॥(?)अत्रिरुवाच
मातरं पितरं नित्यं दुर्मतिः सोऽवमन्यताम् ॥
शूद्रं पृच्छतु धर्मार्थं बिसस्तैन्यं करोति यः
॥५७॥अरुन्धत्युवाच
करोतु पत्युः पूर्वं सा भोजनं शयनं तथा ॥
नारी दुष्टसमाचारा बिसस्तैन्यं करोति या
॥५८॥चण्डोवाच
स्वामिनः प्रतिकूलास्तु धर्मद्वेषं करोतु च ॥
साधुद्वेषपरा चैव बिसस्तैन्यं करोति या
॥५९॥पशुमुख उवाच
परस्य प्रेष्यतां यातु सदा जन्मनिजन्मनि ॥
सर्वधर्म क्रियाहीनो बिसस्तैन्यं करोति यः
॥६०॥शुनोमुख उवाच
वेदान्स पठतु न्यायाद्गृहस्थः स्यात्प्रियातिथिः ॥
सत्यं वदतु चाजस्रं बिसस्तैन्यं करोति यः
॥६१॥ऋषय ऊचुः
इष्टमेतद्द्विजातीनां यस्त्वया शपथः कृतः ॥
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनोमुख
॥६२॥शुनोमुख उवाच
मया हृतानि सर्वेषां बिसानीमानि वै द्विजाः ॥
धर्मं वै श्रोतुकामेन जानीध्वं मां पुरंदरम्
॥६३॥अलोभादक्षया लोका जिता वै मुनिसत्तमाः ॥
प्रार्थयध्वं वरं शुभ्रं सर्वमेव ह्यसंशयम्
॥६४॥ऋषय ऊचुः
इहागत्य नरो यस्तु त्रिरात्रोपोषितः शुचिः ॥
कृत्वा स्नानं पितॄंस्तर्प्य श्राद्धं कुर्यात्समाहितः
॥६५॥सर्वतीर्थोद्भवं तस्य पुण्यं भूयात्पुरंदर ॥
नाधोगतिमवाप्नोति विबुधैस्सह मोदताम् ॥
तथेत्युक्त्वा ततः शक्रस्त त्रैवान्तर्हितोऽभवत्
॥६६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितीर्थमाहात्म्य वर्णनं नाम पञ्चपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५५ ॥