क्षेत्रप्रमाणवर्णनम्
सूत उवाच
एवं मुनीन्द्राः कथिते प्रभावे शंकरेण तु ॥
पुनः पप्रच्छ सा देवी कृतांजलिपुटा सती
॥१॥देव्युवाच
देवदेव जगन्नाथ क्षेत्रतीर्थमय प्रभो ॥
प्रभासक्षेत्रमाहात्म्यं विस्तरात्कथयस्व मे
॥२॥कथं तुष्यसि मर्त्यानां क्षेत्रे तत्र विचेतसाम् ॥
जप्तं दत्तं हुतं यष्टं तपस्तप्तं कृतं च यत् ॥
प्रभासे तु महाक्षेत्रे कस्मात्तत्राक्षयं भवेत्
॥३॥जात्यंतरसहस्रेषु यत्पापं पूर्वसंचितम् ॥
तत्कथं क्षयमाप्नोति तन्ममाचक्ष्व शंकर
॥४॥यदि प्रभासं सर्वेषां तीर्थानां प्रवरं मतम् ॥
किमन्यैर्बहुभिस्तत्र कर्त्तव्यं तीर्थविस्तरैः
॥५॥एकं यदि भवेत्तीर्थं मनो निःसंशयं भवेत् ॥
बहुत्वे सति तीर्थानां मनो विचलते नृणाम्
॥६॥तस्मात्सर्वं परित्यज्य तीर्थजालं सविस्तरम् ॥
प्रभासस्यैव माहात्म्यं कथयस्व सुरेश्वर
॥७॥क्षेत्रप्रमाणं सीमां च क्षेत्रसारं हि यत्प्रभो ॥
वक्तुमर्हसि तत्सर्वं परं कौतूहलं हि मे
॥८॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि क्षेत्राणां क्षेत्रमुत्तमम् ॥
सर्वक्षेत्रेषु यत्क्षेत्रं प्रभासं तु प्रियं मम
॥९॥प्रभासे तु परा सिद्धिः प्रभासे तु परा गतिः ॥
यत्र संनिहितो नित्यमहं भद्रे निरन्तरम्
॥१०॥तस्य प्रमाणं वक्ष्यामि सर्वसीमासमन्वितम् ॥
क्षेत्रं तु त्रिविध प्रोक्तं तत्ते वक्ष्याम्यनुक्रमात्
॥११॥क्षेत्रं पीठं गर्भगृहं प्रभासस्य प्रकीर्त्यते ॥
यथाक्रमं फलं तस्य कोटिकोटिगुणं स्मृतम्
॥१२॥क्षेत्रं तु प्रथमं प्रोक्तं तच्च द्वादशयोजनम् ॥
पञ्चयोजनमानेन क्षेत्रपीठं प्रकीर्तितम्
॥१३॥गर्भगृहं च गव्यूतिः कर्णिका सा मम प्रिया ॥
क्षेत्रसीमा प्रवक्ष्यामि शृणु देवि यथाक्रमम्
॥१४॥आयामव्यासतश्चैव आदिमध्यान्तसंस्थितम् ॥
पूर्वे तप्तोदक स्वामी पश्चिमे माधवः स्मृतः
॥१५॥दक्षिणे सागरस्तद्वद्भद्रा नद्युत्तरे मता ॥
एवं सीमासमायुक्तं क्षेत्रं द्वादशयोजनम्
॥१६॥एतत्प्राभासिकं क्षेत्रं सर्वपातकनाशनम् ॥
तन्मध्ये पीठिका प्रोक्ता पञ्चयोजनविस्तृता
॥१७॥न्यंकुमन्यपरेणैव वज्रिण्याः पूर्वतस्तथा ॥
माहेश्वर्या दक्षिणतः समुद्रोत्तरतस्तथा
॥१८॥आयामव्यासतश्चैव पञ्चयोजनविस्तरम् ॥
पीठमेतत्समाख्यातमथो गर्भगृहं शृणु
॥१९॥दक्षिणोत्तरतो यावत्समुद्रा त्कौरवेश्वरी ॥
पूर्वपश्चिमतो यावद्गोमुखाच्चाश्वमेधिकम् ॥
एतद्गर्भगृहं प्रोक्तं कैलासान्मम वल्लभम्
॥२०॥अत्रान्तरे तु देवेशि यानि तीर्थानि भूतले ॥
वापीकूपतडागानि देवतायतनानि च
॥२१॥सरांसि सरितश्चैव पल्वलानि ह्रदास्तथा ॥
तानि मेध्यानि सर्वाणि सर्वपापहराणि च
॥२२॥यत्र तत्र नरः स्नात्वा स्वर्गलोके महीयते ॥
क्षेत्रस्य प्रथमो भागो मेध्यो माहेश्वरः स्मृतः
॥२३॥द्वितीयो वैष्णवो भागो ब्रह्मभागस्तृतीयकः ॥
तीर्थानां कोटिरेका तु ब्राह्मे भागे व्यवस्थिता
॥२४॥वैष्णवे कोटिरेका तु तीर्थानां वरवर्णिनि ॥
सार्द्धकोटिस्तु संप्रोक्ता रुद्रभागे च मध्यतः
॥२५॥एवं देवि समाख्यातं तत्क्षेत्रं हि त्रिदैवतम् ॥
गुह्याद्गुह्यतरं क्षेत्रं मम प्रियतरं शुभे
॥२६॥तिस्रः कोट्योऽर्द्धकोटिश्च क्षेत्रे प्रोक्ता विभागतः ॥
यात्रा तु त्रिविधा ज्ञेया तां शृणुष्व वरानने
॥२७॥रौद्री तु प्रथमा यात्रा वैष्णवी च द्वितीयिका ॥
ब्राह्मी तृतीया संख्याता सर्वपातकनाशिनी
॥२८॥ब्राह्मे विभागे संप्रोक्ता इच्छाशक्तिर्वरानने ॥
क्रिया च वैष्णवे भागे द्वितीये तु प्रकीर्तिता
॥२९॥रौद्रे भागे तृतीये तु ज्ञानशक्तिर्वरानने ॥
यदि पापो यदि शठो यदि नैष्कृतिको नरः
॥३०॥निर्मुक्तः सर्वपापेभ्यो मध्यभागे वसेत्तु यः ॥
हिमवंतं परित्यज्य पर्वतं गंधमादनम्
॥३१॥कैलासं निषधं चैव मेरुपृष्ठं महाद्युतिम् ॥
रम्यं त्रिशिखरं चैव मानसं च महागिरिम्
॥३२॥देवोद्यानानि रम्याणि नंदनं वनमेव च ॥
स्वर्गस्थानानि रम्याणि तीर्थान्यायतनानि च ॥
तानि सर्वाणि संत्यज्य प्रभासे तु रतिर्मम
॥३३॥यस्तत्र वसते देवि संयतात्मा समाहितः ॥
त्रिकालमपि भुंजानो वायुभक्षसमो भवेत्
॥३४॥विघ्नैरालोड्यमानोऽपि यः प्रभासं न मुंचति ॥
स मुंचति जरां मृत्युं जन्मचक्रमशाश्वतम्
॥३५॥जन्मांतरशतैर्देवि योगो वा यदि लभ्यते ॥
मोक्षस्य च सहस्रेण जन्मनां लभ्यते न च
॥३६॥प्रभासे तु महादेवि ये स्थिता कृतनिश्चयाः ॥
एकेन जन्मना तेषां मोक्षो नैवात्र संशयः
॥३७॥प्रभासे तु स्थिता ये वै ब्राह्मणाः संशितव्रताः ॥
मृत्युंजयेन संयुक्तं जपंति शतरुद्रियम्
॥३८॥कालाग्निरुद्रसांनिध्ये दक्षिणां दिशमाश्रिताः ॥
ज्ञानं चोत्पद्यते तत्र षण्मासाभ्यंतरेण तु
॥३९॥शिवस्तु प्रोच्यते वेदो नामपर्यायवाचकैः ॥
तस्य चात्मस्वरूपं तु शतरुद्रं प्रकीर्तितम्
॥४०॥कल्पेषु वेदाश्च पुनःपुनरावर्तकाः स्मृताः ॥
मंत्राश्चैव तथा देवि मुक्त्वा तु शतरुद्रियम्
॥४१॥ईड्यं चैव तु मंत्रेण मामेव हि यजंति ये ॥
प्रभासक्षेत्रमासाद्य ते मुक्ता नात्र संशयः
॥४२॥समंत्रोऽमंत्रको वापि यस्तत्र वसते नरः ॥
सोऽपि यां गतिमाप्नोति यज्ञैर्दानैर्न साध्यते
॥४३॥अस्मिक्षेत्रे स्वयंभूश्च स्थितः साक्षान्महेश्वरः ॥
रुद्राणां कोटयश्चैव प्रभासे संव्यवस्थिताः
॥४४॥ध्यायमानास्तथोंकारं स्थिताः सोमेशदक्षिणे
॥४५॥ब्रह्मांडोदरमध्ये तु यानि तीर्थानि सुव्रते ॥
सोमेश्वरं गमिष्यंति वैशाखस्य चतुर्दशी
॥४६॥मनोबुद्धिरहंकारः कामक्रोधौ तथाऽपरे ॥
एते रक्षंति सततं सोमेशं पापनाशनम्
॥४७॥न सा गतिः कुरुक्षेत्रे गंगाद्वारे त्रिपुष्करे ॥
या गतिर्विहिता पुंसां प्रभासक्षेत्रवासिनाम्
॥४८॥तिर्यग्योनिगताः सत्त्वा ये प्रभासे कृतालयाः ॥
कालेन निधनं प्राप्तास्तेपि यांति परां गतिम्
॥४९॥तद्गुह्यं देवदेवस्य तत्तीर्थं तत्तपोवनम् ॥
तत्र ब्रह्मादयो देवा नारायणपुरोगमाः
॥५०॥योगिनश्च तथा सांख्या भगवंतं सनातनम् ॥
उपासते प्रभासं तु मद्भक्ता मत्परायणाः
॥५१॥अष्टौ मासान्विहारः स्याद्यतीनां संयतात्मनाम् ॥
एके च चतुरो मासानष्टौ वा नियतं वसेत्
॥५२॥प्रभासे तु प्रविष्टानां विहारस्तु न विद्यते ॥
अत्र योगश्च मोक्षश्च प्राप्यते दुर्लभो नरैः
॥५३॥तस्मात्प्रभासं संत्यज्य नान्यद्गच्छेत्तपोवनम् ॥
प्रभासं ये न सेवंते मूढास्ते तमसा वृताः
॥५४॥विण्मूत्ररेतसां मध्ये संभवंति पुनःपुनः ॥
कामः क्रोधस्तथा लोभो दंभः स्तंभोऽथ मत्सरः
॥५५॥निद्रा तंद्रा तथाऽऽलस्यं पैशुन्यमिति ते दश ॥
एते रक्षंति सततं सोमेशं तीर्थनायकम्
॥५६॥न प्रभासे मृतः कश्चिन्नरकं याति किल्बिषी ॥
यावज्जीवं नरो यस्तु वसते कृतनिश्चयः
॥५७॥अग्निहोत्रैश्च संन्यासैराश्रमैश्च सुपालितैः ॥
त्रिदंडैरेकदंडैश्च शैवैः पाशुपतैरपि
॥५८॥एतैरन्यैश्च यतिभिः प्राप्यते यत्फलं शुभम् ॥
तत्सर्वं लभ्यते देवि श्रीसोमेश्वरयात्रया
॥५९॥एको ह्यर्चयते लिंगं तपस्यति तथापरः ॥
तयोर्मध्ये तु श्रेष्ठो यः सोमेशं च प्रपूजयेत्
॥६॥यत्तद्योगे च सांख्ये च सिद्धांते पंचरात्रिके ॥
अन्यैश्च शास्त्रैर्विज्ञेयं प्रभासे संव्यवस्थितम्
॥६१॥लिंगे चैव स्थितं सर्वं जगदेतच्चराचरम् ॥
तस्माल्लिंगे सदा देवः पूजनीयः प्रयत्नतः
॥६२॥ममैव सा परा मूर्तिः श्रीसोमेशाख्यया स्थिता ॥
तेन चैषा त्मनात्मानमाराधनपरो ह्यहम्
॥६३॥अनेकजन्मसाहस्रैर्भ्रममाणस्तु जन्मभिः ॥
कस्तां प्राप्नोति वै मुक्तिं विना सोमेशपूजनात्
॥६४॥यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना ॥
तत्सर्वं विलयं याति श्रीसोमेश्वरपूजनात्
॥६५॥अनेकजन्मकोटीभिर्जंतुभिर्यत्कृतं ह्यघम् ॥
तत्सर्वं नाशमायाति श्रीसोमेश्वरपूजनात्
॥६६॥तीर्थानि यानि लोकेऽस्मिन्सेव्यंते पापमोक्षिभिः ॥
तानि सर्वाणि शुद्ध्यर्थं प्रभासे संविशंति हि
॥६७॥योऽसौ कालाग्निरुद्रस्तु प्रोच्यते वेदवादिभिः ॥
सोऽयं भैरवनाम्ना तु प्रभासे संव्यवस्थितः
॥६८॥जनानां दुष्कृतं सर्वं क्षेत्रमध्ये व्यवस्थितः ॥
भैरवं रूपमास्थाय नाशयामि सुरेश्वरि
॥६९॥जगत्सर्वं चरित्वा तु स्थितोऽहं सचराचरम् ॥
तेन भैरवनामाहं प्रभासे संव्यवस्थितः
॥७०॥अग्निना यत्र तप्तं तु दिव्याब्दानां चतुर्युगम् ॥
मेघवाहनकल्पे तु तत्र लिंगं बभूव ह
॥७१॥अग्निमीडेति वेदोक्तप्रभावः सुरसुंदरि ॥
कालाग्निरुद्रनामा च देवैः सर्वैरुदाहृतम्
॥७२॥अग्नीशानेति देवेशि नामत्रितयमुच्यते ॥
कल्पेकल्पे तु नामानि कथितुं नैव शक्यते ॥
असंख्यत्वाच्च कल्पानां ब्रह्मणा च वरानने
॥७३॥एवं चैव रहस्यं च महागोप्यं वरानने ॥
स्नेहान्महत्या भक्त्या च मया ते परिकीर्तितम्
॥७४॥एकतस्तु जगत्सर्वं कर्म कांडे प्रतिष्ठितम् ॥
यज्ञदानतपोहोमैः स्वाध्यायैः पितृतर्पणैः
॥७५॥उपवासैर्व्रतैः कृत्स्नैश्चांद्रायणशतैस्तथा ॥
षड्रात्रैश्च त्रिरात्रैश्च तीर्थादिगमनैः परैः
॥७६॥आश्रमैर्विविधाकारैर्यतिभिर्ब्रह्मचारिभिः ॥
वानप्रस्थैर्गृहस्थैश्च वेदकर्मपरायणैः
॥७७॥अन्यैश्च विविधाकारैर्लोकमार्गस्थितैः शुभैः ॥
न तत्पदं परं देवि शक्यं वीक्षयितुं क्वचित्
॥७८॥यावन्न चार्चयेद्देवि सोमेशं लिंगनायकम् ॥
लीलया वापि तैर्द्रष्टुं तत्पदं दुर्लभं परम्
॥७९॥पूजितो यैर्जगन्नाथः सोमेशः किल भैरवः ॥
तिर्यग्योनिगता ये तु पशुपक्षिपिपीलिकाः
॥८०॥अन्तर्ज्जलगता ये तु कृमिकीटपतंगकाः ॥
स्थावरा जंगमाश्चान्ये मनुष्याः पशवः स्त्रियः ॥
८! ॥
बाला वृद्धास्तथा षण्ढाः श्वानगर्द्दभवायसाः ॥
चंडालाः पुष्कसाः शूद्रा म्लेच्छा येऽन्ये वियोनिजाः
॥८२॥मूर्खास्तु पण्डिताश्चापि ये चान्ये कुत्सिता भुवि ॥
ते सर्वे मुक्तिमायांति प्रभासे ये मृताः शुभे
॥८३॥कालानलस्य रुद्रस्य कालराजेन चाग्निना ॥
दग्धास्ते जन्तवः सर्वे प्रभासे ये मृताः शुभे
॥८४॥दुर्ल्लभं तु मम क्षेत्रं प्रभासं देवि पापिनाम् ॥
न तत्र लभते मृत्युं पापात्मा लोकवंदिते
॥८५॥मया दक्षिणभागे च विघ्नेशः संप्रतिष्ठितः ॥
उत्तरे दण्डपाणिस्तु क्षेत्रमेतच्च रक्षति
॥८६॥तथान्ये गणपाः सर्वे मदाज्ञावशवर्तिनः ॥
क्षेत्रं रक्षंति देवेशि तेषां नामानि मे शृणु
॥८७॥महाबलस्तु चण्डीशो घंटाकर्णस्तु गोमुखः ॥
विनायको महानादः काकवक्त्रः शुभेक्षणः ॥
एकाक्षो दुन्दुभिश्चंडस्तालजंघस्तथैव च
॥८८॥भूमिदंडश्च चंडश्च शंकुकर्णश्च वैधृतिः ॥
तालचण्डो महातेजा विकटास्यो हयाननः
॥९८९॥हस्तिवक्त्रः श्वानवक्त्रो बिडालवदनस्तथा ॥
सिंहव्याघ्रमुखाश्चान्ये वीरभद्रादयस्तथा
॥९०॥विनायकं पुरस्कृत्य देव देवं कपर्द्दिनम् ॥
एकादश तथा कोट्यो नियुतानि त्रयोदश
॥९१॥अर्बुदं च गणानां च प्रभासं क्षेत्रमाश्रिताः ॥
द्वारिद्वारि प्रचंडास्ते शूलमुद्गरपाणयः
॥९२॥प्रभासक्षेत्रं रक्षंति देवदेवस्य वै गृहम् ॥
न कश्चिद्दुष्टबुद्ध्या तु प्रविशेदिति संस्थितिः
॥९३॥शतकोटिगणैश्चापि पूर्वद्वारि तु संवृतः ॥
अट्टहासो गणो नाम प्रभासं तत्र रक्षति
॥९४॥कालाक्षो भीषणश्चंडो वृतोऽष्टादशकोटिभिः ॥
घंटाकर्णगणो नाम दक्षिणं द्वारमाश्रितः
॥९५॥पश्चिमद्वारमाश्रित्य स्थितवान्विष्टरो गणः ॥
दण्डपाणिः स्थितस्तत्र देवदेवस्य चोत्तरे
॥९६॥योगक्षेमं वहन्नित्यं प्रभासे भावितात्मनाम् ॥
भीषणाक्षस्तथैशान्यामाग्नेय्यां छागवक्त्रकः
॥९७॥नैर्ऋत्यां चंडनादस्तु वायव्यां भैरवाननः ॥
नन्दी चैव महाकालो दण्डपाणिर्विनायकः
॥९८॥एतेङ्गरक्षका मध्ये शतकोटिगणैर्वृताः ॥
एवं रक्षंति बहवो ह्यसंख्येया गणेश्वराः
॥९९॥कलिकल्मषसंभूत्या येषां चोपहता मतिः ॥
न तेषां तद्भवेद्गम्यं स्थानमर्धेन्दुमौलिनः
॥१००॥गंधर्वैः किन्नरैर्यक्षैरप्सरोभिस्तथोरगैः ॥
सिद्धैः संपूज्य देवेशं सोमेशं पापनाशनम्
॥१०१॥अन्तर्धानं गतैर्नित्यं प्रभासं तु निषेव्यते ॥
सप्तलोकेषु ये सन्ति सिद्धाः पातालवासिनः ॥
प्रदक्षिणं ते कुर्वंति सोमेशं कालभैरवम्
॥१०२॥पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥
लाकुलिं भारभूतिं च आषाढिं दण्डमेव च
॥१०३॥पुष्करं नैमिषं चैव अमरेशं तथापरम् ॥
भैरवं मध्यमं कालं केदारं कणवीरकम्
॥१०४॥हरिचंद्रस्तु शैलेशस्तथा वस्त्रांतिकेश्वरः ॥
अट्टहासं महेन्द्रं च श्रीशैलं च गया तथा
॥१०५॥एतानि सर्वतीर्थानि देवं सोमेश्वरं प्रभुम् ॥
प्रदक्षिणं प्रकुर्वंति तत्र लिंगं स्तुवंति च
॥१०६॥ब्रह्मा जनार्दनश्चान्ये ये देवा जगति स्थिताः ॥
अग्निलिंगसमीपस्थाः संध्याकाले स्तुवंति च
॥१०७॥षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥
सर्वे सोमेश्वरं यांति माघकृष्णचतुर्द्दशीम्
॥१०८॥तस्मिन्काले च यो दद्यात्सोमेशे घृतकम्बलम्
॥१०९॥घृतं रसं तिलान्दुग्धं जलं चंद्राधिवासितम् ॥
एकत्र कृत्वा काश्मीरमित्येतद्घृतकंबलम्
॥११०॥शिवरात्र्यां तु कर्त्तव्यमेतद्गोप्यं मम प्रियम् ॥
एवं कृते च यत्पुण्यं गदितुं तन्न शक्यते
॥१११॥तत्र दक्षिणभागे तु स्वयं भूतविनायकम् ॥
प्रथमं पूजयेद्देवि यदीच्छेत्सिद्धिमात्मनः
॥११२॥ऊषराणां च सर्वेषां प्रभासक्षेत्रमूषरम् ॥
पीठानां चैव पीठं च क्षेत्राणां क्षेत्रमुत्तमम् ॥
सन्देहानां च सर्वेषामयं संदेह उत्तमः
॥११३॥ये केचिद्योगिनः संति शतकोटिप्रविस्तराः ॥
तेषां क्षेत्रे प्रभासे तु रतिर्न्नान्यत्र कुत्रचित्
॥११४॥लिंगादीशानभागे तु संस्थिता सुरसुन्दरि
॥११५॥मया या कथिता तुभ्यमुमा नाम कला शुभा ॥
सा सती प्रोच्यते देवि दक्षस्य दुहिता पुरा
॥११६॥दक्षकोपाच्छरीरं तु संत्यज्य परमा कला ॥
हिमवंतगृहे जाता उमानाम्ना च विश्रुता
॥११७॥तेन देवि त्वया सार्द्धं तत्रस्था वरदाः स्मृताः ॥
नवकोट्यस्तु चामुंडास्तस्मिन्क्षेत्रे स्थिताः स्वयम्
॥११८॥चैत्रे मासि सिताष्टम्यां तत्र त्वां यदि पूजयेत् ॥
एक विंशतिजन्मानि दारिद्र्यं तस्य नो भवेत्
॥११९॥अमा सोमेन संयुक्ता कदाचिद्यदि लभ्यते ॥
तस्यां सोमेश्वरं दृष्ट्वा कोटियज्ञफलं लभेत्
॥१२०॥एतत्क्षेत्रं महागुह्यं सर्वपातकनाशनम् ॥
रुद्राणां कोटयो यत्र एकादश समासते
॥१२१॥द्वादशात्र दिनेशानां वसवोऽष्टौ समागताः ॥
गन्धर्वयक्षरक्षांसि असंख्याता गणेश्वराः
॥१२२॥उमापि तत्र पार्श्वस्था सर्वदेवैस्तु संस्तुता ॥
नन्दी च गणनाथो यो देवदेवस्य शूलिनः
॥१२३॥महाकालस्य ये चान्ये गणपाः संति पार्श्वगाः ॥
गंगा च यमुना चैव तथा देवी सरस्वती
॥१२४॥अन्याश्च सरितः पुण्या नदाश्चैव ह्रदास्तथा ॥
समुद्राः पर्वताः कूपा वनस्पतय एव च
॥१२५॥स्थावरं जंगमं चैव प्रभासे तु समागतम् ॥
अन्ये चैव गणास्तत्र प्रभासे संव्यवस्थिताः
॥१२६॥न मया कथिताः सर्व उद्देशेन क्वचित्क्वचित् ॥
भक्त्या परमया युक्तो देवदेवि विनायकम् ॥
तृतीयं पूजयेत्तत्र वांछेत्क्षेत्रफलं यदि
॥१२७॥द्वादशैवं तथा चाष्टौ चत्वारिंशच्च कोटयः ॥
नदीनामग्नितीर्थस्य द्वारे तिष्ठंति भामिनि
॥१२८॥निर्माल्यलंघनं किंचिदज्ञाताद्यदि वै कृतम् ॥
तत्सर्वं विलयं याति अग्नितीर्थस्य दर्शनात्
॥१२९॥देवि किं बहुनोक्तेन क्षेत्रमेतन्महाप्रभम् ॥
न ते वर्णयितुं शक्यं कल्पकोटिशतैरपि
॥१३॥ये चांतरिक्षे भुवि ये च देवास्तीर्थानि वै यानि दिगंतरेषु ॥
क्षेत्रं प्रभासं प्रवरं हि तेषां सोमेश्वरं देवि तथा वरिष्ठम्
॥१३१॥ये चांडजाश्चोद्भिजाश्चैव जीवाः सस्वेदजाश्चैव जरायुजाश्च ॥
देवि प्रभासे तु गतासवोऽथ मुक्तिं परं यांति न संशयोऽत्र
॥१३२॥इति निगदितमेतद्देवदेवस्य चित्रं चरितमिदमचिंत्यं देवि ते शंकरस्य ॥
कलिकलुषविदारं सर्वलोकोऽपि यायाद्यदि पठति शृणोति स्तौति नित्यं य इत्थम्
॥१३३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेत्रप्रमाणवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥