सौभाग्येश्वरीमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि गौरीं सौभाग्यदायिनीम् ॥
पश्चिमे रावणेशस्य धनुषां पञ्चके स्थिताम्
॥१॥यत्रातप्यत्तपो घोरं स्वयं देवी ह्यरुंधती ॥
सौभाग्यं कांक्षमाणा सा गौरीपूजापरायणा
॥२॥संप्राप्ता परमां सिद्धिं तस्या देव्याः प्रभावतः ॥
तृतीयायां शुक्लपक्षे माघे मासि वरानने
॥३॥यस्तां पूजयते भक्त्या स सौभाग्यमवाप्नुयात् ॥
अन्यजन्मनि देवेशि नात्र कार्या विचारणा
॥४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सौभाग्येश्वरीमाहात्म्यवर्णनंनाम चतुर्विशत्युत्तरशततमोऽध्यायः ॥ १२४ ॥