मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ५७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 57

वरारोहामाहात्म्यवर्णनम्

ईश्वर उवाच

पंचैवं सिद्धलिंगानि कथितानि तव प्रिये ॥

यश्चैनं वेद संकेतं क्षेत्रवासी स उच्यते

॥१॥

अथ शक्तित्रयाणां ते रौद्रीणां वच्मि विस्तरम् ॥

इच्छा क्रियाज्ञानशक्त्यस्तिस्रस्ताः परिकीर्त्तिताः

॥२॥

पुनस्तासां पूजनायानुक्रमं क्रमतः शृणु ॥

चतुर्दश तथा पंच पूर्वमुक्तानि यानि तु

॥३॥

चत्वारि त्रीणि चैकं वा यथाशक्त्याभिपूज्य च ॥

लिंगानि तानि संपूज्य शक्तीस्तिस्रस्ततोऽर्चयेत्

॥४॥

सोमेशादीशदिग्भागे वरारोहेति या स्मृता ॥

अमा कला सा सोमस्य उमा पश्चात्प्रकीर्त्तिता

॥५॥

इच्छाशक्तिस्तु सा ज्ञेयाप्रभासक्षेत्रसंस्थिता ॥

तत्र देवि हितार्थाय सर्वेषां प्राणिनां भुवि

॥६॥

तस्या माहात्म्यमखिलं कथयामि तवाधुना ॥

पुरा सोमेन त्यक्ताभिर्भार्याभिस्तु वरानने

॥७॥

षड्विंशद्भिस्तपस्तप्तं क्षेत्रे प्राभासिके शुभे ॥

गौरी साऽऽराध्यमानाथ दिव्यवर्षगणान्बहून्

॥८॥

तासां प्रत्यक्षतां प्राप्ता पार्वती परमेश्वरी ॥

उवाच वरदा ब्रूत यद्वो मनसि संस्थितम्

॥९॥

अथ ताश्चाब्रुवन्देवि यदि तुष्टासि पार्वति ॥

सौभाग्यं देहि नो भूरि लावण्यं परमं तथा

॥१०॥

त्यक्ताः सर्वा वयं देवि निर्दोषाः स्वामिना शुभे ॥

दौर्भाग्यदोषसंदग्धा दौर्भाग्येण तु पीडिताः

॥११॥

गौर्युवाच

अद्यप्रभृति सर्वा वः समं द्रक्ष्यति रात्रिपः ॥

प्रसादान्मम चार्वंग्यो नैतन्मिथ्या भविष्यति

॥१२॥

वरदा चेति मन्नाम वरदानाद्भविष्यति ॥

इहागत्य तु या नारी पूजयिष्यति मां शुभाम्

॥१३॥

न दौर्भाग्यं कुले तस्याः क्वचित्प्राप्स्यंति योषितः ॥

माघमासे तृतीयायामुपवासपरायणा

॥१४॥

या मां द्रक्ष्यति सुश्रोणी मत्तुल्या सा भवि ष्यति ॥

दम्पती षोडशैवात्र परिधाप्य प्रयत्नतः

॥१५॥

फलानि भक्ष्यभोज्यं च पक्वान्नानि च षोडश ॥

या प्रदास्यति वै नारी सा तूमैव भविष्यति

॥१६॥

एतद्गौरीव्रतंनाम तृतीयायां तु कारयेत् ॥

अप्रसूता च या नारी या नारी दुर्भगा भवेत्

॥१७॥

पुमानसकृदप्यैवं कृत्वा प्राप्स्यत्यभीप्सितम् ॥

एवमुक्त्वा स्थिता तत्र सा देवी चारुलोचना

॥१८॥

पश्यते रात्रिनाथश्च सर्वास्ता रोहिणीं यथा ॥

अन्यापि दुःखसंदग्धा दौर्भाग्येण तु पीडिता

॥१९॥

अपूजयदुमां देवीं सुभगा साऽभवत्ततः ॥

इति संक्षेपतः प्रोक्तं माहात्म्यं शक्तिसंभवम्

॥२०॥

सोमेश्वरे वरारोहा नामेति कथितं तव ॥

सर्वपापक्षयकरं सर्वदारिद्र्यनाशनम्

॥२१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वरारोहामाहात्म्यवर्णनंनाम सप्तपंचाशोऽध्यायः ॥ ५७ ॥