वाडवेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि लिंगं वै वाडवेश्वरम् ॥
लक्ष्मीशादुत्तरे भागे विशालाक्ष्याश्च दक्षिणे
॥१॥स्थितं महाप्रभावं हि वाडवेन प्रतिष्ठितम् ॥
कृतस्मरो यदा दग्धः पर्वतो वाडवाग्निना
॥२॥समीकृत्याखिलं स्थानं तेन लिंगं प्रतिष्ठितम् ॥
पूजयेत्तं विधानेन दश संस्नाप्य शंकरम्
॥३॥दधि दद्याच्च वै तत्र ब्राह्मणे वेदपारगे।
सोऽग्निलोकमवाप्नोति सम्यग्यात्राफलं लभेत्
॥४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वाडवेश्वरमाहात्म्यवर्णनंनाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥