शृंगेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि शृंगेश्वरमनुत्तमम् ॥
शुकस्थानस्य सान्निध्ये सर्वपातकनाशनम्
॥१॥स्नात्वा तत्रैव विधिवच्छृंगेशं पूजयेन्नरः ॥
मुक्तः स्यात्पातकैः सर्वैर्ऋष्यशृंगो यथा पुरा
॥२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शृंगेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५६ ॥