मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १५४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 154

गायत्रीश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि लिंगं पापविमोचनम् ॥

हिरण्येश्वरवायव्ये धनुषां त्रितये स्थितम्

॥१॥

पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥

आद्यं लिंगं महादेवि गायत्र्या संप्रतिष्ठितम्

॥२॥

तल्लिंगं समनुप्राप्य गायत्रीं जपते तु यः ॥

ब्राह्मणस्तु शुचिर्भूत्वा मुच्यते दुष्प्रतिग्रहात्

॥३॥

ज्येष्ठस्य पूर्णिमायां तु दंपती यस्तु भोजयेत् ॥

परिधाप्य यथाशक्त्या दौर्भाग्यैर्मुच्यते नरः

॥४॥

गंधपुष्पोपहारैश्च पौर्णमास्यां तु योऽर्चयेत् ॥

ब्राह्मण्यं जायते तस्य सप्त जन्मानि सुंदरि

॥५॥

इत्येवं कथितं देवि माहात्म्यं पापनाशनम् ॥

ब्रह्मकुण्डप्रसादेन सारात्सारतरं प्रिये

॥६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये गायत्रीश्वरमाहात्म्यवर्णनंनाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५४ ॥