मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३०७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 307

प्रभासक्षेत्रमाहात्स्येऽपरनारायणमाहात्म्यवर्णनम्

ईश्वर उवाच

सांबादित्याच्च पूर्वेण किञ्चिदाग्नेयसंस्थितः ॥

अपरनारायणोनाम यस्मान्नास्ति परो भुवि

॥१॥

स तु सांबस्य देवेशि सूर्यो विष्णुस्वरूपवान् ॥

अपरां मूर्तिमास्थाय विष्णुरूपो वरं ददौ

॥२॥

तेनापरेति नाम्ना वै ख्यातो विष्णुः पुराऽभवत् ॥

फाल्गुनामलपक्षे तु एकादश्यां विधानतः

॥३॥

पूजयेत्पुण्डरीकाक्षं तत्र सूर्यस्वरूपिणम् ॥

मुक्तो भवति पापेभ्यः सर्वकामैः समृध्यते

॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्स्येऽपरनारायणमाहात्म्यवर्णनंनाम सप्तोत्तरत्रिशततमोऽध्यायः ॥ ३०७ ॥