मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३२०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 320

लिंगद्वयमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्माच्च पूर्वदिग्भागे किञ्चिदाग्नेयसंस्थितम् ॥

लिंगद्वयं महापुण्यं विश्वकर्मप्रतिष्ठितम्

॥१॥

यदा वै नगरं कर्तुं त्वष्टा तत्र समागतः ॥

प्रतिष्ठाप्य महादेवं नगरं कृतवांस्ततः

॥२॥

कृत्वा च नगरं रम्यं लिंगस्यास्य प्रभावतः ॥

पुनः प्रतिष्ठितं र्लिगं तेन वै विश्वकर्मणा

॥३॥

कर्मादौ कर्मणश्चान्ते यात्रोद्वाहगृहादिके ॥

लिंगद्वयं पूजयित्वा सिद्धिमाप्नोति तत्क्षणात्

॥४॥

तस्मात्सर्वप्रयत्नेन गंधामृतरसोदकैः ॥

नैवेद्यै विविधैर्देवि लिंगयुग्मं प्रपूजयेत्

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थानमाहात्म्ये लिंगद्वयमाहात्म्यवर्णनंनाम विंशोत्तरत्रिशततमोऽध्यायः ॥ ३२० ॥