मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २८८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 288

ततो गच्छेन्महादेवि बालादित्यमिति श्रुतम्

ईश्वर उवाच

ततो गच्छेन्महादेवि बालादित्यमिति श्रुतम् ॥

अगत्स्यस्थानतः पूर्वे गव्यूतिद्वितयेन तु

॥१॥

स्थानं सपाटिकानाम तस्यदक्षिणतः स्थितम् ॥

गव्यूतिमात्रं देवेशि बालार्क इति विश्रुतम्

॥२॥

यत्र चाराधिता विद्या विश्वामित्रेण धीमता ॥

संस्थाप्य लिंगत्रितयं प्रतिष्ठाप्य तथा रविम्

॥३॥

विद्यायाः साधनं चक्रे सिद्धिं सूर्यादवाप्तवान् ।

बालादित्येति तेनासौ ततः ख्यातिमगात्प्रभुः

॥४॥

तं दृष्ट्वा मानवो देवि भास्करपापतस्करम् ॥

न दारिद्र्यमवाप्नोति यावज्जीवति मानवः

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बालार्कमाहात्म्यवर्णनंनामाष्टाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८८ ॥