वडवानलवंचनवृत्तान्तवर्णनम्
ईश्वर उवाच
ततस्तेषु प्रयातेषु देवदेवेष्वसौ मुनिः ॥
शतवर्षाणि तत्रस्थस्तपसे प्रस्थितो द्विजः
॥१॥आश्रमादुत्तरात्तस्माद्दिव्यां दिशमथोत्तराम् ॥
सुभद्रापि महाभागा तस्य या परिचारिका
॥२॥अस्त्रादानेऽसमर्था सा ऋषिं प्रोवाच भामिनी ॥
नाहं नेतुं समर्थास्मि शस्त्राण्यालभ्य पाणिना
॥३॥जलेन सह तद्वीर्यं पीतवान्स ऋषिस्ततः ॥
आत्मसंस्थानि सर्वाणि दिव्यान्यस्त्राण्यसौ मुनिः ॥
कारयित्वोत्तरामाशां जगाम तपसां निधिः
॥४॥गंगाधरं शुक्लतनुं सर्प्पैराकीर्णविग्रहम् ॥
शिववत्सुखदं पुंसामपश्यत्स हिमाचलम्
॥५॥तथाश्रमं ददर्शोच्चैरश्वत्थैः परिपालितम् ॥
चंद्रभागोपकंठस्थं समित्पुष्पकुशान्वितम्
॥६॥स तस्मिन्मुनिशादूलो ह्यवसन्मुनिभिः सह ॥
सुभद्रया च संयुक्तश्चंद्रश्चंद्रिकया यथा
॥७॥एकदा वसतस्तस्य सुभद्रा परिचारिका ॥
स्नानार्थं यातुमारब्धा चतुर्थेऽह्नि रजस्वला
॥८॥व्रजन्त्या च तया दृष्टं कौपीनाच्छादनं पुनः ॥
परित्यक्तं विदित्वैवं दैवयोगाद्गृहाण सा
॥९॥परिधाय पुनः सा तु कौपीनं रेतसायुतम् ॥
एकांते स्नातुमारब्धा जलाभ्याशे यथासुखम्
॥१०॥ततो देवी यथाकाममकस्माद्वीक्षते हि सा ॥
स्वोदरस्थं समुत्पन्नं गर्भं गुरुभरालसा
॥११॥शोचयित्वात्मनात्मानमगर्भाहमिहागता ॥
तत्केन मन्दभागिन्या ममैवं दूषणं कृतम्
॥१२॥लज्जाभिभूता सा तत्र प्रविश्याश्वत्थवाटिकाम् ॥
तत्र तं सुषुवे गर्भमविज्ञाय कुतो ह्ययम्
॥१३॥पुनरेव हि सा स्नात्वा अविज्ञायात्मदुष्कृतम् ॥
शापं दातुं समारब्धा गर्भकर्त्तरि दुःसहम्
॥१४॥ज्ञानाद्वा यदि वाज्ञानाद्येनेयं दूषणा कृता ॥
सोऽद्यैव पंचतां यातु यद्यहं स्यां पतिव्रता
॥१५॥यद्यहं मनसा वापि कामये नापरं पतिम् ॥
एतेन सत्यवाक्येन यातु जारः स्वयं क्षयम्
॥१६॥एवं शप्त्वा तु तं देवी ह्यज्ञात्वा गर्भकारिणम् ॥
पुनर्यातुं समारब्धा तद्दधीचिनिकेतनम्
॥१७॥तत्र चार्कप्रतीकाशं गर्भमुत्सृज्य सा तदा ॥
प्राप्ता तपोवनं रम्यं यत्रासौ मुनिपुंगवः
॥१८॥अत्रांतरे सर्वदेवा लोकपाला महाबलाः ॥
अस्त्राणां कारणार्थाय मुनेराश्रममागताः
॥१९॥उवाच तं मुनिं शक्रो न्यासो यस्तव सुव्रत ॥
दत्तोऽस्माभिस्तु शस्त्राणां तानि क्षिप्रं प्रयच्छ नः
॥२०॥ऋषिराह पुरा यत्र स्थापितानि ममाश्रमे ॥
तत्रैव तानि तिष्ठंति न चानीतानि वासव
॥२१॥यत्तु तेषां बलं वीर्यं संग्रामे शत्रुसूदन ॥
तन्मया पीतमखिलं सह तोयेन वासव
॥२२॥एवं स्थिते मयाऽस्त्राणि यदि देयानि तेऽनघ ॥
ततोस्थीनि प्रयच्छामि तदाकाराणि सुव्रत
॥२३॥एवमुक्तः सहस्राक्षस्तमाह मुनिसत्तमम् ॥
नान्येषु तद्बलं रौद्रं यत्तु तेषु व्यवस्थितम्
॥२४॥यस्मात्तेषु विनिक्षिप्य सहस्रांशं स्वतेजसाम् ॥
अस्माकं दत्तवान्रुद्रो रक्षार्थं जगतां शिवः
॥२५॥तद्वयं तानि सर्वाणि गृहीत्वा च व्यवस्थिताः ॥
लोकस्य रक्षणार्थाय संज्ञेयं तेन लोकपाः
॥२६॥अमीषामपि शस्त्राणा मुत्तमं वज्रमिष्यते ॥
तद्धारणाद्यतोऽस्माकं देवराजत्वमिष्यते
॥२७॥वज्रादप्युत्तमं चक्रं यत्तद्विष्णुपरिग्रहे ॥
दैत्यदानवसंघानां तदायत्तो जयोऽभवत्
॥२८॥तस्मात्तानि यथास्माभिः प्राप्यते मुनिसत्तम ॥
तथा कुरुष्व संचिन्त्य कार्यं कार्यविदां वर
॥२९॥एवमुक्ते मुनिः प्राह तं शक्रं पुरतः स्थितम् ॥
तत्प्राप्त्यर्थमुपायं तु कथयामि तवापरम्
॥३०॥यान्येतानि ममास्थीनि यूयं तैस्तानि सर्वशः ॥
निर्मापयध्वं शस्त्राणि तदाकाराणि सर्वशः
॥३१॥एतानि तत्समुत्थानि तेषामप्यधिकं बलम् ॥
साधयिष्यति भवतां संग्रामे यन्ममेहितम्
॥३२॥तमुवाच ततः शक्रो दधीचिं तपसोनिधिम् ॥
प्राणहारं प्रकर्तुं ते नाहं शक्तो यमिच्छसि
॥३३॥न चामृतस्य तेऽस्थीनि ग्रहीतुं शक्तिरस्ति नः ॥
तस्मात्सर्वं समालोच्य यत्कर्तव्यं तदुच्यताम्
॥३४॥एवमुक्तो मुनिः प्राह एतदेव कलेवरम् ॥
त्यजामि स्वयमेवाहं देव कार्यार्थसिद्धये
॥३५॥अध्रुवं सर्वदुःखानामाश्रयं सुजुगुप्सितम् ॥
यदा ह्येतत्तदा युक्तः परित्यागोऽस्य सांप्रतम्
॥३६॥अस्य त्यागेन मे दुःखं संसारोत्थं न जायते ॥
यस्माज्जन्मांतरे जातो मृतोपि हि भवेत्पुनः
॥३७॥भार्या भगिनी दुहिता स्वकर्मफलयोजनात् ॥
जाता तेनैव संसारे रतिकार्ये जुगुप्सिता
॥३८॥यस्माच्च स्वयमेवैतद्वपुस्त्यजति वै ध्रुवम् ॥
तस्मादस्य परित्यागो वरः कार्योऽचिरात्स्वयम्
॥३९॥एवं पुरंदरस्याग्रे संकीर्त्य स महामुनिः ॥
दधीचिः प्राणसंहारं कृतवान्सत्वरं तदा
॥४०॥गतासुं तं विदित्वैवं विबुधास्तत्कलेवरम् ॥
मां सशोणितनिर्मुक्तं कथं कार्यं व्यचिंतयन्
॥४१॥ततस्तदस्थिशुद्ध्यर्थमुवाचेदं सुरेश्वरः ॥
गौरीणां कर्कशा जिह्वा ता एतदुत्खिदंत्विति
॥४२॥ततस्तैर्विबुधैर्नंदा यदा लोकेषु संस्थिता ॥
ध्याता तदोपयाता सा सखीभिः परिवारिता
॥४३॥नंदा सुभद्रा सुरभिः सुशीला सुमनास्तथा ॥
इति गोमातरः पंच गोलोकाच्च समागताः
॥४४॥ऊचुस्तान्विबुधान्सर्वानस्माभिर्यत्प्रयोजनम् ॥
कर्त्तव्यं तत्करिष्यामः कथ्यतां सुविचारितम्
॥४५॥देवा ऊचुः
यदेतदृषिणा त्यक्तं स्वयमेव कलेवरम् ॥
एतन्मांसादिनिर्मुक्तं क्रियतामस्थिपंजरम्
॥४६॥तत्कृत्वा गर्हितं कर्म देवादेशात्सुदारुणम् ॥
पुनः पितामहं द्रष्टुं गतास्ताः सुरसत्तमाः
॥४७॥ततस्तु दारुणं कर्म यच्च ताभिरनुष्ठितम् ॥
पितामहस्य तत्सर्वं समाचख्युर्यथातथम्
॥४८॥तच्छ्रुत्वा विबुधान्सर्वान्समाहूय पितामहः ॥
सर्वगात्रेष्वस्पृशत सुरभीः शुद्धिकाम्यया
॥४९॥तास्तु तैर्विबुधैः स्पृष्टाः सुपूताः समवस्थिताः ॥
मुखमेकं परं तासां न स्पृष्टमशुचि स्मृतम्
॥५०॥अपवित्रं भवेत्तासां मुखमेकं जुगुप्सितम् ॥
शेषं शरीरं सर्वासां विशिष्टं तु सुरैः कृतम्
॥५१॥सरस्वत्या तु ताः प्रोक्ता भवंत्यो ब्रह्मघातिकाः ॥
अन्यथा कारणात्कस्मान्न स्पृष्टममरैर्मुखम्
॥५२॥ततस्ताभिस्तु सा प्रोक्ता देवी तत्र सरस्वती ॥
नैतत्ते वचनं युक्तं वक्तुमेवंविधं मुखम्
॥५३॥अस्माकमेव हृदयमनेन वचसा त्वया ॥
निर्दग्धं येन तस्मात्त्वमचिराद्दाहमाप्स्यसि
॥५४॥शापं दत्त्वा ततस्तस्याः सरस्वत्यास्तु तास्तदा ॥
गोलोकं गतवत्यस्तु सुरभ्यः सुरपूजिताः
॥५५॥आहूय विश्वकर्माणं तक्षाणं सुरसत्तमाः ॥
अस्माकं कुरु शस्त्राणि तमाहुर्युद्धकारणात्
॥५६॥एतद्वचनमाकर्ण्य तानि पूतैर्नवैर्दृढैः ॥
अस्त्राणि कारयामास दर्धोचेरस्थिसंचयैः
॥५७॥प्रमाणाकारयुक्तानि देवानां तानि संयुगे ॥
अजेयानि यथा चासंस्तथा चासौ विनिर्ममे
॥५८॥वज्रमिंद्रस्य शक्तिं च वह्नेर्दंडं यमस्य च ॥
खड्गं तु निऋतेः पाशं सम्यक्चक्रे प्रचेतसः
॥५९॥वायोर्ध्वजं कुबेरस्य गदां गुर्वीं च निर्ममे ॥
विश्वकर्मा तथा शूलमीशानस्य च निर्ममे
॥६०॥गृहीत्वैतानि वै देवाः शस्त्राण्यस्त्रबलं तदा ॥
विजेतुं च ततो दैत्यान्दानवांश्च गतास्तदा
॥६१॥अत्रांतरे सुभद्रापि दधीचेरौर्ध्वदैहिकम् ॥
कृत्वा तैर्मुनिभिः सार्धमन्वेष्टुं सा गता सुतम्
॥६२॥अश्वत्थवाटिकायां च तमपश्य न्मनोरमम् ॥
दृष्ट्वा रोदिति जीवंतं मुक्त्वा बाष्पमथाचिरम्
॥६३॥अंबेत्याभाष्य तेनोक्ता मा रोदीस्त्वं यशस्विनि ॥
सर्वं पुराकृतस्यैतत्फलं तव ममापि हि
॥६४॥यद्यथा यत्र येनेह कर्म जन्मांतरार्जितम् ॥
तदवश्यं हि भोक्तव्यं त्यज शोकमतोऽखिलम्
॥६५॥मत्परित्यागलज्जा च न ते कार्येह सुन्दरि ॥
फलं पुराकृतस्यैतद्भोक्तव्यं तन्मयापि हि
॥६६॥मातर्ममोपरि कुरु पुत्रस्नेहं यशस्विनि ॥
बालस्य हि परित्यागा न्माता दोषेण लिप्यते
॥५७॥बालेनाभिहिता सा तु ध्यात्वा देवं जनार्द्दनम् ॥
कृतांजलिरुवाचेदं कथ्यतां मे सुनिश्चितम्
॥६८॥न विजानाम्यहं तथ्यं कस्यायं वीर्यसंभवः ॥
तस्मात्कथय देवेश मम ते निश्चितं वचः
॥६९॥आहोक्ते मातरं कृष्णः सुभद्रां वै जनार्द्दनः ॥
दधीचेस्तनयश्चायं भर्तुस्ते क्षेत्रसंभवः
॥७०॥तस्योत्पत्तिं विदित्वैवं सुभद्रा हृष्टमानसा ॥
बालमंके समारोप्य अरोदीदार्तया गिरा
॥७१॥आह बालक उत्पन्नः शोकस्य वद कारणम् ॥
अथोक्तः स्तन्यरहितं कथं ते जीवितं धृतम्
॥७२॥यस्माच्चतुर्विधा सृष्टिर्जीवानां ब्रह्मणा कृता ॥
जरायुजांडजोद्भिज्ज स्वेदजाश्च तथा स्मृताः
॥७३॥नरस्त्रीनपुंसकाख्याश्च जातिभेदा जरायुजाः ॥
चतुष्पदाश्च पशवो ग्राम्याश्चारण्यजास्तथा
॥७४॥अण्डजाः पक्षिणः सर्वे मीनाः कूर्मसरीसृपाः ॥
स्वेदजा मत्कुणा यूका दंशाश्च मशकास्तथा
॥७५॥उद्भिज्जाः स्थावराः प्रोक्तास्तृणगुल्मलता दयः ॥
अन्येऽप्येवं यथायोगमंतर्भूताः सहस्रशः
॥७६॥अण्डजाः पक्षपातेन जीवंति शिशवो भुवि ॥
ऊष्मणा स्वेदजाः सर्वे उद्भिज्जाः सलिलेन हि
॥७७॥समुदायेन भूतानां पञ्चानामुद्भिजं भुवि ॥
जरायुजाश्च स्तन्येन विना जीवितुमक्षमाः
॥७८॥विना तेन कथं पुत्र त्वया प्राणा विधारिताः ॥
तां तथा जननीं प्राह स च बाष्पाविलेक्षणाम्
॥७९॥अश्वत्थफलनिर्यासपानात्प्राणा मया धृताः ॥
गौणं तदा तया तस्य पिप्पलादेति कल्पितम्
॥८०॥नाम तेन जगत्यस्मिन्नित्यं ख्यातं महात्मनः ॥
तत्रस्थैर्मुनिभिस्तस्य कृताः सर्वैर्यथाक्रमम्
॥८१॥संस्काराः पिप्पलादस्य वेदोक्ता वेद पारगैः ॥
षडंगोपांगसंयुक्ता वेदास्तेन समुद्धृताः ॥
तदाश्रमनिवासिभ्यो मुनिभ्यश्च सुपुष्कलाः
॥८२॥पुनस्तत्र स्थितश्चासौ दृष्ट्वा मुनिकुमारकान् ॥
स्वपित्रंकगतान्प्राह जननीं तां शुचिस्मिताम्
॥८३॥पिता मे कुत्र भद्रं ते सुभद्रे कथय स्फुटम् ॥
तदेकांतस्थितो येन बालक्रीडां करोम्यहम्
॥८४॥एवं सा जननी तेन यदा पृष्टा तपस्विनी ॥
तदा रोदितुमारब्धा नोत्तरं किञ्चिदब्रवीत्
॥८५॥रुदन्तीं तां समालोक्य कुद्धोऽसौ मुनिदारकः ॥
किमसौ कुत्सितः कश्चिद्येन नाख्यासि तं मम
॥८६॥इत्युक्ते सुतमाहैवं विबुधैस्ते पिता हतः ॥
कोपं त्यजस्व भद्रं ते दधीचिः कथितो मया
॥८७॥कोपवह्निप्रदीप्तात्मा प्राह तां जननीं पुनः ॥
किमपकृतं सुराणां मत्पित्रा कथयस्व तत्
॥८८॥सुभद्रोवाच
शस्त्राणां कारणान्मूढैर्हतोऽसौ मुनिपुंगवः ॥
प्रयच्छन्नपि चान्यानि तदाकाराणि सुव्रत
॥८९॥श्रुत्वैतद्वचनं सोऽपि मुनिरुग्रतपास्तदा ॥
पिता मे यो हतो देवैस्तेषां कृत्यां महाबलाम्
॥९०॥उत्थाप्य पातयिष्यामि मूर्द्ध्नि प्राणापहारिकाम् ॥
पितामहमहं मुक्त्वा नैव हन्यो भवेद्यदि
॥९१॥अन्यान्प्रमथयिष्यामि कृत्याशस्त्रेण संगतान् ॥
शरणं यदि यास्यंति गीर्वाणा मद्भयातुराः ॥
तथापि पातयिष्यामि तेनैव सह संगतान्
॥९२॥मत्वैवं तमृषिं कुद्धं सर्वे ते सुरसत्तमाः ॥
ब्रह्माणं शरणं प्राप्ता भयेन महताऽर्द्दिताः
॥९३॥तांस्तस्य शरणं प्राप्ताञ्ज्ञात्वा देवः कृपान्वितः ॥
तत्रैव गत्वा त्वरितं प्राह देवाञ्जनार्द्दनः
॥९४॥भवतां रक्षणोपायश्चिंतितोऽत्र मयाऽधुना ॥
तेन तां मोहयिष्यामि कृत्यां हंतुमुपस्थिताम्
॥९५॥अत्रांतरे पिप्पलादः पितुर्वैरमनुस्मरन् ॥
हंतुं सुरान्व्यवसितः प्रविवेश हिमाचलम्
॥९६॥श्रुत्वा तदप्रियं वाक्यं मातुर्वक्त्राद्विनिर्गतम् ॥
पिप्पलादः पुनर्यातस्तस्मात्स्थानाद्धिमाचलम्
॥९७॥स्वर्गसोपानवत्पुंसां स्थलीभूतमिवांबरम् ॥
शेषस्याभोगसंकाशं प्राप्तोऽसौ तुहिनाचलम्
॥९८॥प्रतिज्ञां कुरुते यत्र स्थितः स्थाणुरिवाचलः ॥
हंतारो ये मम पितुस्तान्हनिष्यामि चारणात्
॥९९॥कृत्याशस्त्रेण सकलानमरत्वेन गर्वितान् ॥
तस्मिन्स्थितः प्रकुपितः शिवायतनसंसदि
॥१००॥अत्रस्थः साधयिष्यामि तां कृत्यां चिंतयन्हृदि ॥
कृत्यां वा साधयिष्यामि यास्ये वा यमसादनम्
॥१०१॥निर्द्वन्द्वो निर्भयो भूत्वा निराहारो ह्यहर्निशम् ॥
सव्येन पाणिना सव्यं निर्मथ्योरुमहं पुनः
॥१०२॥तस्मादुत्पादयिष्यामि महाकृत्यामिति स्थितः ॥
संवत्सरे तस्य गते ऊरुगात्राद्विनिःसृता
॥१०३॥वडवा गुरुभारार्त्ता वाडवेनान्विता तदा ॥
ऊरो र्निर्गत्य सा तस्मात्सुषुवे सुमहाबलम्
॥१०४॥वडवा स्वोदराद्गर्भं ज्वालामालासमाकुलम् ॥
विमुच्य तमृषेस्तस्य पुरो गर्भं समुज्जवलम्
॥१०५॥पुनर्गता क्वापि तदा न ज्ञाता मुनिना हि सा ॥
वडवानलो नरस्तस्याः स गर्भो निःसृतस्तदा
॥१०६॥कल्पांत इव भूतानां कालाग्निरिव वर्चसा ॥
विद्युत्पुञ्जप्रतीकाशं तं दृष्ट्वा पुरतः स्थितम्
॥१०७॥स चापि विस्मितोऽत्यंतं किमेतदिति चिंतयन् ॥
ततस्तेन पुरःस्थेन वाडवेन च वह्निना
॥१०८॥ऋषिः प्रोक्तः पिप्पलादः साधितोऽहं त्वया बलात् ॥
इदानीं ते मया कार्यं कर्त्तव्यं यत्समाहितम्
॥१०९॥करिष्यामीह तत्सर्वम साध्यमपि साध्यताम् ॥
स्वोरुं निर्मथ्य जनितो येन संवत्सरादहम् ॥
तातोरुणा विहीनोऽपि करिष्ये त्वत्समीहितम्
॥११०॥तच्छ्रुत्वा वचनं तस्य मुनिः कोपसमन्वितः ॥
प्रोवाच विबुधान्सर्वान्मद्दत्तान्भक्षय स्वयम्
॥१११॥पितुर्वधात्क्रोधकृतावधानं मत्वा सुरा रौद्रमतीव घोरम् ॥
समेत्य सर्वे पुरुषं पुराणं समाश्रितास्ते सहसा सभार्याः
॥११२॥स तान्समाश्वास्य सुरान्वरिष्ठं कोपानलं तत्र ययौ प्रहृष्टः ॥
दृष्ट्वा च तं वै रविपुंजकाशमुवाच विष्णुर्वचनं वरिष्ठम्
॥११३॥अहं सुरेशान तवैव पार्श्वं विसर्जितो जातभयैश्च देवैः ॥
मत्तः शृणु त्वं वचनं हि पथ्यं यच्चारणानां भवतोऽपि पथ्यम्
॥११४॥ज्ञातं बलं ते विबुधैरचिंत्यं विनाशनं चात्मवतां ह्यवश्यम् ॥
एवं स्थिते कुरु वाक्यं सुराणामेकैकमद्धि प्रतिवासरं त्वम्
॥११५॥मुख्यानां कोटयस्त्रिंशत्सुराणां बलशालिनाम् ॥
कथं तु भक्षणं तेषां युगपत्त्वं करिष्यसि
॥११६॥तस्मादेकैकशस्तेषां कर्त्तव्यं भक्षणं त्वया ॥
नैकेन भवता शक्या विधातुं भक्षणक्रिया
॥११७॥तथा च पांडुरोगित्वं हुतभुक्प्राप्तवान्पुरा ॥
अतिभक्षणं न युक्तं तस्मात्कुरु मतिं मम
॥११८॥तथा च युगपत्तेषु भक्षितेषु पुनस्त्वया ॥
प्रत्यहं भक्षणोपायश्चिंतितव्यो बुभुक्षया
॥११९॥सफलैव प्रतिज्ञा ते नानृतं मुनिभाषितम् ॥
एवं कृतेऽपि ते सर्वं भविष्यति समीहितम्
॥१२॥तत्करिष्यायहं सर्वमाहैवं स जनार्दनः ॥
एकैकशः स विबुधान्भक्षयिष्यति वाडवः
॥१२१॥ततः सुराः सुरेशानं तं विष्णुममितौजसम् ॥
प्रणम्याहुर्यथायुक्तं शोभनं भवता कृतम्
॥१२२॥भूयोऽद्य पुनरेवास्य दोषस्योपशमक्रियाम् ॥
कर्तुं त्वमेव शक्तोऽसि नान्यस्त्राता दिवौक साम्
॥१२३॥ततः पीतांबरधरः शंखचक्रगदाधरः ॥
युष्मद्भयं हरिष्यामि तत्सुरानाह माधवः
॥१२४॥श्रुत्वैतद्विबुधाः सर्वे हर्षेणोत्फुल्ल लोचनाः
॥१२५॥ततस्तान्विबुधान्दृष्ट्वा प्रोवाच स तु वाडवः ॥
किमिदानीं मया कार्यं भवतां कथ्यतां हि तत्
॥१२६॥अत्रान्तरे विश्वतनुर्महौजा विमोहयंस्तं ज्वलनं स्वबुद्ध्या ॥
प्रोवाच पूर्वं विहिता यदापस्ता भक्षयस्वेति महानुभावः
॥१२७॥एतद्व्यवसितं विष्णोर्यः शृणोति समाहितः ॥
सोऽतिचारभयान्मुक्तो ज्ञानं मुक्तिमवाप्नुयात्
॥१२८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वडवानलवंचनवृत्तान्तवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥