ततो गच्छेन्महादेवि विनायकमनुत्तमम्
ईश्वर उवाच
ततो गच्छेन्महादेवि विनायकमनुत्तमम् ॥
चतुर्मुखेति विख्यातं चण्डीशादुत्तरे स्थितम्
॥१॥किञ्चिदीशानदिग्भागे धनुषां च चतुष्टये ॥
तं प्रयत्नाच्च संपूज्य सर्वविघ्नैः प्रमुच्यते
॥२॥गन्धपुष्पादिभिस्तत्र भक्ष्यैर्भोज्यैः समोदकैः ॥
चतुर्मुखं चतुर्थ्यां तु संपूज्य सिद्धिभाग्भवेत्
॥३॥इति श्रीस्कांदे महपुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चतुर्मुखविनायक माहात्म्यवर्णनंनाम नवोत्तरत्रिशततमोऽध्यायः ॥ ३०९ ॥