दुःखान्तकारिणीतिलागौरीमाहात्म्यवर्णनम्
ईश्वर उवाच
तत्रैव संस्थितां पश्येद्देवीं दुःखांतकारिणीम् ॥
शीतलेति पुरा ख्याता युगे द्वापरसंज्ञिते ॥
कलौ पुनः समाख्यातां कलिदुःखान्तकारिणीम्
॥१॥शीतलं कुरुते देहं बालानां रोगवर्जितम् ॥
पूजिता भक्तिभावेन तेन सा शीतला स्मृता
॥२॥विस्फोटानां प्रशांत्यर्थं बालानां चैव कारणात् ॥
मानेन मापितान्कृत्वा मसूरांस्तत्र कुट्टयेत्
॥३॥शीतलापुरतो दत्त्वा बालाः सन्तु निरामयाः ॥
विस्फोटचर्चिकादीनां वातादीनां शमो भवेत्
॥४॥श्राद्धं तत्रैव कुर्वीत ब्राह्मणांस्तत्र भोजयेत्
॥५॥कर्पूरं कुसुमं चैव मृगनाभिं सुचन्दनम् ॥
पुष्पाणि च सुगन्धानि नैवेद्यं घृतपायसम् ॥
निवेद्य देव्यै तत्सर्वं दंपत्योः परिधापयेत्
॥६॥नवम्यां शुक्लपक्षे तु मालां विल्वमयीं शुभाम् ॥
भक्त्या निवेद्य तां देव्यै सर्वसिद्धिमवाप्नुयात्
॥७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुःखान्तकारिणीतिलागौरीमाहात्म्यवर्णनंनाम पञ्चत्रिंदुत्तरशततमोऽध्यायः ॥ १३५ ॥