मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 26

गन्धर्वेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

अथ लब्धवरस्तत्र कृतार्थो भक्तिसंयुतः ॥

स्थापयामास लिंगं स गन्धर्वो घनवाहनः ॥

सोमेशादुत्तरे भागे दंडपाणिसमीपतः ॥

गन्धर्वेश्वरनामानं गान्धर्वफलदायकम्

॥२॥

वरदावारुणे भागे धनुषां पञ्चके स्थितम् ॥

पञ्चम्यां पूजयित्वा च न दुःखी जायते नरः

॥३॥

इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गन्धर्वेश्वरमाहात्म्यवर्णनंनाम षड्विंशतितमो ऽध्यायः ॥ २६ ॥