मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ९१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 91

ततो गच्छेन्महादेवि त्र्यंबकेश्वरमव्ययम्

ईश्वर उवाच

ततो गच्छेन्महादेवि त्र्यंबकेश्वरमव्ययम् ॥

तत्पंचमं समाख्यातं रुद्राणामादिदैवतम्

॥१॥

शिखंडीश्वरमाख्यातं पूर्वं त्रेतायुगे प्रिये ॥

तच्चाद्याहं प्रवक्ष्यामि यथा संज्ञायते नरैः

॥२॥

अस्ति सांबपुरं देवि तत्रस्थं परमेश्वरि ॥

तस्यैवोत्तरदिग्भागे स्थानं कापालिकं स्मृतम्

॥३॥

कपालेश्वरनामा च यत्रेशो लिंगमूर्तिमान् ॥

संस्थितः पापनाशाय दर्शनात्स्पर्शनान्नृणाम्

॥४॥

तस्मादीशानदिग्भागे धनुषां षोडशांतरे ॥

त्र्यंबकेश्वरनामा च तत्र रुद्रः स्थितः स्वयम्

॥५॥

सर्वानुग्रहकर्त्ता च सर्वकामफलप्रदः ॥

पुरा यत्रातपद्देवि तपो घोरं सुदुष्करम् ॥

गुरुर्नामा ऋषिवरो देवदानवदुःसहम्

॥६॥

कोटीनां त्रितयं येन त्र्यंबको मंत्रनायकः ॥

जप्तो दिव्येन विधिना त्रिकालं पूज्य शंकरम्

॥७॥

ततः प्रसाद्य देवेशं दिव्यैश्वर्यमवाप सः ॥

चक्रे नाम स्वयं तस्य त्र्यंबकेश्वरमव्ययम्

॥८॥

जप्त्वा तु त्र्यंबकं मंत्रं यतः सिद्धिमवाप सः ॥

दिव्याष्टगुणमैश्वर्यं तेनासौ त्र्यंबकेश्वरः

॥९॥

सर्वपातक विध्वंसी दर्शनात्स्पर्शनादपि ॥

यस्त्र्यंबकं जपेद्विप्रस्त्र्यंबकेश्वरसंनिधौ ॥

स प्राप्नोति महासिद्धिं प्रत्यक्षं रुद्र एव सः

॥१०॥

दर्शनादपि तस्याथ पापं याति सहस्रधा ॥

यस्तं पूजयते भक्त्या विधिना भावमास्थितः ॥

वामदेवेन मंत्रेण स मुक्तः पातकैर्भवेत्

॥११॥

चैत्रशुक्लचतुर्दश्यां तत्र यो जागृयान्निशि ॥

पूजास्तुतिकथाभिश्च स प्राप्नोतीप्सितं फलम्

॥१२॥

धेनुस्तत्रैव दातव्या सम्यग्यात्राफलेप्सुभिः

॥१३॥

इति ते कथितं देवि माहात्म्यं पापनाशनम् ॥

त्र्यंबकेश्वररुद्रस्य नृणां पुण्यफलप्रदम्

॥१४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये त्र्यंबकेश्वरमाहात्म्यवर्णनंनामैकोनवतितमोऽध्यायः ॥ ९१ ॥