श्रीहरिस्थितिप्रश्नवर्णनम्
देव्युवाच
दिव्यं तेजो नमस्यामि यन्मे दृष्टं पुरातने ॥
कालाग्निरुद्रमध्यस्थं प्रभासे शंकरोद्भवम्
॥१॥यो वेदसंघैर्ऋषिभिः पुराणैर्वेदोक्तयोगैरपि इज्यमानः ॥
तं देवदेवं शरणं व्रजामि सोमेश्वरं पापविनाशहेतुम्
॥२॥देवदेव जगन्नाथ भक्तानुग्रहकारक ॥
संशयो हृदि मे कश्चित्तं भवाञ्छेत्तुमर्हति
॥३॥ईश्वर उवाच
कः संशयः समुत्पन्नस्तव देवि यशस्विनि ॥
तन्मे कथय कल्याणि तत्सर्वं कथयाम्यहम्
॥४॥देव्युवाच
यदि त्वं च महादेवो मुण्डमाला कथं कृता ॥
अनादि निधनो धाता सृष्टिसंहारकारकः
॥५॥ततो विहस्य देवेशः शंकरो वाक्यमब्रवीत् ॥
अनेकमुण्डकोटीभिर्या मे माला विराजते
॥६॥नारायण सहस्राणां ब्रह्मणामयुतस्य च ॥
कृता शिरःकरोटीभिरनादिनिधना ततः
॥७॥अन्यो विष्णुश्च भवति अन्यो ब्रह्मा भवत्यपि ॥
कल्पे कल्पे मया सृष्टः कल्पे विष्णुः प्रजापतिः
॥८॥अहमेवंविधो देवि क्षेत्रे प्राभासिके स्थितः ॥
कालाग्निलिंगमूले तु मुंडमालाविभूषितः
॥९॥अक्षसूत्रधरः शान्त आदिमध्यांतवर्जितः ॥
पद्मासनस्थो वरदो हिमकुन्देन्दुसन्निभः
॥१०॥मम वामे स्थितो विष्णुर्दक्षिणे च पितामहः ॥
जठरे चतुरो वेदाः हृदये ब्रह्म शाश्वतम्
॥११॥अग्निः सोमश्च सूर्यश्च लोचनेषु व्यवस्थिताः
॥१२॥एवंविधो महादेवि प्रभासे संव्यवस्थितः ॥
आप्यतत्त्वात्समानीते मा ते भूत्संशयः क्वचित्
॥१३॥एवमुक्ता तदा देवी हर्षगद्गदया गिरा ॥
तुष्टाव देवदेवेशं भक्त्या परमया युता
॥१४॥देव्युवाच
जय देव महादेव सर्वभावन ईश्वर ॥
नमस्तेऽस्तु सुरेशाय परमेशाय वै नमः
॥१५॥अनादिसृष्टिकर्त्रे च नमः सर्वगताय च ॥
सर्वस्थाय नमस्तुभ्यं धाम्नां धाम्ने नमोऽस्तु ते
॥१६॥षडंताय नमस्तुभ्यं द्वादशान्ताय ते नमः ॥
हंसभेद नमस्तुभ्यं नमस्तुभ्यं च मोक्षद
॥१७॥इति स्तुतस्तदा देव्या प्रचलच्चन्द्रशेखरः ॥
ततस्तुष्टस्तु भगवानिदं वचनमब्रवीत्
॥१८॥ईश्वर उवाच
साधुसाधु महाप्राज्ञे तुष्टोऽहं व्रियतां वरः
॥१९॥देव्युवाच
यदि तुष्टोऽसि देवेश वरार्हा यदि वाप्यहम् ॥
प्रभास क्षेत्रमाहात्म्यं पुनर्विस्तरतो वद
॥२०॥भूतेश भगवान्विष्णुर्दैत्यानामन्तकाग्रणीः ॥
स कस्माद्द्वारकां हित्वा प्रभासक्षेत्रमाश्रितः
॥२१॥षष्टि तीर्थसहस्राणि षष्टिकोटिशतानि च ॥
द्वारकामध्यसंस्थानि कथं न्यक्कृतवान्हरिः
॥२२॥अमरैरावृतां पुण्यां पुण्यकृद्भिर्निषेविताम् ॥
एवं तां द्वारकां त्यक्त्वा प्रभासं कथमागतः
॥२३॥देवमानुषयोर्नेता द्योभुवोः प्रभवो हरिः ॥
किमर्थं द्वारकां त्यक्त्वा प्रभासे निधनं गतः
॥२४॥यश्चक्रं वर्त्तयत्येको मानुषाणां मनोमयम् ॥
प्रभासे स कथं कालं चक्रे चक्रभृतां वरः
॥२५॥गोपायनं यः कुरुते जगतः सार्वलौकिकम् ॥
स कथं भगवान्विष्णुः प्रभासक्षेत्रमाश्रितः
॥२६॥योंतकाले जलं पीत्वा कृत्वा तोयमयं वपुः ॥
लोकमेकार्णवं चक्रे दृष्ट्या दृष्टेन चात्मना
॥२७॥स कथं पञ्चतां प्राप प्रभासे पार्वतीपते ॥
यः पुराणे पुराणात्मा वाराहं वपुरास्थितः
॥२८॥उद्दधार महीं कृत्स्नां सशैलवनकाननाम् ॥
स कथं त्यक्तवान्गात्रं प्रभासे पापनाशने
॥२९॥येन सिंहं वपुः कृत्वा हिरण्यकशिपुर्हतः ॥
स कथं देवदेवेशः प्रभासं क्षेत्रमाश्रितः
॥३०॥सहस्रचरणं देवं सहस्राक्षं महाप्रभम् ॥
सहस्रशिरसं वेदा यमाहुर्वै युगेयुगे
॥३१॥तत्याज स कथं देवः प्रभासे स्वं कलेवरम् ॥
नाभ्यरण्यां समुद्भूतं यस्य पैतामहं गृहम्
॥३२॥एकार्णवगते लोके तत्पंकजमपंकजम् ॥
येनोद्धृतं क्षणेनैव प्रभासस्थः स किं हरिः
॥३३॥उत्तरांशे समुद्रस्य क्षीरोदस्या मृतोदधेः ॥
यः शेते शाश्वतं योगमास्थाय परवीरहा ॥
स कथं त्यक्तवान्देहं प्रभासे परमेश्वरः
॥३४॥हव्यादान्यः सुरांश्चक्रे कव्यादांश्च पितॄ नपि ॥
स कथं देवदेवेशः प्रभासं क्षेत्रमाश्रितः
॥३५॥युगानुरूपं यः कृत्वा रूपं लोकहिताय वै ॥
धर्ममुद्धरते देवः स कथं क्षेत्रमाश्रितः
॥३६॥त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पाठकास्त्रयः ॥
त्रैकाल्यं त्रीणि कर्माणि त्रयो देवास्त्रयो गुणाः ॥
सृष्टं येन पुरा देवः स कथं क्षेत्रमाश्रितः
॥३७॥या गतिर्द्धर्मयुक्तानामगतिः पापकर्मिणाम् ॥
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता
॥३८॥चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंस्थितः ॥
कस्मात्स द्वारकां हित्वा प्रभासे पंचतां गतः
॥३९॥दिगंतरं नभोभूमिरापो वायुर्विभावसुः ॥
चंद्रसूर्यद्वयं ज्योतिर्युगेशः क्षणदातनुः
॥४०॥यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः ॥
यः परं परतः प्रोक्तः परं यः परमात्मवान्
॥४१॥आदित्यादिश्च यो दिव्यो यश्च दैत्यांतको विभुः ॥
स कथं देवकीसूनुः प्रभासे सिद्धिमीयिवान्
॥४२॥युगांते चांतको यश्च यश्च लोकांतकांतकः ॥
सेतुर्यो लोकसत्तानां मेध्यो यो मेध्यकर्मणाम्
॥४३॥वेत्ता यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् ॥
सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्त्मनाम्
॥४४॥मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम् ॥
विनयो नयभूतानां तेजस्तेजस्विनामपि
॥४५॥विग्रहो विग्रहाणां यो गतिर्गतिमतामपि ॥
स कथं द्वारकां हित्वा प्रभासक्षेत्रमाश्रितः
॥४६॥आकाशप्रभवो वायुर्वायुप्राणो हुताशनः ॥
देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः ॥
सकथं पद्मजप्राणः प्रभासं क्षेत्रमाश्रितः
॥४७॥सूत उवाच
इति प्रोक्तस्तदा देव्या शंकरो लोकशंकरः ॥
उवाच प्रहसन्वाक्यं पार्वतीं द्विजसत्तमाः
॥४८॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि प्रभासक्षेत्रविस्तरम् ॥
रहस्यं सर्वपापघ्नं देवानामपि दुर्ल्लभम्
॥४९॥देवि क्षेत्राण्यनेकानि पृथिव्यां संति भामिनि ॥
तीर्थानि कोटिसंख्यानि प्रभावस्तेषु संख्यया
॥५०॥असंख्येय प्रभावं हि प्रभासं परिकीर्तितम् ॥
ब्रह्मतत्त्वं विष्णुतत्त्वं रौद्रतत्त्वं तथैव च
॥५१॥तत्र भूयः समायोगो दुर्ल्लभोऽन्येषु पार्वति ॥
प्रभासे देवदेवेशि तत्त्वानां त्रितयं स्थितम्
॥५२॥चतुर्विंशतितत्त्वैश्च ब्रह्मा लोकपितामहः ॥
बालरूपी च नाम्नां च तत्र स्थाने स्थितः स्वयम्
॥५३॥पंचविशतितत्त्वानाम धिपो देवताग्रणीः ॥
तस्मिन्स्थाने स्थितः साक्षाद्दैत्यानामंतकः शुभे
॥५४॥अहं देवि त्वया सार्द्धं षट्त्रिंशत्तत्त्वसंयुतः ॥
निवसामि महाभागे प्रभासे पापनाशने
॥५५॥एवं तत्त्वमयं क्षेत्रं सर्वतीर्थमयं शुभम् ॥
प्रभासमेव जानीहि मा कार्षीः संशयं क्वचित्
॥५६॥अपि कीटपतंगा ये म्रियंते तत्र ये नराः ॥
तेऽपि यांति परं स्थानं नात्र कार्या विचारणा
॥५७॥स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः ॥
प्रभासे तु मृता देवि शिवलोकं व्रजंति ते
॥५८॥कामक्रोधेन ये बद्धा लोभेन च वशीकृताः ॥
अज्ञानतिमिराक्रांता मायातत्त्वे च संस्थिताः
॥५९॥कालपाशेन ये बद्धास्तृष्णाजालेन मोहिताः ॥
अधर्मनिरता ये च ये च तिष्ठंति पापिनः
॥६०॥ब्रह्मघ्नाश्च कृतघ्नाश्च ये चान्ये गुरुतल्पगाः ॥
महापातकिनश्चापि ते यान्ति परमां गतिम्
॥६१॥मातृहंता नरो यस्तु पितृहंता तथैव च ॥
ते सर्वे मुक्तिमायांति किं पुनः शुभकारिणः
॥६२॥इति ज्ञात्वा महादेवि दैत्यानामंतको हरिः ॥
प्रभासक्षेत्रमासाद्य त्यक्तवान्स्वं कलेवरम्
॥६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभासक्षेत्रे श्रीहरिस्थितिप्रश्नवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥