कोटीश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि कोटीश्वरमनुत्तमम् ॥
तस्मादुत्तरतो देवि कोटीशमिति विश्रुतम्
॥१॥पापघ्नं सर्वजंतूनां पशुपाशविमोक्षदम् ॥
पुरा पाशुपता देवि कपालेश्वरसंनिधौ
॥२॥तपः कुर्वंति विपुलं भस्मोद्धूलितविग्रहाः ॥
जटामुकुटसंयुक्ता मुंजमेखलधारिणः
॥३॥शांताः सर्वे जितक्रोधा ब्राह्मणाः शिवयोगिनः ॥
तपः कुर्वंति तत्रस्था व्याप्य क्षेत्रं चतुर्द्दिशम्
॥४॥कोटिसंख्या महादेवि मन्त्रजाप्यपरायणाः ॥
सम्यक्संस्थाप्य ते लिंगं कपालेशसमीपगम्
॥५॥ततस्ते पूजयांचक्रुस्तल्लिंगं भक्तिसंयुताः ॥
ततस्तुष्टो महादेवो मुक्तिं तेषां ददौ हरः
॥६॥ऋषयः कोटिसंख्यातास्तस्मिन्सिद्धा यतः प्रिये ॥
तेन कोटीश्वरं लिंगं नाम्ना ख्यातं धरातले
॥७॥यस्तं पूजयते भक्त्या कोटीश्वरमनामयम् ॥
स कोटिमन्त्रजाप्यस्य फलं प्राप्स्यति मानवः
॥८॥हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
कोटिहोमफलं तस्य सम्यग्यात्राफलं भवेत्
॥९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटीश्वरमाहात्म्यवर्णनंनाम चतुरधिक शततमोऽध्यायः ॥ १०४ ॥