मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १२०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 120

ततो गच्छेन्महादेवि गोपीश्वरमनुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि गोपीश्वरमनुत्तमम् ॥

बलातिबलदैत्यघ्न्या उत्तरे धनुषां त्रये

॥१॥

संस्थितं पापशमनं गोपीभिः संप्रतिष्ठितम् ॥

समाराध्य महादेवं पुत्रहेतोर्महेश्वरम् ॥

सर्वकामप्रदं नॄणां पूजितं संततिप्रदम्

॥२॥

चैत्रशुक्लतृतीयायां यस्तं पूजयते नरः ॥

गंध पुष्पोपहारैश्च स प्राप्नोतीप्सितं फलम्

॥३॥

एवं संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥

गोपीश्वरस्य देवस्य प्रभासक्षेत्रवासिनः

॥४॥

इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलातिबलदैत्यघ्नीमाहात्म्ये गोपीश्वर माहात्म्यवर्णनंनाम विंशत्युत्तरशततमोऽध्यायः ॥ १२० ॥