मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ८३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 83

योगेश्वरीमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तस्य पूर्वेण संस्थिताम् ॥

योगेश्वरीं महादेवीं योगसिद्धिफलप्रदाम्

॥१॥

तदुत्पत्तिं प्रवक्ष्यामि शृणु श्रद्धासमन्विता ॥

पुरा दानवशार्दूलो महिषाख्यो महाबलः

॥२॥

बभूव प्रवरो देवि सर्वदेवभयंकरः ॥

कामरूपी स लोकांस्त्रीन्वशीकृत्वाऽभवत्सुखी

॥३॥

कस्मिंश्चिदथ काले तु ब्रह्मणा लोककारिणा ॥

सृष्टा मनोहरा कन्या रूपेणाप्रतिमा दिवि

॥४॥

अतपत्सा तपो घोरं कन्या रूपवती सती ॥

नारदेन ततो दृष्टा सा कदाचिद्वरानने

॥५॥

ततः स सहसा देवि विस्मयं परमं गतः ॥

अहो रूपमहो धैर्यमहो कान्तिरहो वयः

॥६॥

इत्येवं चिन्तयंस्तत्र नारीं वचनमब्रवीत् ॥

कुरुष्वात्मप्रदानं मे न मे दारपरिग्रहः ॥

तवाहं दर्शनाद्देवि कामवाणेन पीडितः

॥७॥

साऽब्रवीन्न हि मे कार्यं कामधर्मेण सत्तम ॥

कौमारं व्रतमासाद्य साधयिष्ये यथेप्सितम् ]

॥८॥

न च मन्युस्त्वया कार्यो ह्यस्मिन्नर्थे कथंचन ॥

तस्यास्तद्वचनं श्रुत्वा स मुनिर्नारदः प्रिये

॥९॥

समुद्रान्तेऽगमद्दिव्यां पुरीं महिषपालिताम् ॥

अर्चितो हि मुनिस्तेन महिषेण महात्मना

॥१०॥

पृष्ट्वा ह्यनामयं देवि दत्त्वा चार्घ्यमनुत्तमम् ॥

सोऽब्रवीत्प्राञ्जलिर्भूत्वा किमागमनकारणम् ॥

ब्रूहि यत्ते व्यवसितं सर्वं कर्त्तास्मि नारद

॥११॥

अथोवाच मुनिस्तत्र महिषं दानवेश्वरम् ॥

कन्यारत्नं समुत्पन्नं जंबूद्वीपे महासुर

॥१२॥

स्वर्गे मर्त्ये च पाताले न दृष्टं न च मे श्रुतम् ॥

तादृग्रूपमहं येन कामबाणवशीकृतः

॥१३॥

स श्रुत्वा वचनं तस्य कामस्योत्पादनं परम् ॥

जगाम यत्र सा साध्वी क्षेत्रे प्राभासिके स्थिता

॥१४॥

तामेव प्रार्थयामास बलेन महता वृतः ॥

भार्या भव त्वं मे भीरु भुंक्ष्व भोगान्मनोरमान् ॥

एतत्तपो महाभागे विरुद्धं यौवनस्य ते

॥१५॥

तस्य तद्वचनं श्रुत्वा जहास वरवर्णिनी ॥

तस्या हसंत्या देवेशि शतशोऽथ सहस्रशः

॥१६॥

निश्वासात्सहसा नार्यः शस्त्रहस्ता भयानकाः ॥

ताभिर्विध्वंसितं सैन्यं महिषस्य दुरात्मनः

॥१७॥

तस्मिन्निपात्यमाने तु सैन्ये दानवसत्तमः ॥

क्रोधं कृत्वा ततः शीघ्रं तामेवाभिमुखो ययौ

॥१८॥

विधुन्वन्स हि ते तीक्ष्णशृंगेऽभीक्ष्णं भयानके ॥

तया सार्धं च सुमहत्कृत्वा युद्धं महासुरः

॥१९॥

शृंगाभ्यां जगृहे देवीं सा तस्योपरि संस्थिता ॥

पद्भ्यामाक्रम्य शूलेन निहतो दैत्यपुंगवः

॥२०॥

छिन्ने शिरसि खङ्गेन तद्रूपो निःसृतः पुमान् ॥

रौद्रोऽपि स गतः स्वर्गं दैत्यो देव्यस्त्रपातितः

॥२१॥

ततो देवगणाः सर्वे महिषं वीक्ष्य निर्जितम् ॥

महेंद्राद्याः स्तुतिं चक्रुर्देव्यास्तुष्टेन चेतसा

॥२२॥

देवा ऊचुः

नमो देवि महाभागे गम्भीरे भीमदर्शने ॥

नयस्थिते सुसिद्धांते त्रिनेत्रे विश्वतोमुखि

॥२३॥

विद्याविद्ये जये जाप्ये महिषासुरमर्दिनि ॥

सर्वगे सर्वविद्येशे देवि विश्वस्वरूपिणि

॥२४॥

वीतशोके ध्रुवे देवि पद्मपत्रायतेक्षणे ॥

शुद्धसत्त्वे व्रतस्थे च चण्डरूपे विभावरि

॥२५॥

ऋद्धिसिद्धिप्रदे देवि कालनृत्ये धृतिप्रिये ॥

शांकरि ब्राह्मणि ब्राह्मि सर्वदेवनमस्कृते

॥२६॥

घंटाहस्ते शूल हस्ते महामहिषमर्दिनि ॥

उग्ररूपे विरूपाक्षि महामायेऽमृते शिवे

॥२७॥

सर्वगे सर्वदे देवि सर्वसत्त्वमयोद्भवे ॥

विद्यापुराणशल्यानां जननि भूतधारिणि

॥२८॥

सर्वदेवरहस्यानां सर्वसत्त्ववतां शुभे ॥

त्वमेव शरणं देवि विद्याऽविद्ये श्रियेऽश्रिये

॥२९॥

एवं स्तुता सुरैर्देवि प्रणम्य ऋषिभिस्तथा ॥

उवाच हसती वाक्यं वृणुध्वं वरमुत्तमम्

॥३०॥

देवा ऊचुः

स्तवेनानेन ये देवि स्तुवन्त्यत्र नरोत्तमाः ॥

ते संतु कामैः संपूर्णा वरवर्षा निरंतरम्

॥३१॥

अस्मिन्क्षेत्रे त्वया वासो नित्यं कार्यः शुचिस्मिते

॥३२॥

एवमस्त्विति सा देवी देवानुक्त्वा वरानने ॥

विसृज्य ऋषिसंघांश्च तत्रैव निरताऽभवत्

॥३३॥

आश्वयुक्छुक्लपक्षस्य नवम्यां यो वरानने ॥

उपवासपरो भूत्वा तां प्रपश्यति भक्तितः ॥

तस्य पापं क्षयं याति तमः सूर्योदये यथा

॥३४॥

य एतत्पठति स्तोत्रं प्रातरुत्थाय मानवः ॥

न भीः संपद्यते तस्य यावज्जीवं नरस्य वै

॥३५॥

आश्वयुक्छुक्लपक्षे या अष्टमी मूलसंयुता ॥

सा महानामिका प्राणा येषां तस्यां गताः शुभे

॥३६॥

तेषां स्वर्गे ध्रुवं वासो वीरास्तेऽप्सरसां प्रियाः

॥३७॥

मन्वन्तरेषु सर्वेषु कल्पादिषु सुरेश्वरि ॥

एष एव क्रमः प्रोक्तो विशेषं शृणु सांप्रतम्

॥३८॥

आश्वयुक्छुक्लपक्षे या पंचमी पापनाशिनी ॥

तस्यां संपूजयेद्रात्रौ खड्गमंत्रैर्विभूषितम्

॥३९॥

मंडपं कारयेत्तत्र नवसप्तकरं तथा ॥

प्रागुदक्प्रवणे देशे पताकाभिरलंकृतम् ॥

योगेश्वर्याः संनिधाने विधिना कारयेद्द्विजः

॥४०॥

आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम् ॥

मेखलात्रयसंयुक्तं योन्याऽश्वत्थदलाभया

॥४१॥

शास्त्रोक्तं मन्त्रसंयुक्तं होतव्यं पायसं ततः ॥

ततः खड्गं तु संस्नाप्य पंचामृतरसेन वै ॥

पूजयेद्विविधैः पुष्पैर्मंत्रपूर्वं द्विजोत्तमैः

॥४२॥

अभीर्विशसनं खड्गः प्राणिभूतो दुरासदः ॥

अगम्यो विजयश्चैव धर्माधारस्तथैव च ॥

इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा

॥४३॥

नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥

हिरण्यं च शरीरं ते धाता देवो जनार्दनः ॥

पिता पितामहो देव स्वेन पालय सर्वदा

॥४४॥

इति खड्गमन्त्रः ॥

एवं संपूज्य विधिना तं खङ्गं ब्राह्मणोत्तमैः ॥

भ्रामयेन्नगरे रात्रौ नान्दीघोषपुरःसरम्

॥४५॥

सर्वसैन्येन संयुक्तस्तत्र ब्राह्मणपुंगवैः ॥

एवं कृत्वा विधानं तु पुनर्योगेश्वरीं नयेत् ॥

उच्चार्य मन्त्रमेवं वै खङ्गं तस्यै समर्पयेत्

॥४६॥

अञ्जनेन समालेख्य चन्दनेन विलेपितम् ॥

बिल्वपत्रकृतां मालां तस्यै देव्यै निवेदयेत्

॥४७॥

दुर्गे दुर्गार्तिहे देवि सर्व दुर्गतिनाशिनि ॥

त्राहि मां सर्वदुर्गेषु दुर्गेऽहं शरणं गतः

॥४८॥

दत्त्वैवमर्घ्यं देवेशि तत्र खङ्गं च जागृयात् ॥

नित्यं संपूज्य विधिना अष्टम्यां यावदेव हि

॥४९॥

तद्रात्रौ जागरं कृत्वा प्रभाते ह्यरुणोदये ॥

पातयेन्महिषान्मेषानग्रतो गतकंधरान्

॥५०॥

शतमर्धशतं वापि तदर्धार्धं यथेच्छया ॥

सुरासवभृतैः कुंभैस्तर्पयेत्परमेश्वरीम्

॥५१॥

कापालिकेभ्यस्तद्देयं दासीदासजने तथा ॥

ततोऽपराह्नसमये नवम्यां स्यन्दने स्थिताम्

॥५२॥

योगेशीं भ्रामयेद्राष्ट्रे स्वयं राजा स्वसैन्यवान् ॥

नदद्भिः शंखपटहैः पठद्भिर्बटुचारणैः

॥५३॥

भूतेभ्यश्च बलिं दद्यान्मंत्रेणानेन भामिनि ॥

सरक्तं सजलं सान्नं गन्धपुष्पाक्षतैर्युतम्

॥५४॥

त्रीन्वाराँस्तु त्रिशूलेन दिग्विदिक्षु क्षिपेद्बलिम् ॥

बलिं गृह्णन्त्विमे देवा आदित्या वसवस्तथा

॥५५॥

मरुतोऽथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥

सौम्या भवंतु तृप्ताश्च भूताः प्रेताः सुखावहाः

॥५६॥

य एवं कुर्वते यात्रां ब्राह्मणाः क्षेत्रवासिनः ॥

न तेषां शत्रवो नाग्निर्न चौरा न विनायकाः ॥

विघ्नं कुर्वंति देवेशि योगेश्वर्याः प्रसादतः

॥५७॥

सुखिनो भोगभोक्तारः सर्वातंकविवर्जिताः ॥

भवन्ति पुरुषा भक्ता योगेश्वर्या निरंतरम्

॥५८॥

इत्येष ते समाख्यातो योगेश्वर्या महोत्सवः ॥

पठतां शृण्वतां चैव सर्वाशुभविनाशनः

॥५९॥

शूलाग्रभिन्नमहिषासुरपृष्ठपीठामुत्खातखड्ग रुचिरांगदबाहुदंडाम् ॥

अभ्यर्च्य पंचवदनानुगतं नवम्यां दुर्गां सुदुर्गगहनानि तरंति मर्त्याः

॥६०॥

इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये योगेश्वरीमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥