मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १५९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 159

ततो गच्छेन्महादेवि रत्नकुण्डमनुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि रत्नकुण्डमनुत्तमम् ॥

रत्नेशाद्दक्षिणे भागे धनुषां सप्तके स्थितम् ॥

महापापोपशमनं विष्णुना निर्मितं स्वयम्

॥१॥

अष्टकोटीस्तु तीर्थानि भूद्योऽन्तरिक्षगाणि तु ॥

समानीय तु कृष्णेन तत्र क्षिप्तानि भूरिशः

॥२॥

गणानां कोटिरेका तु तत्कुण्डं रक्षति प्रिये ॥

कलौ युगे तु संप्राप्ते दुष्प्राप्यमकृतात्मभिः

॥३॥

तत्र स्नात्वा महादेवि विधिदृष्टेन कर्मणा ॥

प्राप्नुयादश्वमेधस्य फलं शतगुणोत्तरम्

॥४॥

एकादश्यां विशेषेण पिंडं तत्र प्रदापयेत् ॥

अक्षय्यां तृप्तिमायांति पितरस्तस्य भामिनि

॥५॥

कुर्याज्जागरणं तत्र एकादश्यां विधानतः ॥

वाञ्छितं लभते देवि यदि श्रद्धा दृढा भवेत्

॥६॥

देयानि पीतवस्त्राणि तथा धेनुः पयस्विनी ॥

तत्र विष्णुं समुद्दिश्य सम्यग्यात्राफलाप्तये

॥७॥

हेमकुण्डं कृते प्रोक्तं त्रेतायां रौप्यनामकम् ॥

द्वापरे चक्रकुंडं तु रत्नकुंडं कलौ स्मृतम्

॥८॥

पातालवाहिनीगंगा स्रोतांसि तत्र भूरिशः ॥

समानीतानि हरिणा तत्र तिष्ठंति भामिनि

॥९॥

तत्र स्नानेन देवेशि सर्वतीर्थाभिषेचनम्

॥१०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्यवर्णनं- नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥ १५९ ॥