मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३१५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 315

मरुदार्यादेवीमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि मरुदार्यां महाप्रभाम् ॥

तस्मात्पश्चिमदिग्भागे क्रोशार्द्धेन व्यवस्थिताम्

॥१॥

मरुद्भिः पूजितां देवीं सर्वकामफलप्रदाम् ॥

महानवम्यां यत्नेन सप्तम्यां पूजयेन्नरः ॥

गंधपुष्पादिविधिना सर्वकामप्रसिद्धये

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मरुदार्यादेवीमाहात्म्यवर्णनंनाम पंचदशोत्तरत्रिशततमोऽध्यायः ॥ ३१५ ॥