मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३००

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 300

संगालेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्यैवोत्तरदिग्भागे किञ्चिद्वायव्यसंस्थितम् ॥

संगालेश्वरनामास्ति सर्वपातकनाशनम्

॥१॥

तत्र ब्रह्मा च विष्णुश्च लिंगस्याराधनोद्यतौ ॥

शक्रश्चैव महातेजा लिंगं पूजितवान्प्रिये

॥२॥

वरुणो धनदश्चैव धर्मराजोऽथ पावकः ॥

आदित्यैर्वसुभिश्चैव लोकपालैः समंततः

॥३॥

आराधितं महालिंगं संगालेश्वरनामभृत् ॥

पूजयित्वा तु ते सर्वे दृष्ट्वा माहात्म्यमुत्तमम्

॥४॥

ऊचुश्च सहसा देवि परमानंदसंयुताः ॥

देवानां निवहैर्यस्मात्समागत्य प्रतिष्ठितम् ॥

संगालेश्वरनामास्य भविष्यति धरातले

॥५॥

संगालेश्वरनामानं पूजयिष्यंति मानवाः ॥

न तेषामन्वये कश्चिन्निर्धनः संभविष्यति

॥६॥

गोसहस्रस्य दत्तस्य कुरुक्षेत्रे च यत्फलम् ॥

तत्फलं समवाप्नोति संगालेश्वरदर्शनात्

॥७॥

अमावास्यां च संप्राप्य स्नानं कृत्वा विधानतः ॥

यः करोति नरः श्राद्धं पितॄणां रोषवर्जितः ॥

पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम्

॥८॥

अर्धक्रोशं च तत्क्षेत्रं समंतात्परिमण्डलम् ॥

सर्वकामप्रदं नृणां सर्वपातकनाशनम्

॥९॥

अस्मिन्क्षेत्रे महादेवि जीवा उत्तममध्यमाः ॥

कालेन निधनं प्राप्तास्तेऽपि यांति परां गतिम्

॥१०॥

गृहीत्वानशनं ये तु प्राणांस्त्यक्ष्यंति मानवाः ॥

निश्चयं ते महादेवि लीयंते परमेश्वरे

॥११॥

गवा हता द्विजहता ये च वै दंष्ट्रिभिर्हता ॥

आत्मनो घातका ये तु सर्पदष्टाश्च ये मृताः

॥१२॥

शय्यायां विगतप्राणा ये च शौचविवर्जिताः ॥

अस्मिंस्तीर्थे महापुण्ये अपुनर्भवदायके

॥१३॥

दत्तैः षोडशभिः श्राद्धैर्वृषोत्सर्गे कृते पुनः ॥

विधिवद्भोजितैर्विप्रैर्भवेन्मुक्तिर्न संशयः

॥१४॥

एवमुक्त्वा सुराः सर्वे गतवंतस्त्रिविष्टपम्

॥१५॥

संगालेश्वरमाहात्म्यं संक्षेपात्कथितं तव ॥

श्रुतं हरति पापानि दुःखशोकांस्तथैव च

॥१६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरमाहात्म्यवर्णनंनाम त्रिशततमोऽध्यायः ॥ ३०० ॥