मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३०६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 306

ततो गच्छेन्महादेवि सांबादित्यमनुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि सांबादित्यमनुत्तमम् ॥

तस्मादुत्तरभागे तु सर्वपातकनाशनम्

॥१॥

यत्र सांबस्तपस्तप्त्वा ह्याराध्य च दिवाकरम् ॥

प्राप्तवान्सुन्दरं देहं सहस्रांशुप्रसादतः

॥२॥

यदा रोषेण संशप्तः पित्रा जांबवतीसुतः ॥

आराधयामास तदा विष्णुं कमललोचनम्

॥३॥

अनुग्रहार्थं शापस्य सांबो जांबवतीसुतः ॥

प्रसन्नवदनो भूत्वा विष्णुः प्रोवाच तं प्रति

॥४॥

गच्छ प्राभासिके क्षेत्रे ब्रह्मभागमनुत्तमम् ॥

ऋषितोयातटे रम्ये ब्राह्मणैरुपशोभिते

॥५॥

तत्राऽहं सूर्यरूपेण वरं दास्यामि पुत्रक ॥

इत्युक्तः स तदा सांबो विष्णुना प्रभविष्णुना

॥६॥

गतः प्राभासिके क्षेत्रे रम्ये शिवपुरे शिवे ॥

तत्राराध्य परं देवं भास्करं वारितस्करम्

॥७॥

प्रसादयामास तदा स्तुत्वा स्तोत्रैरनेकधा

॥८॥

प्रत्युवाच रविः सांबं प्रसन्नस्ते स्तवेन वै ॥

शीघ्रं गच्छ नरश्रेष्ठ ऋषितोयातटे शुभे

॥९॥

इत्युक्तः स तदाऽऽगत्य ऋषितोयातटं शुभम् ॥

नारदो यत्र ब्रह्मर्षिस्तपस्तप्यति चैव हि

॥१०॥

तत्र गत्वा हरेः सूनुरुन्नतस्थानवासिनः ॥

आसन्ये ब्राह्मणास्तान्स इदं वचनमब्रवीत्

॥११॥

सांब उवाच

एष वै ब्रह्मणो भागः प्रभासे क्षेत्र उत्तमे ॥

अत्र वै ब्राह्मणा ये तु ते वै श्रेष्ठाः स्मृता भुवि

॥१२॥

भवतां वचनाद्विप्राः सूर्यमाराधयाम्यहम् ॥

मम वै पूर्वमादिष्टं स्थानमेतच्च विष्णुना

॥१३॥

विप्रा ऊचुः

सिद्धिस्ते भविता सांब आराधय दिवाकरम् ॥

इत्युक्तः स तदा विप्रैः प्रविष्टोऽथ प्रभाकरम्

॥१४॥

नित्यमाराधयामास सांबो जांबवतीसुतः ॥

तपोनिष्ठं च तं दृष्ट्वा विष्णुः कारुणिको महान्

॥१५॥

इदं वै चिन्तयामास पुत्रवात्सल्यसंयुतः ॥

यथैश्वर्यप्रदो रुद्रो यथा विष्णुश्च मुक्तिदः

॥१६॥

यज्ञैरिष्टो हि देवेन्द्रो यथा स्वर्गप्रदः स्मृतः ॥

शुद्धिकर्तृ यथा तोयं मृत्तिकाभस्मसंयुतम् ॥

दहनात्मा यथा वह्निर्विघ्नहर्त्ता गणेश्वरः

॥१७॥

स्वच्छंदभारतीदाने यथा ब्रह्मसुता नृणाम् ॥

तथाऽऽरोग्यप्रदाता च नान्यो देवो दिवाकरात्

॥१८॥

अनेकधाऽऽराधितोऽपि स देवो भास्करः शुचिः ॥

न ददाति वरं यत्तु तन्मे शापस्य कारणात्

॥१९॥

एवं संचिन्त्य भगवान्विष्णुः कमललोचनः ॥

सूर्यरूपं समाश्रित्य तस्य तुष्टो जनार्दनः

॥२०॥

योऽपरनारायणख्यस्तस्यैव सन्निधौ स्थितः ॥

प्रत्यक्षः स ततो विष्णुः सूर्यरूपी दिवाकरः ॥

उवाच परमप्रीतो वरदः पुण्यकर्मणाम्

॥२१॥

अलं क्लेशेन ते सांब किमर्थं तप्यसे तपः ॥

प्रसन्नोऽहं हरेः सूनो वरं वरय सुव्रत

॥२२॥

सांब उवाच

निर्मलस्त्वत्प्रसादेन कुष्ठमुक्तकलेवरः ॥

भवानि देवदेवेश प्रत्यक्षाऽम्बरभूषण ॥

अस्मिन्स्थाने स्थितो रम्ये नित्यं सन्निहितो भव

॥२३॥

सूर्य उवाच

अधुना निर्मलो देहस्तव सांब भविष्यति ॥

इहागत्य नरो यस्तु सप्तम्यां रविवासरे ॥

उपवासपरो भूत्वा रात्रौ जागरणे स्थितः

॥२४॥

अष्टादशानि कुष्ठानि पापरोगास्तथैव च ॥

कदाचिन्न भविष्यन्ति कुले तस्य महात्मनः

॥२५॥

कृत्वा स्नानं नरो यस्तु भक्तियुक्तो जितेन्द्रियः ॥

पूजयेद्रविवारेण सांबादित्यं महाप्रभम् ॥

स रोगहीनो धनवान्पुत्रवाञ्जायते नरः

॥२६॥

तस्यैव पूर्वदिग्भागे किञ्चिदीशानमाश्रितम् ॥

कुंडं पापहरं पुण्यं स्वच्छोदपरि पूरितम्

॥२७॥

तत्र स्नात्वा च् विधिवत्कुर्याच्छ्राद्धं विचक्षणः ॥

भोजयेद्ब्राह्मणान्यस्तु सांबादित्यं प्रपूजयेत्

॥२८॥

सर्वकामसमृद्धात्मा सूर्य लोके महीयते

॥२९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्य माहात्म्यवर्णनंनाम षडुत्तरत्रिशततमोध्यायः ॥ ३०६ ॥