मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ११६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 116

शंखोदककुण्डेश्वरीगौरीमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि देवीं सौभाग्यकारिणीम् ॥

कुण्डेश्वरीति विख्यातां पुष्कराद्वायुगोचरे

॥१॥

धनुषां त्रिंशता देवि भूतनाथाच्च नैर्ऋते ॥

संस्थिता पापदमनी दारिद्र्यौघविनाशिनी

॥२॥

तस्या नैर्ऋतदिग्भागे धनुःपञ्चदशे स्थितम् ॥

शंखोदकंनाम कुण्डं सर्वपातकनाशनम्

॥३॥

तत्र स्नात्वा तु ये मर्त्या नारी वा शुभवारिणि ॥

पूजयेत्तां महादेवि शंखावर्तेति विश्रुताम्

॥४॥

कलौ कुण्डेश्वरीनाम सर्वसौख्यप्रदायिनी ॥

शंखो नाम पुरा देवि विष्णुना निहतः प्रिये

॥५॥

तस्य देहं समादाय महान्तं शंखरूपिणम् ॥

तीर्थोदकेन संपूर्य प्रभासं क्षेत्रमागतः

॥६॥

तत्र शंखं तु प्रक्षाल्य कृतं तीर्थं महाप्रभम् ॥

तत्र पूरितवाञ्छङ्खं मेघगम्भीरनिस्वनम्

॥७॥

तस्य नादेन महता देवी तत्र समागता ॥

पृच्छती कारणं तत्र तत्कुण्डस्य समीपगा ॥

तेन कुण्डेश्वरी ख्याता कुण्डं शंखोदकं स्मृतम्

॥८॥

माघे मासि तृतीयायां यस्तां पूजयते नरः ॥

नारी वा भक्तिसंयुक्ता स गौरीपदमाप्नुयात्

॥९॥

दंपत्योर्भोजनं तत्र देयं यात्राफलेप्सुभिः ॥

कञ्चुकं फलदानं च गौरिणीनां च भोजनम्

॥१०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंखोदककुण्डेश्वरीगौरीमाहात्म्यवर्णनंनाम षोडशोत्तरशततमोऽध्यायः ॥ ११६ ॥