मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १०१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 101

एतस्मिन्नेव काले तु नारदो भगवानृषिः

ईश्वर उवाच

एतस्मिन्नेव काले तु नारदो भगवानृषिः ॥

ब्रह्मणो मानसः पुत्रस्त्रिषु लोकेषु गर्वितः

॥१॥

सर्वलोकचरः सोऽपि युवा देवनमस्कृतः ॥

तथा यदृच्छया चायमटमानः समंततः

॥२॥

वासुदेवं स वै द्रष्टुं नित्यं द्वारवतीं पुरीम् ॥

आयाति ऋषिभिः सार्द्धं क्रोधेन ऋषि सत्तमः

॥३॥

अथाश्वागच्छतस्तस्य सर्वे यदुकुमारकाः ॥

ये प्रद्युम्नप्रभृतयस्ते च प्रह्वाननाः स्थिताः

॥४॥

अभावाच्चार्घ्यपाद्यानां पूजां चक्रुः समंततः ॥

सांबस्त्ववश्यभावित्वात्तस्य शापस्य कारणात्

॥५॥

अवज्ञां कुरुते नित्यं नारदस्य महात्मनः ॥

रतक्रीडा स वै नित्यं रूपयौवनगर्वितः

॥६॥

अविनीतं तु तं दृष्ट्वा चिन्तयामास नारदः ॥

अस्याहमविनीतस्य करिष्ये विनयं शुभम्

॥७॥

एवं स चिन्तयित्वातु वासुदेवमथाब्रवीत् ॥

इमाः षोडशसाहस्राः स्त्रियो या देवसत्तम

॥८॥

सर्वास्तासां सदा सांबे भावो देव समाश्रितः ॥

रूपेणाप्रतिमः सांबो लोकेऽस्मिन्सचराचरे

॥९॥

सदाऽर्हंति च तास्तस्य दर्शनं ह्यपि सत्स्त्रियः ॥

श्रुत्वैवं नारदाद्वाक्यं चिन्तयामास केशवः

॥१०॥

यदेतन्नारदेनोक्तं सत्यमत्र तु किं भवेत् ॥

एवं च श्रूयते लोके चापल्यं स्त्रीषु विद्यते ॥

श्लोकाविमौ पुरा गीतौ चित्तज्ञैर्योषितां द्विजैः

॥११॥

पौंश्चल्यादतिचापल्यादज्ञानाच्च स्वभावतः ॥

रक्षिता यत्नतो ह्येता विकुर्वंति हि भर्तृषु

॥१२॥

नैता रूपं परीक्षंते नाऽऽसां वयसि संश्रयः ॥

सुरूपं वा विरूपं वा पुमानित्येव भुंजते

॥१३॥

ईश्वर उवाच

मनसा चिन्तयित्वैवं कृष्णो नारदमब्रवीत् ॥

नह्यहं श्रद्दधाम्येतद्यदेतद्भाषितं पुरा

॥१४॥

ब्रुवाणमेवं देवं तु नारदः प्रत्युवाच ह ॥

तथाहं तु करिष्यामि यथा श्रद्धास्यते भवान्

॥१५॥

एवमुक्त्वा ययौ भूयो नारदस्तु यथागतम् ॥

ततः कतिपयाहस्य द्वारकां पुनरभ्यगात्

॥१६॥

तस्मिन्नहनि देवोऽपि सहांतःपौरकैर्जनैः ॥

अनुभूय जलक्रीडां पानमासेवते रहः

॥१७॥

रम्ये रैवतकोद्याने नानाद्रुमविभूषिते ॥

सर्वर्तुकुसुमैर्नित्यं वासिते सर्वकामने

॥१८॥

नानाजलजफुल्लाभिर्दीर्घिका भिरलंकृते ॥

हंससारससंघुष्टे चक्रवाकोपशोभिते

॥१९॥

तस्मिन्स रमते देवः स्त्रीभिः परिवृतस्तदा ॥

हारनूपुरकेयूररसनाद्यैर्विभूषणैः

॥२०॥

भूषितानां वरस्त्रीणां सर्वांगीणां विशेषतः ॥

तत्रस्थः पिबते पानं शुभगन्धान्वितं शुभम्

॥२१॥

एतस्मिन्नंतरे बुद्ध्वा मद्यमत्तास्ततः स्त्रियः ॥

उवाच नारदः सांबमस्मिंस्तिष्ठ कुमारक

॥२२॥

त्वां समाह्वयते देवो न युक्तं स्थातुमत्र ते ॥

तद्वाक्यार्थमबुद्ध्वैव नारदेनाथ नोदितः

॥२३॥

गत्वा तु सत्वरं सांबः प्रणाममकरोत्पितुः ॥

निर्द्दिष्टमासनं भेजे यथाभावेन विष्णुना

॥२४॥

एतस्मिन्नंतरे तत्र यास्तु वै चाल्पसात्त्विकाः ॥

ता दृष्ट्वा सहसा सांबं सर्वाश्चुक्षुभिरे स्त्रियः

॥२५॥

न स दृष्टः पुरा याभिरंतःपुरनिवासिभिः ॥

मद्यदोषात्ततस्तासां स्मृतिलोपात्तथा बहु

॥२६॥

स्वभावतोऽल्पसत्त्वानां जघनानि विसुस्रुवुः ॥

श्रूयते चाप्ययं श्लोकः पुराणप्रथितः क्षितौ

॥२७॥

ब्रह्मचर्येऽपि वर्त्तंत्या योगिन्या वा प्रमादतः ॥

प्रकृष्टं पुरुषं दृष्ट्वा वरांगं क्लिद्यते स्त्रियाः

॥२७॥

लोकेऽपि दृश्यते ह्येतन्मद्यस्याप्यथ सेवनात् ॥

लज्जां मुंचंति निःशंका ह्रीमत्यो ह्यपि च स्त्रियः

॥२९॥

समांसैर्भोजनैः स्निग्धैः पानैः सीधुसुरासवैः ॥

गंधैर्मनोज्ञैर्वस्त्रैश्च कामः स्त्रीषु विजृंभति

॥३०॥

मद्यं न देयमत्यर्थं पुरुषेण विपश्चिता ॥

मदोन्मत्ताः स्वभावेन पूर्वं संति यतः स्त्रियः

॥३१॥

नारदोऽप्यथ तं सांबं प्रेषयित्वा त्वरान्वितः ॥

आजगामाथ तत्रैव सांबस्यानुपदेन तु

॥३२॥

आयांतं ताः स्वयं दृष्ट्वा प्रियसौमनसं मुनिम् ॥

सहसैवोत्थिताः सर्वा मदोन्मत्ता अपि स्त्रियः

॥३३॥

तासामथोत्थितानां तु वासुदेवस्य पश्यतः ॥

भित्त्वा वासांस्यनर्घाणि पात्रेषु पतितानि तु

॥३४॥

जघनेषु विलग्नानि तानि पेतुः पृथक्पृथक् ॥

तद्दृष्ट्वा तु हरिः कुद्धस्ताः शशाप ततोऽबलाः

॥३५॥

यस्माद्गतानि चेतांसि मां मुक्त्वाऽन्यत्र वः स्त्रियः ॥

तस्मात्पतिकृताँल्लोकानायुषोंऽते न यास्यथ

॥३६॥

पतिलोकात्परिभ्रष्टाः स्वर्गमार्गात्तथैव च ॥

भूत्वा ह्यशरणा भूयो दस्युहस्तं गमिष्यथ

॥३७॥

शापदोषात्ततस्तस्मात्ताः स्त्रियो गां गते हरौ ॥

हृताः पांचनदैश्चौरैरर्जुनस्य प्रपश्यतः

॥३८॥

अल्पसत्त्वाश्च याश्चासंस्ता गता दूषणं स्त्रियः ॥

रुक्मिणी सत्यभामा च तथा जांबवती प्रिये

॥३९॥

न प्राप्ता दस्युहस्तं ताः स्वेन सत्त्वेन रक्षिताः ॥

शप्त्वैवं ताः स्त्रियः कृष्णः सांबमप्यशपत्पुनः

॥४०॥

यस्मादतीव ते कांतं दृष्ट्वा रूपमिमाः स्त्रियः ॥

क्षुब्धाः सर्वा यतस्तस्मात्कुष्ठरोगमवाप्नुहि

॥४१॥

तस्य तद्वचनं श्रुत्वा सांबो लज्जासमन्वितः ॥

उवाच प्रहसन्वाक्यं स स्मरन्नृषिसत्तमम्

॥४२॥

अनिमित्तमहं तात भावदोषविवर्जितः ॥

शप्तो न मेऽत्र वै कुद्धो दुर्वासा नान्यथा वदेत्

॥४३॥

एवमुक्त्वा ततः सांबः कृष्णं कमललोचनम् ॥

ततो वैराग्यसंयुक्तश्चिन्ताशोकपरायणः

॥४४॥

प्रभासक्षेत्रमगमत्सर्वपातकनाशनम् ॥

एवं तत्क्षेत्रमासाद्य तपस्तेपे सुदारुणम्

॥४५॥

प्रतिष्ठाप्य सहस्रांशुं देवं पापनिषूदनम् ॥

ततश्चाराधयामास परं नियममाश्रितः

॥४६॥

त्रिसंध्यं पूजयामास दिव्यगंधानुलेपनैः ॥

स्तोत्रेणानेन भक्त्या वै स्तौति नित्यं दिनाधिपम्

॥४७॥

सांब उवाच

नमस्त्रैलोक्यदीपाय नमस्ते तिमिरापह ॥

नमः पंकजनाथाय नमः कुमुदशत्रवे

॥४८॥

नमो जगत्प्रतिष्ठाय जगद्धात्रे नमोऽस्तु ते ॥

देवदेव नमस्यामि सूर्यं त्रैलोक्यदीपकम्

॥४९॥

आदित्यवर्णो भुवनस्य गोप्ता अपूर्व एष प्रथमः सुराणाम् ॥

हिरण्यगर्भः पुरुषो महात्मा स पठ्यते वै तमसः परस्तात्

॥५०॥

इति स्तुतस्तदा सूर्यः प्रसन्नेनांतरात्मना ॥

उवाच दर्शनं गत्वा सांबं जांबवतीसुतम्

॥५१॥

सांबसांब महावाहो शृणु गोविन्दनन्दने ॥

स्तोत्रेणानेन तुष्टोऽहं वरं ब्रूहि यदीप्सितम्

॥५२॥

सांब उवाच

कृष्णेनाहं सुरश्रेष्ठ शप्तः पापः सुदुर्मतिः ॥

कुष्ठांतं कुरु मे देव यदि तुष्टोऽसि मे प्रभो

॥५३॥

श्रीभानुरुवाच

भूय एव महाभाग नीरोगस्त्वं भविष्यसि ॥

यादृग्रूपः पुरा ह्यासीर्मम चैव प्रसादतः

॥५४॥

अद्य प्रभृति नेक्ष्यास्ता विष्णुभार्याः कथंचन ॥

न तासां दर्शने जातु स्थातव्यं यदुनन्दन

॥५५॥

तासामीर्ष्यापरीतेन विष्णुना प्रभविष्णुना ॥

कुष्ठं ते यादवश्रेष्ठ प्रदत्तं हि महात्मना

॥५६॥

यो मां स्तोत्रेण चानेन समागत्य च स्तोष्यति ॥

न तस्यान्वयसंभूतः कुष्ठी कश्चिद्भविष्यति

॥५७॥

अथादित्यस्य नामानि सम्यग्जानीहि द्वादश ॥

द्वादशैव तथान्यानि तानि वक्ष्याम्यशेषतः

॥५८॥

आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रतापनः ॥

मार्त्तंडो भास्करो भानुश्चित्रभानुर्द्दिवाकरः

॥५९॥

रविर्द्वादशनामैवं ज्ञेयः सामान्यनामभिः ॥

विष्णुर्धाता भगः पूषा मित्रोंऽशुर्वरुणो ऽर्यमा

॥६०॥

इन्द्रो विवस्वांस्त्वष्टा च पर्जन्यो द्वादशः स्मृतः ॥

इति ते द्वादशादित्याः पृथक्त्वेन प्रकीर्तिताः

॥६१॥

उत्तिष्ठंति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥

विष्णुस्तपति वै चैत्रे वैशाखे चार्यमा सदा

॥६२॥

विवस्वाञ्ज्येष्ठमासे तु आषाढे चांशुमांस्तथा ॥

पर्ज्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञिके

॥६३॥

इन्द्रश्चाश्वयुजे मासि धाता तपति कार्तिके ॥

मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः

॥६४॥

माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥

शतैर्द्वादशभिर्विष्णू रश्मीनां दीप्यते सदा

॥६५॥

दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥

द्विसप्तकैर्विवस्वांस्तु अंशुमान्पञ्चकैस्त्रिभिः

॥६६॥

विवस्वानिव पर्जन्यो वरुणश्चार्यमा इव ॥

इन्द्रस्तु द्विगुणैः षड्भिर्भात्येकादशभिः शतैः

॥६७॥

मित्रवच्च भगस्त्वष्टा सहस्रेण शतेन च ॥

उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयः सदा ॥

दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः

॥६८॥

एवं द्वादश मूर्तिस्थः प्रभासक्षेत्रमध्यतः ॥

सांबादित्येति विख्यातः स्थास्ये मन्वन्तरान्तरे

॥६९॥

माघस्य शुक्लपक्षे तु पञ्चम्यां यादवोत्तम ॥

एकभक्तं सदा ख्यातं षष्ठ्यां नक्तमुदाहृतम्

॥७०॥

सप्तम्यामुपवासं तु कृत्वा सांबार्कसंनिधौ ॥

रक्तचन्दनमिश्रैस्तु करवीरैर्महाव्रतः

॥७१॥

दत्त्वा कुन्दरकं धूपं पूजयेद्भास्करं बुधः ॥

ब्राह्मणान्दिव्यभोज्येन भोजयित्वाऽपि शक्तितः

॥७२॥

एवं यः कुरुते सम्यक्सांबादित्यस्य पूजनम् ॥

सम्यक्छ्रद्धासमायुक्तः संप्राप्स्यत्यखिलं फलम्

॥७३॥

ईश्वर उवाच

एवमुक्त्वा सहस्रांशुस्तत्रैवांतरधीयत ॥

सांबोऽपि निर्जरो भूत्वा द्वारकां पुनरागमत्

॥७४॥

इत्येतत्कथितं देवि सांबादित्यमहोदयम् ॥

श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति

॥७५॥

इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्यमाहात्म्यवर्णनंनामैकोत्तरशततमोऽध्यायः ॥ १०१ ॥