रोमांचकञ्चुका सुभ्रूः पुनः पप्रच्छ भूसुराः
सूत उवाच
इति प्रोक्ता तदा देवि विस्मयोत्फुल्ललोचना ॥
रोमांचकञ्चुका सुभ्रूः पुनः पप्रच्छ भूसुराः
॥१॥देव्युवाच
धन्याऽहं कृतपुण्याऽहं तपः सुचरितं मया ॥
यदेष क्षेत्र महिमा महादेवान्मया श्रुतः
॥२॥भगवन्देवदेवेश संसारार्णवतारक ॥
पृष्टं तु यन्मया पूर्वं तत्सर्वं कथितं हर
॥३॥पुनश्च देवदेवेश त्वद्वाक्यामृतरंजिता ॥
न तृप्तिमधिगच्छामि देवदेव महेश्वर
॥४॥किंचित्प्रष्टुमनाश्चास्मि प्रभासक्षेत्रविस्तरम् ॥
तन्मे कथय कामेश दयां कृत्वा जगत्प्रभो
॥५॥ईश्वर उवाच
पृथिव्या मध्यगर्भस्थं जंबूद्वीपमिति स्मृतम् ॥
तच्च वै नवधा भिन्नं वर्षभेदेन सुन्दरि
॥६॥तस्याद्यं भारतं वर्षं तच्चापि नवधा स्मृतम् ॥
नवयोजनसाहस्रं दक्षिणोत्तरमानतः
॥७॥अशीतिश्च सहस्राणि पूर्वपश्चायतं स्मृतम् ॥
उत्तरे हिमवानस्ति क्षीरोदो दक्षिणे स्मृतः
॥८॥एतस्मिन्नंतरे देवि भारतं क्षेत्रमुत्तमम् ॥
कृतं त्रेता द्वापरं च तिष्यं युगचतुष्टयम्
॥९॥अत्रैवैषा युगावस्था चतुर्वर्णश्च वै जनः ॥
चत्वारि त्रीणि च द्वे च तथैवैक शरच्छतम्
॥१०॥जीवन्त्यत्र नरा देवि कृतत्रेतादिषु क्रमात् ॥
यदेतत्पार्थिवं पद्मं चतुष्पत्रं मयोदितम्
॥११॥वर्षाणि भारताद्यानि पत्राण्यस्य चतुर्द्दिशम् ॥
भारतं केतुमालं च कुरु भद्राश्वमेव च
॥१२॥भारतं नाम यद्वर्षं दाक्षिणात्यं मयोदितम् ॥
दक्षिणापरतो यस्य पूर्वेण च महोदधिः ॥
हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः
॥१३॥तदेतद्भारतं वर्षं सर्वबीजं वरानने ॥
तत्कर्मभूमिर्नान्यत्र संप्राप्तिः पुण्यपापयोः
॥१४॥देवानामपि देवेशि सदैवैष मनोरथः ॥
अपि मानुष्यमाप्स्यामो भारते प्रत्युत क्षितौ
॥१५॥भद्राश्वेऽश्वशिरा विष्णुर्भारते कूर्मसंस्थितः ॥
वराहः केतुमाले च मत्स्यरूपस्तथोत्तरे
॥१६॥तेषु नक्षत्रविन्यासाद्विषयाः समवस्थिताः ॥
चतुर्ष्वपि महादेवि विग्रहो नव पादकः
॥१७॥भारतो यो महादेवि कूर्मरूपेण संस्थितः ॥
नक्षत्रग्रहविन्यासं तस्य ते कथयाम्यहम्
॥१८॥प्राङ्मुखो भगवान्देवो कूर्मरूपी व्यवस्थितः ॥
आक्रम्य भारतं वर्षं नवभेदमिदं प्रिये
॥१९॥नवधा संस्थितस्यास्य नक्षत्राणि निबोध मे ॥
कृत्तिका रोहिणी सौम्यं तृतीयं कूर्मपृष्ठिगम्
॥२०॥रौद्रं पुनर्वसुः पुष्यं नक्षत्रत्रितयं मुखे ॥
आश्लेषाख्यं तथा पैत्रं फाल्गुनी प्रथमा प्रिये
॥२१॥नक्षत्रत्रितयं पादमाश्रितं पूर्वदक्षिणम् ॥
फाल्गुनी चोत्तरा हस्तं चित्रा चर्क्षत्रयं स्मृतम्
॥२२॥कूर्मस्य दक्षिणे कुक्षौ चर्क्षपादं तथाऽपरम् ॥
स्वाती विशाखा मैत्रं च नैर्ऋते त्रितयं स्मृतम्
॥२३॥ऐंद्रं मूलं तथाषाढा पृष्ठे तु त्रितयं स्मृतम् ॥
आषाढा श्रवणं चैव धनिष्ठा चात्र शब्दिता
॥२४॥नक्षत्रितयं पादे वायव्ये तु यशस्विनि ॥
वारुणं चैव नक्षत्रं तथा प्रोष्ठपदाद्वयम्
॥२५॥कूर्मस्य वामकुक्षौ तु त्रितयं संस्थितं प्रिये ॥
रेवती चाश्विदैवत्यं याम्यं चर्क्षमिति त्रयम् ॥
ईशपादे समाख्यातं शुभाशुभफलं शृणु
॥२६॥यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्धैन्यतो भयम् ॥
तद्देशस्य महादेवि तथोत्कर्षे शुभागमः
॥२७॥एष कूर्मो मयाख्यातो भारते भगवानिह ॥
नारायणो ह्यचिंत्यात्मा यत्र सर्वं प्रतिष्ठितम्
॥२८॥मेषवृषौ हृदो मध्ये मुखे च मिथुनादिकौ ॥
प्राग्दक्षिणे तथा पादे कर्कसिंहौ व्यवस्थितौ
॥२९॥सिंहकन्यातुलाश्चैव कुक्षौ राशित्रयं स्मृतम् ॥
धटोऽध वृश्चिकाश्चोभौ पादे दक्षिणपश्चिमे
॥३०॥पुच्छे तु वृश्चिकश्चैव सधनुश्च व्यवस्थितः ॥
वायव्ये वामपादे च धनुर्ग्राहादिकं त्रयम्
॥३१॥कुम्भ मीनौ तथा चास्य उत्तरां कुक्षिमाश्रितौ ॥
मीनमेषौ महादेवि पादे पूर्वोत्तरे स्थितौ
॥३२॥कूर्म्मदेशांस्तथर्क्षाणि देशेष्वेतेषु वै प्रिये ॥
राशयश्च तथर्क्षेषु ग्रहा राशिव्यवस्थिताः
॥३३॥तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ॥
तत्र स्नानं प्रकुर्वंति दानं होमादिकं तथा
॥३४॥स एष वैष्णवः पादो देवि मध्ये ग्रहोऽस्य यः ॥
नारायणाख्योऽचिंत्यात्मा कारणं जगतः प्रभुः
॥३५॥भौमशुक्रबुधेंद्वर्कबुधशुक्रमहीसुताः ॥
गुरुमंदासुराचार्या मेषादीनामधीश्वराः
॥३६॥एवंविधो महादेवि कूर्मरूपी जनार्द्दनः ॥
तस्य नैऋतपादे तु सौराष्ट्र इति विश्रुतः
॥३७॥स चैवं नवधा भिन्नः पुरभेदेन सुंदरि ॥
तस्य यो नवमो भागः सागरस्य च सन्निधौ
॥३८॥प्रभास इति विख्यातो मम देवि प्रियः सदा ॥
योजनानां दशद्वे च विस्तीर्णः परिमण्डलम्
॥३९॥मध्येस्य पीठिका प्रोक्ता पंचयोजनविस्तृता ॥
तन्मध्ये मद्ग्रहं देवि तिष्ठत्युदधिसंनिधौ
॥४०॥तस्य मध्ये महादेवि लिंगरूपो वसाम्यहम्
॥४१॥कृतस्मरात्पश्चिमतो धनुषां च शतत्रये ॥
वसामि तत्र देवेशि त्वया सह वरानने
॥४२॥तन्मे स्थानं महादेवि कैलासादपि वल्लभम् ॥
गोचर्ममात्रं तत्रापि महागोप्यं वरानने
॥४३॥अकथ्यं देवदेवेशि तव स्नेहात्प्रकाशितम् ॥
एतत्प्राभासिकं क्षेत्रं प्रभया दीपितं मम
॥४४॥तेन प्रभासमित्युक्तमादिकल्पे वरानने ॥
द्वितीये तु प्रभा लब्धा सर्वैर्देवैः सवासवैः
॥४५॥मम प्रभाभा देवेशि तेन प्राभासिकं स्मृतम् ॥
प्रभाववन्तो देवेशि यत्र संति महासुराः
॥४६॥अथवा तेन लोकेषु प्रभासमिति कीर्त्यते ॥
प्रथमं भासते देवि सर्वेषां भुवि तेजसाम् ॥
तीर्थानामादितीर्थं यत्प्रभासं तेन कीर्त्तितम्
॥४७॥प्रकृष्टं भानुरथवा भासितो विश्वकर्मणा ॥
यत्र साक्षात्प्रभापातो जातः प्राभासिकं ततः
॥४८॥अथवा दक्षसंशप्तेनेन्दुना निष्प्रभेणच ॥
तत्र देवि प्रभा लब्धा तेन प्राभासिकं स्मृतम् ॥
प्रोद्दधे भारती देवी ह्यौर्वाग्निं वडवानलम्
॥४९॥अथवा तेन देवेशि प्रभासमिति कीर्त्यते ॥
प्रकृष्टा भारती ब्राह्मी विप्रोक्ता श्रूयतेऽध्वनि ॥
सदा यत्र महादेवि प्रभासं तेन कीर्तितम्
॥५०॥प्रोल्लसद्वीचिभिर्भाति सर्वदा सागरः प्रिये ॥
तेन प्रभास नामेति त्रिषु लोकेषु विश्रुतम्
॥५१॥प्रत्यक्षं भास्करो यत्र सदा तिष्ठति भामिनि ॥
तेन प्रभास नामेति प्रसिद्धिमगमत्क्षितौ
॥५२॥प्रकृष्टं भाविनां सर्वं कामं तत्र ददाम्यहम् ॥
तेन प्रभासनामेति तीर्थं त्रैलोक्यविश्रुतम्
॥५३॥कल्पभेदेन नामानि तथैव सुरसुन्दरि ॥
निरुक्तभेदैर्बहुधा भिद्यंते कारणैः प्रिये ॥
प्रभासमिति यन्नाम दातव्यं निश्चलं स्मृतम्
॥५४॥अप्तत्त्वे संस्थितं देवि विष्णोराद्यकलेवरे ॥
इति ते कथितं देवि संक्षेपात्क्षेत्रकारणम्
॥५५॥पुनस्ते कथयाम्यद्य यत्पृच्छसि वरानने ॥
तद्ब्रूहि शीघ्रं कल्याणि यत्ते मनसि वर्तते
॥५६॥देव्युवाच
अस्मिन्कल्पे यथा जातं क्षेत्रं प्राभासिकं हर ॥
तन्मे विस्तरतो ब्रूहि उत्पत्तिं कारणं तथा
॥५७॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यथावत्क्षेत्रकारणम् ॥
यच्छ्रुत्वा मानवो भक्त्या मुच्यते सर्वपातकैः
॥५८॥आदिक्षेत्रस्य माहात्म्यं रहस्यं पापनाशनम् ॥
कथयिष्ये वरारोहे तव स्नेहेन भामिनि
॥५९॥अस्मिन्कल्पे तु यद्देवि आदावेव वरानने ॥
स्वायंभुवे मनौ तत्र ब्रह्मणः सृजतः पुरा
॥६०॥दक्षिणाल्लोचनाज्जातः पूर्वं सूर्य इति प्रिये ॥
ततः कालान्तरे तस्य भार्ये द्वे च बभूवतुः
॥६१॥तयोस्तु राज्ञी द्यौर्ज्ञेया निक्षुभा पृथिवी स्मृता ॥
सौम्यमासस्य सप्तम्यां द्यौः सूर्येण च युज्यते
॥६२॥माघमासे तु सप्तम्यां मह्या सह भवेद्रविः ॥
भूश्चादित्यश्च भगवान्गच्छते संगमं तदा
॥६३॥ऋतुस्नाता मही तत्र गर्भं गृह्णाति भास्करात् ॥
द्यौर्जलं सूयते गर्भं वर्षास्वास्विह भूतले
॥६४॥ततस्त्रैलोक्यवृत्त्यर्थं मही सस्यानि सूयते ॥
सस्योपयोगात्संहृष्टा जुह्वत्याहुतिभिर्द्विजाः
॥६५॥स्वाहाकारस्वधाकारैर्यजंति पितृदेवताः ॥
निःक्षुधः कुरुते यस्माद्गर्भौषधिसुधाऽमृतैः ।
मर्त्यान्पितॄंश्च देवांश्च तेन भूर्निक्षुभा स्मृता ॥
यथा राज्ञी च संजाता यस्य चेयं सुता मता
॥६७॥अपत्यानि च यान्यस्यास्तानि वक्ष्याम्यशेषतः ॥
मरीचिर्ब्रह्मणः पुत्रो मारीचः कश्यपः स्मृतः
॥६८॥तस्माद्धिरण्यकशिपुः प्रह्रादस्तस्य चात्मजः ॥
प्रह्रादस्य सुतो नाम्ना विरोचन इति स्मृतः
॥६९॥विरोचनस्य भगिनी संज्ञा या जननी तु सा ॥
हिरण्यकशिपोः पौत्री दितेः पुत्रस्य सा स्मृता
॥७०॥सा विश्वकर्मणः पत्नी प्राह्लादी प्रोच्यते बुधैः
॥७१॥अथ नाम्नातिरूपेति मरीचिदुहिता शुभा ॥
पत्नी ह्यंगिरसः सा तु जननी च बृहस्पतेः
॥७२॥बृहस्पतेस्तु भगिनी विश्रुता ब्रह्मवादिनी ॥
प्रभासस्य तु सा पत्नी वसूनामष्टमस्य वै
॥७३॥प्रसूता विश्वकर्माणं सर्वशिल्पवतां वरम् ॥
स चैव नाम्ना त्वष्टा तु पुनस्त्रिदशवार्द्धकिः
॥७४॥देवाचार्यस्य तस्येयं दुहिता विश्वकर्मणः ॥
सुरेणुरिति विख्याता त्रिषु लोकेषु भामिनी
॥७५॥प्रह्रादपुत्री या प्रोक्ता भार्या वष्टुस्तु सा स्मृता ॥
तस्यां स जनयामास पुत्रीस्ता लोकमातरः
॥७६॥राज्ञी संज्ञा च द्यौस्त्वष्ट्री प्रभा सैव विभाव्यते ॥
तस्यास्तु वलया छाया निक्षुभा सा महीयसी
॥७७॥सा तु भार्या भगवती मार्तंडस्य महात्मनः ॥
साध्वी पतिव्रता देवी रूपयौवनशालिनी
॥७८॥न तु तां नररूपेण भार्यां भजति वै पुरा ॥
आदित्यस्येह तप्तत्वं महता स्वेन तेजसा
॥७९॥गात्रेष्वप्रतिरूपेषु मासिकांतमिवाभवत् ॥
संज्ञा च रविणा दृष्टा निमीलयति लोचने ॥
यतस्ततः सरोषोऽर्कः संज्ञां वचनमब्रवीत्
॥८०॥रविरुवाच
मयि दृष्टे सदा यस्मात्कुरुषे नेत्रसंक्षयम् ॥
तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम्
॥८१॥ईश्वर उवाच
ततः सा चपला दृष्टिं देवी चक्रे भयाकुला ॥
विलोलितदृशं दृष्ट्वा पुनराह च तां रविः
॥८२॥रविरुवाच
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वया पुनः ॥
तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि
॥८३॥ईश्वर उवाच
ततस्तस्यास्तु संजज्ञे भर्तृशापेन तेन वै ॥
यमश्च यमुना चेयं प्रख्याता सुमहानदी ॥
तृतीयं च सुतं जज्ञे श्राद्धदेवं मनुं शुभम्
॥८४॥सापि संज्ञा रवेस्तेजो गोलाकारं महाप्रभम् ॥
असहन्ती च सा चित्ते चिन्तयामास वै तदा
॥८५॥किं करोमि क्व यास्यामि क्व गतायाश्च निर्वृतिः ॥
भवेन्मम कथं भर्ता कोपमर्क्कश्च नेष्यति
॥८६॥इति संचिन्त्य बहुधा प्रजापतिसुता तदा ॥
बहु मेने महाभागा पितृसंश्रयमेव च
॥८७॥ततः पितृगृहं गन्तुं कृतबुद्धिर्यशस्विनी ॥
छायामयीमात्मतनुं प्रत्यंगमिव निर्मिताम्
॥८८॥सम्मुखं प्रेक्ष्य तां देवीं स्वां छायां वाक्यमब्रवीत्
॥८९॥संज्ञोवाच
अहं यास्यामि भद्रं ते स्वकं च भवनं पितुः ॥
निर्विकारं त्वया त्वत्र स्थेयं मच्छासनाच्छुभे
॥९०॥इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ॥
संभाव्या नैव चाख्येयमिदं भगवते त्वया
॥९१॥पृष्टयापि न वाच्यं ते तथैतद्गमनं मम ॥
तेनास्मि नामसंज्ञेति वाच्यसे तत्प्रतिष्ठया
॥९२॥छायोवाच
आ केशग्रहणाद्देवि आ शापान्नैव कर्हिचित् ॥
आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वांछितम्
॥९३॥ईश्वर उवाच
इत्युक्ता सा तदा देवी जगाम भवनं पितुः ॥
ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम्
॥९४॥बहुमानाच्च तेनापि पूजिता विश्वकर्मणा ॥
वर्षाणां च सहस्रं तु वसमाना पितुर्गृहे ॥
तस्थौ पितृगृहे सा तु किंचित्कालमनिंदिता
॥९५॥ततस्तां प्राह चार्वंगीं पिता नातिचिरोषिताम् ॥
स्तुत्वा तु तनयां प्रेम्णा बहुमानपुरःसरम्
॥९६॥विश्वकर्मोवाच
त्वामेव पश्यतो वत्से दिनानि सुबहून्यपि ॥
मुहूर्तार्द्धसमानि स्युः किं तु धर्मो विलुप्यते
॥९७॥बांधवेषु चिरं वासो नारीणां न यशस्करः ॥
मनोरथा बांधवानां नार्या भर्तृगृहे स्थितिः
॥९८॥सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण संयुता ॥
पितुर्गृहे चिरं कालं वस्तुं नार्हसि पुत्रिके
॥९९॥तत्त्वं भर्तृगृहं गच्छ दृष्टोऽहं पूजितासि मे ॥
पुनरागमनं कार्यं दर्शनाय शुचिस्मिते
॥१००॥ईश्वर उवाच
इत्युक्ता सा तदा पित्रा गच्छगच्छेति सा पुनः ॥
संपूजयित्वा पितरं वडवारूपधारिणी
॥१०१॥मेरोरुत्तरतस्तत्र वर्षं यद्धनुषाकृति ॥
उत्तराः कुरवो लोके प्रख्याता ये यशस्विनि
॥१०२॥तत्र तेपे तपः साध्वी निराहाराऽश्वरूपिणी ॥
एतस्मिन्नंतरे देवि तस्याश्छाया विवस्वतः
॥१०३॥समीपस्था तदा देवी संज्ञाया वाक्यतत्परा ॥
तस्यां च भगवान्सूर्यो द्वितीयायां दिवस्पतिः
॥१०४॥संज्ञेयमिति मन्वानो रूपौदार्येण मोहितः ॥
तस्यां च जनयामास द्वौ पुत्रौ कन्यकां तथा
॥१०५॥पूर्वं यस्तु मनोस्तुल्यः सावर्णिस्तेन सोऽभवत् ॥
यः सूर्यात्प्रथमं जातः पुत्रयोः सुरसुन्दरि
॥१०६॥द्वितीयो योऽभवच्चान्यः स ग्रहोऽभूच्छनैश्चरः ॥
कन्या ऽभूत्तपती या तां वव्रे संवरणो नृपः
॥१०७॥तापीनाम नदी चेयं विंध्यमूलाद्विनिःसृता ॥
नित्यं पुण्यजला स्नाने पश्चिमोदधिगामिनी
॥१०८॥अन्या चैव तथा भद्रा जाता पुत्री महाप्रभा ॥
संज्ञा तु पार्थिवी छाया आत्मजानां यथाकरोत्
॥१०९॥स्नेहं न पूर्वजातानां तथा कृतवती सती ॥
लालनाद्युपभोगेषु विशेषमनुवासरम्
॥११०॥यथा स्वेष्वनुवर्तेत न तथान्येषु भामिनी ॥
मनुस्तु क्षांतवांस्तस्या भविष्यो यो हि पार्वति
॥१११॥मेरौ तिष्ठति सोऽद्यापि तपः कुर्वन्वरानने ॥
सर्वं तत्क्षांतवान्मातुर्यमस्तस्या न चक्षमे
॥११२॥बहुशो याचमानस्तु छाययाऽतीव कोपितः ॥
स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात्
॥११३॥ताडनाय ततः कोपात्पादस्तेन समुद्यतः ॥
तथा पुनः क्षांतिमता न तु देहे निपातितः
॥११४॥पदा संतर्जयामास छायां संज्ञासुतो यमः
॥११५॥तं शशाप ततश्छाया क्रुद्धा सा पार्थिवी भृशम् ॥
किंचित्प्रस्फुरमाणोष्ठी विचलत्पाणिपल्लवा
॥११६॥छायोवाच
पितुः पत्नीममर्याद यन्मां तर्जयसे पदा ॥
भुवि तस्मादयं पादस्तवाद्यैव पतिष्यति
॥११७॥ईश्वर उवाच
यमस्तु तेन शापेन भृशं पीडितमानसः ॥
मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत्
॥११८॥यम उवाच
तातैतन्महदाश्चर्यं न दृष्टमिह केनचित् ॥
माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति
॥११९॥स्नेहेन तुल्यमस्मासु माताद्य नैव वर्त्तते ॥
विसृज्य ज्यायसो यस्मात्कनीयःसु बुभूषति
॥१२०॥तस्या मयोद्यतः पादो न तु देहे निपातितः ॥
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षंतुमर्हति
॥१२१॥शप्तोऽहं तात कोपेन तया सुत इति स्फुटम् ॥
अतो न मह्यं जननी सा भवेद्वदतां वर
॥१२२॥निगुर्णेष्वपि पुत्रेषु न माता निर्गुणा भवेत् ॥
पादस्ते पततां पुत्र कथमेतत्तयोदितम्
॥१२३॥तव प्रसादाच्चरणो न पतेद्भगवन्यथा ॥
मातृशापादयं मेऽद्य तथा चिंतय गोपते
॥१२४॥रविरुवाच
असंशयं महत्पुत्र भविष्यत्यत्र कारणम् ॥
येन ते ह्याविशत्क्रोधो धर्मज्ञस्य महात्मनः
॥१२६॥सर्वेषामेव शापानां प्रतिघातोऽपि विद्यते ॥
न तु मात्राभिशप्तानां क्वचिच्छापनिवर्त्तनम्
॥१२६॥न युक्तमेतन्मिथ्या तु कर्तुँ मातुर्वचस्तव ॥
किंचित्ते संविधास्यामि पुत्रस्नेहादनुग्रहम्
॥१२७॥कृमयो मांसमादाय प्रयास्यंति महीतलम् ॥
कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि
॥१२८॥ईश्वर उवाच
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ॥
तुल्येष्वप्यधिकः स्नेह एकत्र क्रियते त्वया
॥१२९॥नूनं न चैषां जननी त्वं संज्ञा क्वापि सा गता ॥
विकलेष्वप्यपत्येषु न माता शापदा भवेत्
॥१३०॥अपि दोषसहस्राणि यदि पुत्रः समाचरेत् ॥
प्राणद्रोहेऽपि निरतो न माता पापमाचरेत् ॥
तस्मात्सत्यं मम ब्रूहि मा शापवशगा भव
॥१३१॥ईश्वर उवाच
तं शप्तुमुद्यतं दृष्ट्वा छायासंज्ञा दिनाधिपम् ॥
भयेन कंपती देवी यथावृत्तं महासती
॥१३२॥सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ॥
पत्नी तव त्वया पत्या पतियुक्ता दिवाकर
॥१३३॥इत्थं विवस्वतः सा तु बहुशः पृच्छतोऽन्यथा ॥
न वाचा भाषते क्रुद्धः शापं दातुं समुद्यतः
॥१३४॥शापोद्यतकरं दृष्ट्वा सूर्यं छाया विवस्वतः ॥
कथयामास तत्सर्वं संज्ञायाः सुविचेष्टितम्
॥१३५॥तच्छ्रुत्वा भगवान्सूर्यो जगाम त्वष्टुरालयम् ॥
ततः संपूजयामास तदा त्रैलोक्यपूजितम्
॥१३६॥निर्दग्धुकामं रोषेण सान्त्वयामास पार्वति ॥
भास्वंतं निजया दीप्त्या निजगेहमुपागतम् ॥
क्व संज्ञेति च पृच्छन्तं कथयामास विश्वकृत्
॥१३७॥विश्वकर्म्मोवाच
आगतैव हि मे वेश्म भवता श्रूयतां वचः ॥
विख्यातं तेजसाऽऽढ्यं त इदं रूपं सुदुःसहम्
॥१३८॥असहन्ती ततः संज्ञा वने चरति वै तपः ॥
द्रक्ष्यसे तां भवानद्य स्वभार्यां शुभचारिणीम्
॥१३९॥रूपार्थं चरतेऽरण्यं चरंती सुमहत्तपः ॥
मतं मे ब्रह्मणो वाक्याद्यदि ते देव रोचते ॥
रूपं निर्वर्त्तयाम्यद्य तव कांतं दिवस्पते
॥१४०॥ईश्वर उवाच
यतो हि भास्वतो रूपं प्रागासीत्परिमंडलम् ॥
ततस्तथेति तं प्राह त्वष्टारं भगवान्रविः
॥१४१॥विश्वकर्मात्वनुज्ञातः शाकद्वीपे विवस्वता ॥
भृ(भू?)मिमारोप्य तत्तेजः शातनायोपचक्रमे
॥१४२॥भ्रमताऽशेषजगतामधिभूतेन भास्वता ॥
समुद्रा द्रविणोपेताश्चुक्षुभुश्च समन्ततः
॥१४३॥भ्रमता खलु देवेशि सचंद्रग्रहतारकम् ॥
अधोगति महाभागे बभूवाक्षिप्तमाकुलम्
॥१४४॥विक्षिप्तसलिलाः सर्वे बभूवुश्च तथा नदाः ॥
व्यभिद्यंत तथा शैलाः शीर्णसानुनिबंधनाः
॥१४५॥ध्रुवाधाराण्यशेषाणि धिष्ण्यानि वरवर्णिनि ॥
भ्राम्यद्रश्मिनिबद्धानि अधो जग्मुः सहस्रशः
॥१४६॥व्यशीर्यंत महामेघा घोरारावविराविणः ॥
भास्वद्भ्रमणविभ्रांतभूम्याकाशमहीतलम्
॥१४७॥जगदाकुलमत्यर्थं तदाऽऽसीद्वरवर्णिनि ॥
त्रैलोक्ये सकले देवि भ्रममाणे महर्षर्यः ॥
देवाश्च ब्रह्मणा सार्द्धं भास्वंतमभितुष्टुवुः
॥१४८॥देवा ऊचुः
आदिदेवोऽसि देवानां जातमेतत्स्वयं तव ॥
सर्गस्थित्यंतकालेषु त्रिधा भेदेन तिष्ठसि
॥१४९॥स्वस्ति तेऽस्तु जगन्नाथ घर्मवर्षहिमाकर ॥
इंद्र आगम्य तं देवं लिख्यमानमथास्तवीत् ॥
जय देव जगत्स्वामिञ्जय देव जगत्पते
॥१५॥ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥
तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीति वादिनः ॥
वेदोक्तिभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः
॥१५१॥वालखिल्या ऊचुः
नमस्त ऋक्स्वरूपाय सामरूपाय ते नमः ॥
यजुःस्वरूपरूपाय साम्नां धामग ते नमः
॥१५२॥ज्ञानैकरूपदेहाय निर्धूततमसे नमः ॥
शुद्धज्योतिःस्वरूपाय त्रिमूर्तायामलात्मने
॥१५३॥वरिष्ठाय वरेण्याय सर्वस्मै परमात्मने ॥
नमोऽखिलजगद्व्यापिरूपायानंतमूर्त्तये
॥१५४॥सर्वकारणभूताय निष्ठाय ज्ञान चेतसाम् ॥
नमः सूर्यस्वरूपाय प्रकाशालक्ष्यरूपिणे
॥१५५॥भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥
सर्वस्मै हेतवे चैव संध्याज्यो त्स्नाकृते नमः
॥१५६॥त्वं सर्वमेतद्भगवञ्जगच्च भ्रमता त्वया ॥
भ्रमत्याविश्वमखिलं ब्रह्मांडं सचराचरम् ॥
त्वदंशुभिरिदं सर्वं स्पृष्टं वै जायते शुचि
॥१५७॥क्रियते त्वत्करस्पर्शैर्जलादीनां पवित्रता
॥१५८॥होमदानादिको धर्मो नोपकाराय जायते ॥
तात यावन्न संयोगि जगदेतत्त्वदंशुभिः
॥१५९॥ऋचस्ते सकला ह्येतास्तथा यानि यजूंषि च ॥
सकलानि च सामानि निपतंति त्वदंगतः
॥१६०॥ऋङ्मयस्त्वं जगन्नाथ त्वमेव च यजुर्मयः ॥
यतः साममयश्चैव ततो नाथ त्रयीमयः
॥१६१॥त्वमेव ब्रह्मणो रूपं परं चापरमेव च ॥
मूर्त्तामूर्त्तं तथा सूक्ष्मं स्थूलं रूपेण संस्थितः
॥१६२॥निमेषकाष्ठादिमयः कालरूपक्षणात्मकः ॥
प्रसीद स्वेच्छया रूपं स्वं तेजः शमनं कुरु ॥
त्वं देव जगतां हेतोर्दुःखं सहसि दुःसहम्
॥१६३॥त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यायतां वरः ॥
त्वं गतिः सर्वभूतानां कर्मकांडनिवर्तिनाम्
॥१६४॥शं प्रजाभ्योऽस्तु देवेश शन्नोऽस्तु जगतांपते
॥१६५॥त्वं धाता विसृजसि विश्वमेक एव त्वं पाता स्थितिकरणाय संप्रवृत्तः ॥
त्वय्यंते लयमखिलं प्रयाति चैतत्त्वत्तोन्यो न हि तपनास्ति सर्वदाता
॥१६६॥त्वं ब्रह्मा हरिहरसंज्ञितस्त्वमिन्द्रो वित्तेशः पितृपितरंबुपः समीरः ॥
सोमोऽग्निर्गगनमहाधरादिरूपः किं न त्वं सकलमनोरथप्रदाता
॥१६७॥यज्ञैस्त्वामनुदिनमात्मकर्म्मसक्ताः स्तुवन्तो विविधपदैर्द्विजा यजंति ॥
ध्यायन्तः सविनयचेतसो भवन्तं योगस्थाः परमपदं प्रयांति मर्त्त्या
॥१६८॥तपसि पचसि विश्वं पासि भस्मीकरोषि प्रकटयसि मयूखैर्ह्लादयतस्यंशुगर्भैः ॥
सृजसि कमलजन्मा पालयस्यच्युताख्यः क्षपयसि च युगांते रुद्ररूपस्त्वमेकः
॥१६९॥ईश्वर उवाच
लिखमानस्ततो भानुं विश्वकर्मा प्रजापतिः ॥
उद्भूतपुलकः स्तोत्रमिदंचक्रे विवस्वतः
॥१७॥विवस्वते प्रणतजनानुकम्पिने महात्मने समजवसप्तसप्तये ॥
सतेजसे कमलकुलालिबंधवे सदा तमःपटलपटावपाटिने
॥१७१॥पावनातिशयसर्वचक्षुषे नैककामविषयप्रदायिने ॥
भासुरामलमयूखमालिने सर्वभूतहितकारिणे नमः
॥१७२॥अजाय लोकत्रयभावनाय भूतात्मने गोपतये वृषाय ॥
नमो महाकारुणिकोत्तमाय सूर्याय वस्तुप्रभवालयाय
॥१७३॥विवस्वते ज्ञानभृतेऽन्तरात्मने जगत्प्रतिष्ठाय जगद्धितैषिणे ॥
स्वयंभुवे निर्मललोकचक्षुषे सुरोत्तमायामिततेजसे नमः
॥१७४॥क्षणमुदयाचलभालितार्च्चिः सुरगणगीतिगरिष्ठगीतः ॥
त्वमुत मयूखसहस्रवज्जगति विकासितपद्मनाभः
॥१७५॥तव तिमिरासवपानमदाद्भवति विलोहितविग्रहता ॥
मिहिरविभासतया सुतरां त्रिभुवनभावनमात्रपरः
॥१७६॥रथमारुह्य समावयवं रुचिरविकलितदिव्यहयम् ॥
सततमरिबले भगवंश्चरसि जगद्धितबद्धरसः
॥१७७॥अमृतमयेन रसेन समं विबुधपितॄनपि तर्प्पयसे ॥
अरिगणसूदन तेन तव प्रणतिमुपेत्य लिखामि वपुः
॥१७८॥शुभसमवर्णमयं रचितं तव पदपांसुपवित्रतमम् ॥
नतजनवत्सल मां प्रणतं त्रिभुवनपावन पाहि रवे
॥१७९॥इति सकलजगत्प्रसूति भूतं त्रिभुवनभावनधामहेतुमेकम् ॥
रविमखिलजगत्प्रदीपभूतं त्रिदशवरं प्रणतोऽस्मि देवदेवम्
॥१८०॥ईश्वर उवाच
हाहाहूहश्च गन्धर्वो नारदस्तुंबरुस्तथा ॥
उपगातुं समारब्धा गांधर्वकुशला रविम्
॥१८१॥षड्जमध्यमगांधारग्रामत्रयविशारदाः ॥
मूर्छनाभिश्च तानैश्च सुप्रयोगैः सुखप्रदम्
॥१८२॥सप्तस्वरविनिर्वृत्तं यतित्रयविभूषितम् ॥
सप्तधातुसमायुक्तं षड्जाति त्रिगुणाश्रयम्
॥१८३॥चतुर्गीतसमायुक्तं चतुवर्णसमुत्थितम् ॥
चतुर्वर्णप्रतीकारं सप्तालंकारभूषितम्
॥१८४॥त्रिस्थानशुद्धं त्रिलयं सम्यक्कालव्यवस्थितम् ॥
चित्ते चित्ते च नृत्ये च रसेषु लयसंयुतम्
॥१८५॥चतुर्विंशद्गुणैर्युक्तं जगुर्गीतं च गायनाः ॥
विश्वार्ची च घृताची च उर्वश्यथ तिलोत्तमा
॥१८६॥मेनका सहजन्या च रंभा चाप्सरसां वरा ॥
चतुर्विधपदं तालं त्रिप्रकारं लयत्रयम्
॥१८७॥यतित्रयं तथाऽऽतोद्यं नाट्यं चैव चतुर्विधम् ॥
ननृतुर्जगतामीशे लिख्यमाने विभावसौ
॥१८८॥भावान्भावविशारद्यः कुर्वन्त्यो विधिवद्बहून् ॥
देवदुन्दुभयः शंखाः शतशोऽथ सहस्रशः
॥१८९॥अनाहता महादेवि नेदिरे घननिस्वनाः ॥
गायद्भिश्चैव गंधर्वैर्नृत्यद्भिश्चाप्सरोगणैः
॥१९०॥अवाद्यंत ततस्तत्र वेणुवीणादिझर्झराः ॥
पणवाः पुष्कराश्चैव मृदंगपटहानकाः
॥१९१॥तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ॥
ततः कृतांजलिपुटा भक्तिनम्रात्ममूर्त्तयः
॥१९२॥ततः कलकले तस्मिन्सर्वदेवसमागमे ॥
संवत्सरं भ्रमस्थस्य विश्वकर्मा रवेस्ततः
॥१९३॥तेजसः शातनं चक्रे स्तूयमानस्य दैवतैः ॥
देवं चक्रे समारोप्य भ्रामयामास सूत्रभृत्
॥१९४॥मृत्पिंडवत्कुलालस्य संस्पृशन्क्षुरधारया ॥
पतंगस्य स्तवं कुर्वन्विश्वकर्मा दिवस्पतेः
॥१९५॥तेजसः षोडशं भागं मण्डलस्थमधारयत् ॥
शातितं तस्य तत्तेजो यावत्पादौ वरानने
॥१९६॥यत्तस्य ऋङ्मयं तेजस्तत्प्रभासेऽपतत्प्रिये ॥
यजुर्मयेन देवेशि भाविता द्यौर्महाप्रभोः
॥१९७॥स्वर्गं साममयेनापि भूर्भुवःस्वरितिस्थितम् ॥
ततस्तैस्तेजसो भागैर्दशभिः पंचभिस्तथा
॥१९८॥तेन वै निर्मितं चक्रं विष्णोः शूलं हरस्य च ॥
महाप्रभं महाकायं शिबिका धनदस्य च
॥१९९॥दण्डः प्रेतपतेः शक्तिर्देवसेनापतेस्तथा ॥
अन्येषां च सुराणां च अस्त्राण्युक्तानि यानि वै
॥२००॥यक्षविद्याधराणां च तानि चक्रे स विश्वकृत् ॥
ततः षोडशमं भागं बिभर्त्ति भगवान्रविः ॥
तत्तेजो रविभागश्च खस्थो विचरति प्रिये
॥२०१॥इति शातिततेजाः स श्वशुरेणातिशोभनम् ॥
वपुर्दधार मार्त्तंडः पुष्पबाणमनोरमम्
॥२०२॥ततः सुरूप धृग्भानुरुत्तरानगमत्कुरून् ॥
ददृशे तत्र संज्ञां तु वडवारूपधारिणीम् ।
अपापां सर्वभूतानां तपसा नियमेन च ॥
सा च दृष्ट्वा तमायांतं परपुंसो विशंकया ॥
जगाम संमुखं तस्य अश्वरूपधरस्य च
॥२०४॥ततश्च नासिकायोगे तयोस्तत्र समेतयोः ॥
नासत्यदस्रौ तनयावश्ववक्त्रौ विनिर्गतौ
॥२०५॥रेतसोन्ते च रेवन्तः खड्गी छत्री तनुत्रभृत् ॥
पितुर्गृह्योत्तमं सोऽश्वं जातमात्रः पलायत
॥२०६॥स तस्मिन्सकृदारूढस्तमश्वं नैव मुंचति ॥
ततोर्केण समादिष्टौ दंडनायकपिंगलौ
॥२०७॥अश्वं प्रत्यानयध्वं मे मा बलाच्छिद्रतोऽस्यतु ॥
पार्श्वस्थौ तिष्ठतस्तस्य अश्वच्छिद्राभिकांक्षिणौ
॥२०८॥न च च्छिद्रं लभेते तौ तस्याद्यापि महात्मनः ॥
अग्रे गच्छति रेवंते पृष्ठगौ दण्डपिंगलौ
॥२०९॥उत्तरेभ्यः कुरुभ्यस्तु निर्गतौ वेगवत्तरौ ॥
दक्षिणं भारतं प्राप्तौ यत्र क्षेत्र प्रभासिकम्
॥२१॥अत्यर्थं वेगखिन्नौ तौ स च रेवंतकोऽपि हि ॥
प्रस्विन्नगात्रः सोच्छ्वासो रेवंतस्तत्र संस्थितः
॥२११॥मुहूर्तेन समाक्रान्तं लक्षयोजनमंडलम् ॥
उत्तराद्दक्षिणं देवि रेवतेन महात्मना
॥२१२॥स्विन्नगात्रस्ततो देवि प्रभासे समवस्थितः ॥
दण्डपिंगलकसंयुक्तो ह्यश्वारूढः स तिष्ठति
॥२१३॥सावित्र्या नैर्ऋते भागे नातिदूरे व्यवस्थितः ॥
राज्ञीपुत्रो यतो देवि राजा भट्टारकस्ततः
॥२१४॥लोके ख्यातिं समायाति राजभट्टारिकेति च ॥
गुह्यभट्टारकत्वे च रेवंतो विनियोजितः
॥२१५॥एवमभ्येत्याह ततो भगवाँल्लोकतापनः ॥
त्वमप्यशेषलोकस्य पूज्यो वत्स भविष्यसि
॥२१६॥अरण्ये च महादावे वैरिदस्युभयेषु च ॥
त्वां स्मरिष्यंति ये मर्त्त्या मोक्ष्यन्ते ते महापदः
॥२१७॥क्षेममृद्धिं सुखं राज्यमारोग्यं कीर्तिमुन्नतिम् ॥
नराणामतितुष्टस्त्वं पूजितः संप्रदास्यसि
॥२१८॥अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ॥
धर्मदृष्टिर्यमश्चासौ समो मित्रे तथाऽहिते
॥२१९॥ततो नियोगं तं चास्य चकार तिमिरापहः ॥
यमुनां च नदीं चक्रे कलिन्दान्तरवाहिनीम्
॥२२०॥छायासंज्ञासुतश्चापि सावर्णिस्तु महायशाः ॥
भाव्यः सोनागते काले मनुः सावर्णिकोष्टमः
॥२२१॥मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ॥
भ्राता शनैश्चरस्तस्य ग्रहोऽभूच्च प्रिये ध्रुवम्
॥२२२॥एवं तेभ्यो वरान्दत्त्वा रेवंतस्यापि भास्करः ॥
पुनर्नाम निरुक्तं स रेवंतस्याकरोत्प्रमुः
॥२२३॥एवंगच्छत्यसौ यस्मात्संज्ञायाः शांतिदः सुतः ॥
अश्वानामाधिपत्ये तु भानुना च नियोजितः
॥२२४॥क्षेमेण गच्छतेऽध्वानं यस्तु पूजयते पथि ॥
सुखप्रसाद्यो मर्त्त्यानां सदा च वरवर्णिनि
॥२२५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये राजभट्टारकोत्पत्तिवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥