सूर्यप्राचीमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि सूर्यप्राचीं महाप्रभाम् ॥
सर्वपापोपशमनीं सर्वकामफलप्रदाम्
॥१॥तत्र स्नात्वा महादेवि मुच्यते पञ्चपातकैः
॥२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सूर्यप्राचीमाहात्म्यवर्णनंनाम चतुःसप्त त्युत्तरद्विशततमोऽध्यायः ॥ २७४ ॥