मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ८२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 82

चक्रतीर्थोत्पत्तिवृत्तान्तमाहात्म्यवर्णनम्

देव्युवाच

चक्रतीर्थेति किं नाम त्वया प्रोक्तं वृषध्वज ॥

कुत्र तिष्ठति तत्तीर्थं किं प्रभावं वदस्व मे

॥१॥

ईश्वर उवाच

पुरा देवासुरे युद्धे हत्वा दैत्याञ्जनार्द्दनः ॥

चक्रं प्रक्षालयामास तत्र वै रक्तरंजितम्

॥२॥

अष्टकोटिसुतीर्थानि तत्रानीय स्वयं हरिः ॥

तीर्थे प्रकल्पयामास शुद्धिं कृत्वा सुदर्शने ॥

तीर्थस्य चक्रे नामापि चकतीर्थमिति श्रुतम्

॥३॥

अष्टायुतानि तीर्थानामष्टौ कोट्यस्तथैव च ॥

तत्र संति महादेवि चक्रतीर्थे न संशयः

॥४॥

यस्तत्र कुरुते स्नानमेकचित्तो नरोत्तमः ॥

सर्वतीर्थाभिषेकस्य स प्राप्नोत्यखिलं फलम्

॥५॥

तीर्थानामष्टकोटिस्तु निवसंति वरानने ॥

एकादश्यां विशेषेण चन्द्रसूर्यग्रहे तथा

॥६॥

तत्र स्नात्वा महादेवि यज्ञकोटिफलं लभेत् ॥

तस्यैव कल्पनामानि शृणु ते कथयाम्यहम्

॥७॥

कोटितीर्थं पूर्वकल्पे श्रीनिधानं द्वितीयके ॥

तृतीये शतधारं च चक्रतीर्थं चतुर्थके

॥८॥

एवं ते कल्पनामानि ह्यतीतान्यखिलानि वै ॥

कथितान्येवमन्यानि ज्ञेयानि विबुधैः क्रमात्

॥९॥

तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥

अर्द्धक्रोशप्रमाणं हि विष्णुक्षेत्रं प्रकीर्त्तितम्

॥१०॥

ब्रह्महत्या नोपसर्पेत्सत्यमेतन्मयोदितम् ॥

मासोपवासी तत्क्षेत्रे अग्निहोत्री यतव्रतः

॥११॥

स्वाध्यायी यज्ञयाजी च तपश्चांद्रायणा दिकम् ॥

तिलोदकं पितॄणां च श्राद्धं च विधिपूर्वकम्

॥१२॥

एकरात्रं त्रिरात्रं वा कृच्छ्रं सांतपनं तथा ॥

मासोपवासं तच्चैव अन्यद्वा पुण्यकर्म तत्

॥१३॥

दैत्यारिक्षेत्रमासाद्य यत्किंचित्कुरुते नरः ॥

अन्यक्षेत्रात्कोटिगुणं पुण्यं भूयान्न संशयः

॥१४॥

सुदर्शने वरे तीर्थे गोदानं तत्र दापयेत् ॥

सम्यग्यात्राफलप्रेप्सुः सर्वपापविशुद्धये

॥१५॥

चंडालः श्वपचो वाऽपि तिर्यग्योनिगतस्तथा ॥

तस्मिंस्तीर्थे मृतः सम्यगाच्युतं लोकमाप्नुयात्

॥१६॥

इति संक्षेपतः प्रोक्तं चक्रतीर्थसमुद्भवम् ॥

माहात्म्यं सर्वपापघ्नं सर्वकामफलप्रदम्

॥१७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दैत्यसूदन माहात्म्यप्रसंगेन चक्रतीर्थोत्पत्तिवृत्तान्तमाहात्म्यवर्णनंनाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥