सिद्धेश्वरोत्पत्तिवर्णनम्
देव्युवाच
यदेतद्भवता प्रोक्तं माहात्म्यं सूर्यदैवतम् ॥
तन्मे विस्तरतो ब्रूहि देवदेव जगत्पते
॥१॥कथमर्कस्थलो भूतः प्रभासक्षेत्रभूषणः ॥
पूजनीयो महादेवः सम्यग्यात्राफलेप्सुभिः
॥२॥के मंत्राः किं विधानं तु केषु पर्वसु पूजयेत् ॥
जैगीषव्येश्वरो भूत्वा ह्यभूत्सिद्धेश्वरः कथम् ॥
तन्मे कथय देवेश विस्तरात्सर्वमेव हि
॥३॥पाताले विवरं तत्र योगिन्यस्तत्र किं पुरा ॥
तथा मातृगणश्चैव कथमेतदभूत्पुरा
॥४॥एतत्सर्वमशेषेण दयां कृत्वा जगत्पते ॥
ममाचक्ष्व विरूपाक्ष यद्यहं ते प्रिया हर
॥५॥ईश्वर उवाच
साधु पृष्टं त्वया देवि कथयामि समासतः ॥
सिद्धेश्वरो ह्यभूद्येन जैगीषव्येश्वरो हरः
॥६॥पूजाविधानं विस्तीर्य तन्मे निगदतः शृणु ॥
आसीदस्मिन्कृते देवि सर्व ज्ञानविशारदः
॥७॥पुत्रः शतकलाकस्य जैगीषव्य इति श्रुतः ॥
प्रभासक्षेत्रमासाद्य स चक्रे दुश्चरं तपः
॥८॥अतिष्ठद्वायुभक्षश्च वर्षाणां शतकं किल ॥
अम्बुभक्षः सहस्रं तु शाकाहारोऽयुतं तथा
॥९॥चांद्रायणसहस्रं च कृतं सांतपनं पुनः ॥
शोषयित्वा मिताहारो दिग्वासाः समपद्यत
॥१०॥पूर्वे कल्पे स्वयं भूतं महोदयमिति श्रुतम् ॥
स लिंगं देवदेवस्य प्रतिष्ठाप्यार्चयन्नपि
॥११॥भस्मशायी भस्मदिग्धो नृत्त गीतैरतोषयत् ॥
जपेन वृषनादैश्च तपसा भावितः शुचिः
॥१२॥तमेवं तोषयाणं तु भक्त्या परमया युतम् ॥
भगवांश्च तमभ्येत्य इदं वचनमब्रवीत्
॥१३॥जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा ॥
तुष्टोऽस्मि वरदश्चाहं ब्रूहि यत्ते मनोगतम्
॥१४॥स एवमुक्तो देवेन देवं दृष्ट्वा त्रिलोचनम् ॥
प्रणम्य शिरसा पादाविदं वचनमब्रवीत्
॥१५॥जैगीषव्य उवाच
भगवन्देवदेवेश मम तुष्टो यदि प्रभो ॥
ज्ञानयोगं हि मे देहि यः संसारनिकृन्तनम्
॥१६॥भगवन्नान्यदिच्छामि योगात्परतरं हितम् ॥
त्वयि भक्तिश्च नित्यं मे देव्यां स्कन्दे गणेश्वरे
॥१७॥न च व्याधिभयं भूयान्न च तेजोऽपमानता ॥
अनुत्सेकं तथा क्षांतिं दमं शममथापि च
॥१८॥एतान्वरान्महादेव त्वदिच्छामि त्रिलोचन
॥१९॥ईश्वर उवाच
अजरश्चामरश्चैव सर्वशोकविवर्जितः ॥
महायोगी महावीर्यो योगैश्वर्यसमन्वितः
॥२०॥प्रभावाच्चास्य क्षेत्रस्य गुह्यस्य मम शाश्वतम् ॥
योगाष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत्
॥२१॥भविष्यसि मुनिश्रेष्ठ योगाचार्यः सुविश्रुतः
॥२२॥यश्चेदं त्वत्कृतं लिगं नियमेनार्चयिष्यति ॥
सर्वपापविनिर्मुक्तो योगं दिव्यमवाप्स्यति
॥२३॥जैगीषव्यगुहां चेमां प्राप्य योगं करोति यः ॥
स सप्तरात्राद्युक्तात्मा संसारं संतरिष्यति
॥२४॥मासेन पूर्वजातिं च जन्मातीतं च वेत्स्यति ॥
एकरात्रात्तनुं शुद्धां द्वाभ्यां तारयते पितॄन् ॥
त्रिरात्रेण व्यतीतेन त्वपरान्सप्त तारयेत्
॥२५॥पुनश्च तव विप्रर्षे अजेयत्वं च योगिभिः ॥
इच्छतो दर्शनं चैव भविष्यति च ते मम
॥२६॥इति देवो वरान्दत्त्वा तत्रैवांतरधीयत ॥
एतत्कृतयुगे वृत्तं तव देवि प्रभाषितम्
॥२७॥त्रेतायुगे महादेवि द्वापरेऽपि तथैव च ॥
कलियुगप्रवेशे तु वालखिल्या महर्षयः
॥२८॥अस्मिन्प्राभासिके क्षेत्रे सूर्यस्थलसमीपतः ॥
आराधयंतो देवेशं गुहामध्यनिवासिनम्
॥२९॥अष्टाशीतिसहस्राणि ऋषयश्चोर्द्धरेतसः ॥
वर्षायुतं तपस्तप्त्वा सिद्धिं जग्मुस्तदात्मिकाम्
॥३०॥ततः सिद्धेश्वरं लिंगं कलौ ख्यातं वरानने ॥
यदा सोमेन संयुक्ता कृष्णा शिवचतुर्दशी ॥
तदैव तस्य देवस्य दर्शनं देवि दुर्ल्लभम्
॥३१॥ब्रह्मांडं सकलं दत्त्वा यत्पुण्यमुपजायते ॥
तत्पुण्यं लभते देवि सिद्धलिंगस्य पूजनात्
॥३२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरोत्पत्तिवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥