मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १६६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 166

सावित्रीव्रतविधिपूजनप्रकारोद्यापनादिकथनम्

देव्युवाच

प्रभासे संस्थिता या तु सावित्री ब्रह्मणः प्रिया ॥

तस्याश्चरित्रं मे ब्रूहि देवदेव जगत्पते

॥१॥

व्रतमाहात्म्यसंयुक्तमितिहाससमन्वितम् ॥

पाति व्रत्यकरं स्त्रीणां महाभाग्यं महोदयम्

॥२॥

ईश्वर उवाच

कथयामि महादेवि सावित्र्याश्चरितं महत् ॥

प्रभासक्षेत्रसंस्थायाः स्थल स्थाने महेश्वरि ॥

यथा चीर्णं व्रतकरं सावित्र्या राजकन्यया

॥३॥

आसीन्मद्रेषु धर्मात्मा सर्वभूतहिते रतः ॥

पार्थिवोऽश्वपतिर्नाम पौरजानपद प्रियः

॥४॥

क्षमावाननपत्यश्च सत्यवादी जितेन्द्रियः ॥

प्रभासक्षेत्रयात्रायामाजगाम स भूपतिः ॥

यात्रां कुर्वन्विधानेन सावित्रीस्थलमागतः

॥५॥

स सभार्यो व्रतमिदं तत्र चक्रे नृपः स्वयम् ॥

सावित्रीति प्रसिद्धं यत्सर्वकामफलप्रदम्

॥६॥

तस्य तुष्टाऽभवद्देवि सावित्री ब्रह्मणः प्रिया ॥

भूर्भुवःस्वरितीत्येषा साक्षान्मूर्तिमती स्थिता

॥७॥

कमंडलुधरा देवी जगामादर्शनं पुनः ॥

कालेन वहुना जाता दुहिता देवरूपिणी

॥८॥

सावित्र्या प्रीतया दत्ता सावित्र्याः पूजया तथा ॥

सावित्रीत्येव नामाऽस्याश्चक्रे विप्राज्ञया नृपः

॥९॥

सा विग्राहवतीव श्रीः प्रावर्धत नृपात्मजा ॥

सावित्री सुकुमारांगी यौवनस्था बभूव ह

॥१०॥

या सुमध्या पृथुश्रोणी प्रतिमा काञ्चनी यथा ॥

प्राप्तेयं देवकन्या वा दृष्ट्वा तां मेनिरे जनाः

॥११॥

सा तु पद्मा विशालाक्षी प्रज्वलतीव तेजसा ॥

चचार सा च सावित्री व्रतं यद्भृगुणोदितम्

॥१२॥

अथोपोष्य शिरःस्नाता देवतामभिगम्य च ॥

हुत्वाग्निं विधिवद्विप्रान्वाचयेद्वरवर्णिनी

॥१३॥

तेभ्यः सुमनसः शेषां प्रतिगृह्य नृपात्मजा ॥

सखीपरिवृताऽभ्येत्य देवी श्रीवत्सरूपिणी

॥१४॥

साऽभिवाद्य पितुः पादौ शेषां पूर्वं निवेद्य च ॥

कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता

॥१५॥

तां दृष्ट्वा यौवनप्राप्तां स्वां सुतां देवरूपिणीम् ॥

उवाच राजा संमन्त्र्य पुत्र्यर्थं सह मन्त्रिभिः

॥१६॥

पुत्रि प्रदानकालस्ते न हि कश्चिद्वृणोति माम् ॥

विचारयन्न पश्यामि वरं तुल्यमिहात्मनः

॥१७॥

देवादीनां यथा वाच्यो न भवेयं तथा कुरु ॥

पठ्यमानं मया पुत्रि धर्मशास्त्रेषु च श्रुतम्

॥१८॥

पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ॥

ब्रह्महत्या पितुस्तस्य सा कन्या वृषली स्मृता

॥१९॥

अतोऽर्थं प्रेषयामि त्वां कुरु पुत्रि स्वयंवरम् ॥

वृद्धैरमात्यैः सहिता शीघ्रं गच्छावधारय

॥२०॥

एवमस्त्विति सावित्री प्रोच्य तस्माद्विनिर्ययौ ॥

तपोवनानि रम्याणि राजर्षीणां जगाम सा

॥२१॥

मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् ॥

ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमाणि च

॥२२॥

आजगाम पुनर्वेश्म सावित्री सह मंत्रिभिः ॥

तत्रापश्यत देवर्षिं नारदं पुरतः शुचिम्

॥२३॥

आसीनमासने विप्रं प्रणम्य स्मितभाषिणी ॥

कथयामास तत्कार्यं येनारण्यं गता च सा

॥२४॥

सावित्र्युवाच

आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ॥

द्युमत्सेन इति ख्यातो दैवादन्धो वभूव सः

॥२५॥

आर्यस्य बालपुत्रस्य द्युमत्सेनस्य रुक्मिणा ॥

सामन्तेन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा

॥२६॥

स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्

॥२७॥

स तस्य च वने वृद्धः पुत्रः परमधार्मिकः ॥

सत्यवागनुरूपो मे भर्तेति मनसेप्सितः

॥२८॥

नारद उवाच

अहो बत महत्कष्टं सावित्र्या नृपते कृतम् ॥

बालस्वभावादनया गुणवान्सत्यवाग्वृतः

॥२९॥

सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ॥

सत्यं वदेति मुनिभिः सत्यवान्नाम वै कृतम्

॥३०॥

नित्यं चाश्वाः प्रियास्तस्य करोत्यश्वाश्च मृन्मयान् ॥

चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते

॥३१॥

सत्यवान्रंतिदेवस्य शिष्यो दानगुणैः समः ॥

ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा

॥३२॥

ययातिरिव चोदारः सोमवत्प्रियदर्शनः ॥

रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली

॥३३॥

एको दोषोऽस्ति नान्यश्च सोऽद्यप्रभृति सत्यवान् ॥

संवत्सरेण क्षीणायुर्देहत्यागं करिष्यति

॥३४॥

नारदस्य वचः श्रुत्वा दुहिता प्राह पार्थिवम्

॥३५॥

सावित्र्युवाच

सकृज्जल्पंति राजानः सकृज्जल्पंति ब्राह्मणाः ॥

सकृत्कन्या प्रदीयेत त्रीण्येतानि सकृत्सकृत्

॥३६॥

दीर्घायुरथवाल्पायुः सगुणो निर्गुणोऽपि वा ॥

सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम्

॥३७॥

मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते ॥

क्रियते कर्मणा पश्चात्प्रमाणं हि मनस्ततः

॥३८॥

नारद उवाच

यद्येतदिष्टं भवतः शीघ्रमेव विधीयताम् ॥

अविघ्नेन तु सावित्र्याः प्रदानं दुहितुस्तव

॥३९॥

एवमुक्त्वा समुत्पत्य नारूदस्त्रिदिवं गतः ॥

राजा च दुहितुः सर्वं वैवाहिकमथाकरोत् ॥

शुभे मुहूर्ते पार्श्वस्थैर्ब्राह्मणैर्वेदपारगैः

॥४०॥

सावित्र्यपि च तं लब्ध्वा भर्तारं मनसेप्तितम् ॥

मुमुदेऽतीव तन्वंगी स्वर्गं प्राप्येव पुण्यकृत्

॥४१॥

एवं तत्राश्रमे तेषां तदा निवसतां सताम् ॥

कालस्तु पश्यतां किञ्चिदतिचक्राम पार्वति

॥४२॥

सावित्र्यास्तु तदा नार्यास्तिष्ठन्त्याश्च दिवानिशम् ॥

नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते

॥४३॥

ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ॥

प्राप्तः कालोऽथ मर्तव्यो यत्र सत्यव्रतो नृपः

॥४४॥

ज्येष्ठमासे सिते पक्षे द्वादश्यां रजनीमुखे ॥

गणयंत्याश्च सावित्र्या नारदोक्तं वचो हृदि

॥४५॥

चतुर्थेऽहनि मर्तव्यमिति संचिंत्य भामिनी ॥

व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽऽश्रमे

॥४६॥

ततस्त्रिरात्रं न्यवसत्स्नात्वा संतर्प्य देवताम् ॥

श्वश्रूश्वशुरयोः पादौ ववंदे चारुहासिनी

॥४७॥

अथ प्रतस्थे परशुं गृहीत्वा सत्यवान्वनम् ॥

सावित्र्यपि च भर्तारं गच्छंतं पृष्ठतोऽन्वयात्

॥४८॥

ततो गृहीत्वा तरसा फलपुष्पसमित्कुशान् ॥

अथ शुष्काणि चादाय काष्ठभारमकल्पयत्

॥४९॥

अथ पाटयतः काष्ठं जाता शिरसि वेदना ॥

काष्ठभारं क्षणात्त्यक्त्वा वटशाखावलंबितः

॥५०॥

सावित्रीं प्राह शिरसो वेदना मां प्रबाधते ॥

तवोत्संगे क्षणं तावत्स्वप्तुमिच्छामि सुन्दरि

॥५१॥

विश्रमस्व महाबाहो सावित्री प्राह दुःखिता ॥

पश्चादपि गमिष्यामि ह्याश्रमं श्रमनाशनम्

॥५२॥

यावदुत्संगगं कृत्वा शिरोस्य तु महीतले ॥

तावद्ददर्श सावित्री पुरुषं कृष्णपिंगलम्

॥५३॥

किरीटिनं पीतवस्त्रं साक्षात्सूर्यमिवोदितम् ॥

तमुवाचाथ सावित्री प्रणम्य मधुराक्षरम्

॥५४॥

कस्त्वं देवोऽथवा दैत्यो यो मां धर्षितुमागतः ॥

न चाहं केनचिच्छक्या स्वधर्माद्देव रोधितुम्

॥५५॥

विद्धि मां पुरुषश्रेष्ठ दीप्तामग्निशिखामिव

॥५६॥

यम उवाच

यमः संयमनश्चास्मि सर्वलोकभयंकरः

॥५७॥

क्षीणायुरेष ते भर्ता संनिधौ ते पतिव्रते ॥

न शक्यः किंकरैर्नेतुमतोऽहं स्वयमागतः

॥५८॥

एवमुक्त्वा सत्यव्रतशरीरात्पाशसंयुतः ॥

अंगुष्ठमात्रं पुरुषं निचकर्ष यमो बलात्

॥५९॥

अथ प्रयातुमारेभे पंथानं पितृसेवितम् ॥

सावित्र्यपि वरारोहा पृष्ठतोऽनुजगाम ह

॥६०॥

पतिव्रतत्वाच्चाश्रांता तामुवाच यमस्तथा ॥

निवर्त गच्छ सावित्रि मुहूर्तं त्वमिहागता

॥६१॥

एष मार्गो विशालाक्षि न केनाप्यनुगम्यते

॥६२॥

सावित्र्युवाच

न श्रमो न च मे ग्लानिः कदाचिदपि जायते ॥

भर्तारमनुगच्छन्त्या विशिष्टस्य च संनिधौ

॥६३॥

सतां सन्तो गतिर्नान्या स्त्रीणां भर्ता सदा गतिः ॥

वेदो वर्णाश्रमाणां च शिष्याणां च गतिर्गुरुः

॥६४॥

सर्वेषामेव भूतानां स्थानमस्ति महीतले ॥

भर्त्तारमेकमुत्सृज्य स्त्रीणां नान्यः समाश्रयः

॥६५॥

एवमन्यैः सुमधुरैर्वाक्यैर्धर्मार्थसंहितैः ॥

तुतोष सूर्यतनयः सावित्रीं वाक्यमब्रवीत्

॥६६॥

यम उवाच

तुष्टोऽस्मि तव भद्रं ते वरं वरय भामिनि ॥

सापि वव्रे च राज्यं स्वं विनयावनतानना

॥६७॥

चक्षुःप्राप्तिं तथा राज्यं श्वशुरस्य महात्मनः ॥

पितुः पुत्रशतं चैव पुत्राणां शतमात्मनः

॥६८॥

जीवितं च तथा भर्तुर्धर्मसिद्धिं च शाश्वतीम् ॥

धर्मराजो वरं दत्त्वा प्रेषयामास तां ततः

॥६९॥

अथ भर्तारमासाद्य सावित्री हृष्टमानसा ॥

जगाम स्वाश्रमपदं सह भर्त्रा निराकुला

॥७०॥

ज्येष्ठस्य पूर्णिमायां च तया चीर्णं व्रतं त्विदम् ॥

माहात्म्यतोऽस्य नृपतेश्चक्षुःप्राप्तिरभूत्पुरः

॥७१॥

ततः स्वदेशराज्यं च प्राप निष्कण्टकं नृपः ॥

पितास्याः पुत्रशतकं सा च लेभे सुताञ्छतम्

॥७२॥

एवं व्रतस्य माहात्म्यं कथितं सकलं मया

॥७३॥

देव्युवाच

कीदृशं तद्व्रतं देव सावित्र्या चरितं महत् ॥

तस्मिंस्तु ज्येष्ठमासे हि विधानं तस्य कीदृशम्

॥७४॥

का देवता व्रते तस्मिन्के मन्त्राः किं फलं विभो ॥

विस्तरेण महेश त्वं ब्रूहि धर्मं सनातनम्

॥७६॥

ईश्वर उवाच

श्रूयतां देवदेवेशि सावित्रीव्रतमा दरात् ॥

कथयामि यथा चीर्णं तया सत्या महेश्वरि

॥७६॥

त्रयोदश्यां तु ज्येष्ठस्य दन्तधावनपूर्वकम् ॥

त्रिरात्रं नियमं कुर्यादुपवासस्य भामिनि

॥७७॥

अशक्तस्तु त्रयोदश्यां नक्तं कुर्याज्जितेन्द्रियः ॥

अयाचितं चतुर्दश्यां ह्युपवासेन पूर्णिमाम्

॥७८॥

नित्यं स्नात्वा तडागे वा महानद्यां च निर्झरे ॥

पांडुकूपे तु सुश्रोणि सर्वस्नानफलं लभेत्

॥७९॥

विशेषात्पूर्णिमायां तु स्नानं सर्षपमृज्जलैः

॥८०॥

गृहीत्वा वालुकं पात्रे प्रस्थमात्रे यशस्विनि ॥

अथवा धान्यमादाय यवशालितिलादिकम्

॥८१॥

ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टिते ॥

सावित्रीप्रतिमां कृत्वा सर्वावयवशोभिताम्

॥८२॥

सौवर्णीं मृन्मयीं वापि स्वशक्त्या दारुनिर्मिताम् ॥

रक्तवस्त्रद्वयं दद्यात्सावित्र्या ब्रह्मणः सितम्

॥८३॥

सावित्रीं ब्रह्मणा सार्धमेवं शक्त्या प्रपूजयेत् ॥

गन्धैः सुगन्धपुष्पैश्च धूपनैवेद्यदीपकैः

॥९४॥

पूर्णकोशातकैः पक्वैः कूष्माण्डकर्कटीफलैः ॥

नालिकेरैः सखर्जूरैः कपित्थैर्दाडिमैः शुभैः

॥८५॥

जंबूजंबीरनारिंगैरक्षोटैः पनसैस्तथा ॥

जीरकैः कटुखण्डैश्च गुडेन लवणेन च

॥८६॥

विरूढैः सप्तधान्यैश्च वंशपात्रप्रकल्पितैः ॥

रंजयेत्पट्टसूत्रैश्च शुभैः कुंकुमकेसरैः

॥८७॥

अवतारं करोत्येवं सावित्री ब्रह्मणः प्रिया

॥८८॥

तामर्च्चयीत मन्त्रेण सावित्र्या ब्रह्मणा समम् ॥

इतरेषां पुराणोक्तो मंत्रोऽयं समुदाहृतः

॥८९॥

ओंकारपूर्वके देवि वीणापुस्तकधारिणि ॥

वेदांबिके नमस्तुभ्यमवैधव्यं प्रयच्छ मे

॥९०॥

एवं संपूज्य विधिवज्जागरं तत्र कारयेत् ॥

गीतवादित्रशब्देननरनारीकदंबकम् ॥

नृत्यद्धसन्नयेद्रात्रिं नृत्यशास्त्रविशारदैः

॥९१॥

सावित्र्याख्यानकं चापि वाचयीत द्विजोत्तमान् ॥

यावत्प्रभातसमयं गीतभावरसैः सह

॥९२॥

विवाहमेवं कृत्वा तु सावित्र्या ब्रह्मणा सह ॥

परिधाप्य सितैर्वस्त्रैर्दंपतीनां तु सप्तकम्

॥९३॥

गृहदानं प्रदातव्यं सर्वोपस्करसंयुतम् ॥

ब्राह्मणे वेदविदुषे सावित्रीं विनिवेदयेत्

॥९४॥

अथ सावित्रीकल्पज्ञे सावित्र्याख्यानवाचके ॥

दैवज्ञे ह्युञ्छवृत्तिस्थे दरिद्रे चाग्निहोत्रिणि

॥९५॥

एवं दत्त्वा विधानेन तस्यां रात्रौ निमन्त्रयेत् ॥

पौर्णमास्यां वटाधस्ताद्दंपतीनां चतुर्दश

॥९६॥

ततः प्रभातसमये उषःकाल उपस्थिते ॥

भक्ष्यभोज्यादिकं सर्वं सावित्रीस्थलमानयेत्

॥९७॥

पाकं कृत्वा तु शुचिना रक्षां कृत्वा प्रयत्नतः ॥

ब्राह्मणान्गृहिणीयुक्तांस्तत आह्वानयेत्सुधीः

॥९८॥

सावित्र्याः स्थलके तत्र कृत्वा पादाभिषेचनम् ॥

सुस्नातान्ब्राह्मणांस्तत्र सभार्यानुपवेशयेत्

॥९९॥

सावित्र्याः पुरतो देवि दंपत्योर्भोजनं ददेत् ॥

तेनाहं भोजितस्तत्र भवामीह न संशय

॥१००॥

द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः ॥

लक्ष्म्याः सहायो वरदो वरांस्तस्य प्रयच्छति

॥१०१॥

सावित्र्या सहितो ब्रह्मा तृतीये भोजितो भवेत् ॥

एकैकं भोजनं तत्र कोटिभोजसमं स्मृतम्

॥१०२॥

अष्टादशप्रकारेण षड्रसीकृतभोजनम् ॥

देव्यास्तत्र महादेवि सावित्रीस्थलसन्निधौ

॥१०३॥

विधवा न कुले तस्य न वंध्या न च दुर्भगा ॥

न कन्याजननी चापि न च स्याद्भर्तुरप्रिया ॥

अष्टौ दोषास्तु नारीणां न भवंति कदाचन

॥१०४॥

तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे च भोजनम् ॥

दातव्यं सर्वदा देवि कटुनीलविवर्जितम्

॥१०५॥

न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन ॥

पंचप्रकारं मधुरं हृद्यं सर्वं सुसंस्कृतम्

॥१०६॥

घृतपूर्णापूपकाश्च बहुक्षीरसमन्विताः ॥

पूपकास्तादृशाः कार्या द्वितीयाऽशोकवर्तिका

॥१०७॥

तृतीया पूपिका कार्या खर्जुरेण समन्विताः ॥

चतुर्थश्चैव संयावो गुडाज्याभ्यां समन्वितः

॥१०८॥

आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा ॥

धनधान्यजनोपेतं नारीनरशताकुलम् ॥

पूपकैस्तु कुलं तस्या जायते नात्र संशयः

॥१०९॥

न ज्वरो न च संतापो दुःखं च न वियोगजम् ॥

अशोकवर्तिदानेन कुलानामेकविंशतिः

॥११०॥

वधूभिश्च सुतैश्चैव दासीदासैरनन्तकैः ॥

पूरितं च कुलं तस्याः पूरिका या प्रयच्छति

॥१११॥

पुत्रिण्यो वै दुहितरो वधूभिः सहिताः कुले ॥

शिखरिणीप्रदात्रीणां युवतीनां न संशयः

॥११२॥

मोदते च कुलं सर्वं सर्वसिद्धिप्रपूरितम् ॥

मोदकानां प्रदानेन एवमाह पितामहः

॥११३॥

एतच्च गौरिणीनां तु भोजनं हि विशिष्यते

॥११४॥

सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता ॥

सहस्रभोजिनी देवि भवेज्जन्मनिजन्मनि

॥११५॥

पानानि चैव मुख्यानि हृद्यानि मधुराणि च ॥

द्राक्षापानं तु चिंचायाः पानं गुडसमन्वितम्

॥११६॥

सरसेन तु तोयेन कृतखण्डेन वै शुभम् ॥

सुवासिनीनां पेयं वै दातव्यं च द्विजन्मनाम्

॥११७॥

इतरैरितराण्येव वर्णयोग्यानि यानि च ॥

सुरभीणि च पानानि तासु योग्यानि दापयेत्

॥११८॥

प्रतिपूज्य विधानेन वस्त्रदानैः सकंचुकैः ॥

कुङ्कुमेनानुलिप्तांगाः स्रग्दामभिरलंकृताः ॥

गंधैर्धूपैश्च संपूज्य नालिकेरान्प्रदापयेत्

॥११९॥

नेत्राणां चाञ्जनं कृत्वा सिन्दूरं चैव मस्तके ॥

पूगीफलानि हृद्यानि वासितानि मृदूनि च ॥

हस्ते दत्त्वा सपात्राणि प्रणिपत्य विसर्जयेत्

॥१२०॥

स्वयं च भोजयेत्पश्चाद्बंधुभिर्बालकैः सह

॥१२१॥

अथवा नैव संपद्येत्तीर्थे चैव तु भोजनम् ॥

गृहे गत्वा प्रभोक्तव्यं तुष्टा देवी यथा भवेत्

॥११२॥

एवमेव पितॄणां च आगम्य स्वे च मन्दिरे ॥

पिण्डप्रदानपूर्वं तु श्राद्धं कृत्वा विधानतः ॥

पितरस्तस्य तुष्टा वै भवन्ति ब्रह्मणो दिनम्

॥१२३॥

तीर्थादष्टगुणं पुण्यं स्वगृहे ददतः शुभे ॥

न च पश्यन्ति वै नीचाः श्राद्धं दत्तं द्विजातिभिः

॥१२४॥

एकान्ते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते ॥

नीचं दृष्ट्वा हतं तत्तु पितॄणां नोपतिष्ठति

॥१२५॥

तस्मात्सर्वप्रयत्नेन श्राद्धं गुप्तं च कारयेत् ॥

पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयंभुवा

॥१२६॥

गौरीभोज्यादिका या तु उत्सर्गात्क्रियते क्रिया ॥

राजसी सा समाख्याता जनानां कीर्तिदायिनी

॥१२७॥

इदं दानं सदा देयमात्मनो हित मिच्छता ॥

श्राद्धे चैव विशेषेण यदीच्छेत्सात्त्विकं फलम्

॥१२८॥

इदमुद्यापनं देवि सावित्र्यास्तु व्रतस्य च ॥

सर्वपातकशुद्ध्यर्थं कार्यं देवि नरैः सदा ॥

अकामतः कामतो वा पापं नश्यति तत्क्षणात्

॥१२९॥

इह लोके तु सौभाग्यं धनं धान्यं वराः स्त्रियः ॥

भवंति विविधास्तेषां यैर्यात्रा तत्र वै कृता

॥१३०॥

इदं यात्राविधानं तु भक्त्या यः कुरुते नरः ॥

शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते

॥१३१॥

ज्येष्ठस्य पूर्णिमायां तु सावित्रीस्थलके शुभे ॥

प्रदक्षिणा यः कुरुते फलदानैर्यथाविधि

॥१३२॥

अष्टोत्तरशतं वापि तदर्धार्धं तदर्धकम् ॥

यः करोति नरो देवि सृष्ट्वा तत्र प्रदक्षिणाम्

॥१३३॥

अगम्यागमनं यैश्च कृतं ज्ञानाच्च मानवैः ॥

अन्यानि पातकान्येवं नश्यंते नात्र संशयः

॥१३४॥

यैर्गत्वा स्थलके संध्या सावित्र्याः समुपासिता ॥

स्वपत्न्याश्चैव हस्तेन पांडुकूपजलेन च

॥१३५॥

भृंगारकनकेनैव मृन्मयेनाथ भामिनि ॥

आनीय तु जलं पुण्यं संध्योपास्तिं करोति यः ॥

तेन द्वादशवर्षाणि भवेत्संध्या ह्युपासिता

॥१३६॥

अश्वमेधफलं स्नाने दाने दशगुणं तथा ॥

उपवासे त्वनंतं च कथायाः श्रवणे तथा

॥१३७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सावित्रीव्रतविधिपूजनप्रकारोद्यापनादिकथनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥ १६६ ॥