मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २३५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 235

लिंगत्रयमाहात्म्यवर्णनम्

ईश्वर उवाच

तत्रैव संस्थितं पश्येल्लिंगत्रयमनुत्तमम् ॥

शतमेधं सहस्रमेधं कोटिमेधमिति क्रमात्

॥१॥

दक्षिणे शतमेधं तु शतयज्ञफलप्रदम् ॥

कार्तवीर्य्येण तत्रैव कृतं यज्ञशतं पुरा

॥२॥

प्रतिष्ठाप्य महालिंगं सर्वपातकनाशनम् ॥

मध्यभागेऽत्र यल्लिंगं कोटिमेधेति विश्रुतम्

॥३॥

तत्रेष्टा ब्रह्मणा पूर्वं कोटि संख्या मखोत्तमाः ॥

संस्थाप्य तु महादेवं शंकरं लोकशंकरम

॥४॥

तस्य उत्तरभागस्थं सहस्रक्रतुसंज्ञकम् ॥

शक्रश्च देवराजोऽपि सहस्रं यष्टवान्क्रतून्

॥५॥

प्रतिष्ठाप्य महालिंगं देवानामादिदैवतम् ॥

गंधपुष्पादिविधिना पंचामृतरसोदकैः

॥६॥

स प्राप्नुयात्फलं देवि लिंगनामोद्भवं क्रमात् ॥

गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः

॥७॥

दशलक्षाणि तीर्थानां तत्र तिष्ठंति भामिनि ॥

लिंगत्रयं तथा मध्ये सर्वपातकनाशनम्

॥८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दशाश्वमेधमाहात्म्ये शतमेधादि लिंगत्रयमाहात्म्यवर्णनंनाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३५ ॥